नन्दिग्राममिति । राघवं विना दुःखं राघवं विना प्राप्तं दुःखम् । रामविश्लेषजनितदुःखमिति यावत् । सुभृशं श्लाघनीयं चेति पाठः । सदृशं श्लाघनीयमिति पाठे कुलस्य सदृशमित्यर्थः ॥ २।११५।२५ ॥
नित्यमिति । आर्यं श्रेष्ठं नानुमन्येत, तव वचनमिति शेषः ॥ २।११५।६१३ ॥
मातृवरव्याजेन पित्रा दत्तं राज्यं भरतः करोतीति जनापवादो माभूदित्याहएतदिति । संन्यासवत् सम्पङ्निक्षिप्तद्रव्यमिव । अनेन अनृणतया प्रत्यर्पणीयत्वं ध्वन्यते । निक्षिप्तवद्दत्तस्य राज्यस्य रक्षणादिस्वातन्त्र्यमपि स्वस्य नास्तीति दर्शयति योगक्षेमवहे चेति ॥ २।११५।१४ ॥
संन्यासं पादुके स्वप्रतिनिधित्वेन न्यस्तपादुके । छत्रमित्येतच्चामरादीनामुपलक्षणम् । मम गुरोराभ्यां पादुकाभ्यां राज्ये धर्मः स्थित इति सम्बन्धः ॥ २।११५।१५,१६ ॥
भ्रात्रेति । अयं संन्यासः पादुकाप्रतिनिधिः । तं पादुकाप्रतिनिधिं पालयिष्यामि रक्षिष्यामि ॥ २।११५।१७,१८ ॥
राघवेण समागतस्सङ्गतः गुरवे रामाय राज्यं निवेद्य प्रप्त्यर्प्य गुरुवृत्तितां भजिष्ये पितरीव शुश्रूषां करिष्यामीत्यर्थः ॥ २।११५।१९ ॥
राघवायेति । संन्यासं वरपादुके रामप्रतिनिधिरूपश्रेष्ठपादुके राज्यमयोध्यां च दत्त्वा धूतपापो भवामीति सम्बन्धः ॥ २।११५।२० ॥
हृष्टे पुलकितगात्रे । मुदिते सञ्जातमानसहर्षे ॥ २।११५।२१२४ ॥
सर्वं शासनं सर्वं कृत्यमित्यर्थः । न्यवदेयत् विज्ञापयामास ॥ २।११५।२५ ॥
आर्यपादुके अभिषिच्य राज्याभिषेकमार्यपादुकयोः कृत्वेत्यर्थः । तदधीनः पादुकापरतन्त्रः ॥ २।११५।२६ ॥
यत्कार्यं राज्यपरिपालनकृत्यं यदुपायनं वस्त्रपुष्पफलादिकं पादुकाभ्यां प्रथमं निवेद्य पश्चाद्यथावच्चकार, सर्वं कृत्यमिति शेषः ॥ २।११५।२७ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायां पञ्चदशोत्तरशततमः सर्गः ॥ २।११५ ॥