११६ चित्रकूटे मुनि-रामसंवादः

प्रतिप्रयात इति । सोद्वेगं सभयम्, औत्सुक्यम् आश्रयान्तरगमनौत्सुक्यं लक्षयामास, इङ्गिताकारादिभिरिति शेषः ॥ २।११६।१ ॥

य इति । पुरस्तात्पुर्वं चित्रकूटस्य तापसाश्रमे राममाश्रित्य ये निरताः तानुत्सुकान् गमनोत्सुकानलक्षयत् राम इत्यनुषङ्गः ॥ २।११६।२ ॥

नयनैरिति । रामं निर्दिश्य प्रदर्श्य । मिथः रहस्ये ॥ २।११६।३ ॥

आत्मनि शङ्कितः स्वस्मिन् सञ्जातशङ्कः ॥ २।११६।४ ॥

हे भगवन् मयि पूर्ववृत्तं न दृश्यते कच्चित् विकृतं दृश्यते कच्चित् । येन विकृतेन विकारेण तपस्विनः विक्रियन्ते । इदं किञ्चित् किमिदमिति योजना ॥ २।११६।५ ॥

प्रमादात् अनवधानात् । मे अवरजस्य लक्ष्मणस्यात्मनो नानुरूपमिह चरितं दृष्टं कच्चिदिति योजना ॥ २।११६।६८ ॥

कुत इति । कल्याणसत्त्वायाः कल्याणस्वभावायाः ॥ २।११६।९ ॥

त्वन्निमित्तं त्वत्तो हेतोः रक्षोभ्य इदं रक्षोभ्यस्समागतं वक्ष्यमाणमुपद्रवजातम् ॥ २।११६।१० ॥

रावणावरज इत्यादि श्लोकद्वयमेकं वाक्यम् । जितकाशी जितेन जयेन काशते प्रकाशत इति तथा । यद्वा जितकाशी जिताहवः खरः तापसानुत्पाट्य तापसान्निष्कास्य त्वां च न मृष्यते अत्र तवावस्थानं न सहत इत्यर्थः ॥ २।११६।११,१२ ॥

विप्रकुर्वान्ति अपकुर्वन्तीत्यर्थः ॥ २।११६।१३ ॥

बीभत्सैः जुगुप्सितैः भीषणकै रूपैर्दर्शयन्ति भयमिति शेषः ॥ २।११६।१४ ॥

अशुचिभिरशुचिद्रव्यैः । संप्रयुज्य संयोज्य । अपरान् प्रतिघ्नन्ति ॥ २।११६।१५ ॥

अबुद्धम् अविदितं यथा तथा अवलीय रमन्ते विहरन्ति ॥ २।११६।१६ ॥

सवने समुत्थिते होमकर्मणि प्रवृत्ते सति ॥ २।११६।१७ ॥

प्रजिहासवः प्रकर्षेण हातुमिच्छवः ॥ २।११६।१८ ॥

शरीरीं शरीरसम्बन्धिनीम् । पुरादर्शयन्ति दर्शयिष्यन्तीत्यर्थः ॥ २।११६।१९,२० ॥

अयुक्तमिति क्रियाविशेषणम् । पुरा प्रवर्तते प्रवर्तिष्यते प्रवर्तिष्यते ॥ २।११६।२१ ॥

सन्देहः सन्देहजनकः । यत्तस्य सन्नद्धस्य । दुःखं दुःखहेतुः ॥ २।११६।२२ ॥

उत्तरैर्वाक्यैः अवबद्धुं न शशाक ऽमयि वर्तमाने युष्माकं का भीतिः अहमेव परितो रक्षामि ऽइत्याद्युत्तरवाक्यैर्नियोक्तुं न शशाकेत्यर्थः ॥ २।११६।२३ ॥

कुलैः ऋषिसङ्घातैः । “कुलं सङ्घातवंशयोः " इति वैजयन्ती ॥ २।११६।२४ ॥

ऋषिगणं तस्माद्देशादाश्रमप्रदेशात् । अनुगमनात्संसाद्य प्रस्थाप्य कुलपतिमभिवाद्य तैरुपदिष्टार्थः उपदिष्टप्रयोजनस्सन् वासाय पुण्यं स्वनिलयम् उपसम्पेद इति सम्बन्धः ॥ २।११६।२५ ॥

ऋषिविरहितमप्याश्रमं क्षणान्न जहौ मुनिशून्यतया तदैव त्याज्यमप्याश्रमं मुनिविषयप्रेम्णा क्षणमात्रं न त्यक्तवान् । मुनिकर्तृकरामविषयस्नेहहेतुमाह तापसाश्चार्षचरितधृतगुणाः रामस्यार्षचरित्रेणासञ्जितगुणाः ॥ २।११६।२६ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायां षोडशोत्तरशततमः सर्गः ॥ २।११६ ॥