११३ भरतस्य प्रतिनिवर्तनम्

तत इति । पादुके शिरसि कृत्वा शत्रुञ्जयनागमूर्ध्नि निक्षिप्ते पादुके सादरमादाय स्वमूर्ध्नि निधायेत्यर्थः ॥ २।११३।१ ॥

मन्त्रपूजिताः अमोघकार्यविचारनैपुण्येन पूजिताः ॥ २।११३।२ ॥

मन्दाकिनीं उद्दिश्येति शेषः ॥ २।११३।३ ॥

तस्य चित्रकूटस्य ॥ २।११३।४८ ॥

गुरुणा वसिष्ठेन ॥ २।११३।९ ॥

मम चतुर्दशवर्षाणि पितुर्या प्रतिज्ञा, अस्तीति शेषः । मया चतुर्दशवर्षाणि वने वस्तव्यमिति कैकेयीनिमित्तं कृता पितुर्या प्रतिज्ञास्ति तामेव पालयिष्यामि तत्त्वत इति सम्बन्धः ॥ २।११३।१०,११ ॥

एते इति । अप्राप्तस्य प्राप्तिर्योगः, प्राप्तस्य परिपालनं क्षेमः ॥ २।११३।१२१५ ॥

नैतदिति । आर्यं ज्येष्ठानुवर्तनरूपं क्षेयः ॥ २।११३।१६२० ॥

भरद्वाजाश्रमागमनात्पूर्वमेव भरतस्य सेनायाश्च आगमनप्रकारमाहतत इति । यमुनां तीर्त्वा गच्छन्तः ते सर्वे ततो गङ्गां ददृशुरिति सम्बन्धः ॥ २।११३।२१२४ ॥

सारथ इति । विध्वस्ता रामवियोगजदुःखेन पीडितेत्यर्थः । निराकारा निर्गतशोभनाकारा ॥ २।११३।२५ ॥

इति श्रीमहेश्वरतीर्थविरचितायां रामायणतत्त्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायां त्रयोदशोत्तरशततमः सर्गः ॥ २।११३ ॥