११४ अयोध्याप्रवेशः

स्निग्धेति । उपयान् समीपं गच्छन् ॥ २।११४।१ ॥

कालीं कृष्णपक्षसम्बन्धिनीम् ॥ २।११४।२ ॥

राहुशस्त्रोः चन्द्रस्य ॥ २।११४।३,४ ॥

हविरभ्युक्षितां दध्यादिहविषाभ्युक्षिताम् । शिखां प्रवर्ग्यौत्थितशिखाम् ॥ २।११४।५७ ॥

यज्ञायुधैः स्फ्यादिभिः । सुत्याकाले यागसमाप्तिदिवसे ॥ २।११४।८ ॥

अचरन्तीम् अभक्षयन्तीम् । गवां पत्तिं गवां पङ्क्तिमिवेत्यर्थः ॥ २।११४।९ ॥

प्रभाकरः पद्मरागः आद्यो येषां तैः । मणिभिः नायकमणिभिः ॥ २।११४।१० ॥

संहृतद्युतिविस्तारां उपसंहृतप्रकाशाम्, क्षीणपुण्यत्वात् ॥ २।११४।११ ॥

वसन्तान्ते वसन्तमध्ये । पुष्पनद्धां पुष्पोपेताम् । द्रुतदावाग्निविप्लुष्टां वेगवदद्दावाग्निना ईषद्दग्धाम् ॥ २।११४।१२ ॥

सम्मूढनिगमां सम्मूढः जनरहितः निगमः पन्था यस्यां ताम् । “निगमो निश्चये वेदे पुरे पथि वणिक्पथे " इति वैजयन्ती । संक्षिप्तविपणापणां सङ्कुचितविक्रयां सङ्कुचितनिषद्यां च ॥ २।११४।१३ ॥

क्षीणपानोत्तमैः क्षीणमद्योत्तमैः । हतशौण्डां हतमत्तजनाम् । आकाशे अनावृतप्रदेशे । शरावैश्चषकाकारैः । वृक्णभूमितला विदीर्णभूमितलाम् । वृक्णपात्रैः भिन्नपात्रैः ॥ २।११४।१४,१५ ॥

विततां धनुषि समारोपिताम् । युक्तपाशां बद्धरज्जुम् कोटिद्वयबन्धनार्थं ज्याया आद्यन्तयोः द्वौ पाशौ स्तः । तरस्विनां वीराणाम् । बाणैर्विनिष्कृत्तां छिन्नाम् । आयुधात् धनुषः ॥ २।११४।१६ ॥

युद्धशौण्डेन निक्षिप्तभाण्डां अवरोपिताश्वभूषाम् । किशोरीं बालाश्वाम् । प्रविगाढायां निबिडायाम् । उक्तविशेषणविशिष्टामयोध्यां प्रविवेशेति पूर्वेण सम्बन्धः ॥ २।११४।१७२२ ॥

वारुणीमदगन्धः वारुण्या मदोत्कटो गन्ध इत्यर्थः ॥ २।११४।२३२६ ॥

सहेति । सासारा वेगवद्वृष्टिसहिता । अर्जुनी शुक्लपक्षसम्बन्धिनी । यद्वा अर्जुनी शारदी ॥ २।११४।२७ ॥

महोत्सवः ग्रीष्मे अम्बुद इव च अयोध्यां यदा मे भ्राता हर्षं जनयिष्यतीति सम्बन्धः ॥ २।११४।२८ ॥

तरुणैरिति । उन्नतगामिभिः सगर्वगमनैरित्यर्थः । महापथाः राजमार्गाः ॥ २।११४।२९,३० ॥

उज्झितप्रभं अन्तःपुरं निरीक्ष्येति सम्बन्धः । सुरैरिवोत्सृष्टमभास्करं दिनमित्यत्रैवं श्रूयतेपुरा किल देवासुरयुद्धे असुरैर्देवाः पराजिताः, स्वर्भानुना च भानुः पातितः, तदानीं कियान् कालो दिवारात्रविभागरहितो ऽभूत् । ततःपरं ब्रह्मनियोगादत्रिः सप्ररात्रं सूर्याधिपत्यं चकारेति पौराणिकी कथा ॥ २।११४।३१ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायामयोध्याकाण्डव्याख्यायां चतुर्दशोत्तरशततमः सर्गः ॥ २।११४ ॥