११२ पादुकाप्रदानम्

तमिति । भ्रातृभ्यां सङ्गमं भ्रातृभ्यामन्योन्यमतिशयितसौहार्देन कृतं सङ्गमं प्रेक्ष्य विस्मिताः, अभूवन्निति शेषः ॥ २।११२।१ ॥

अन्तर्हिताः पूर्वमेवान्तर्धानं प्राप्ताः । ऋषिगणाः राजर्षिगणाः, सिद्धा देवजातिविशेषाः । परमर्षयः देवर्षयः ॥ २।११२।२ ॥

स धन्य इति । धर्मविक्रमौ धर्ममार्गवर्तिनावित्यर्थः । वयमुभयोः सम्भाषां श्रुत्वा स्पृहयामहे पुनःपुनः श्रोतुं वाञ्छाम इत्यर्थः ॥ २।११२।३ ॥

तत इति । सङ्गताः ऐक्यं प्राप्ताः ॥ २।११२।४ ॥

पितरं यद्यवेक्षसे पितरं सुखावस्थितं मन्यस इत्यर्थः ॥ २।११२।५८ ॥

स्रस्तगात्र इति । सज्जमानया स्खलन्त्या ॥ २।११२।९ ॥

राजधर्मं प्रजापालनरूपम् । कुलधर्मानुसन्ततिं ज्येष्ठाभिषेकरूपकुलधर्मस्यानुक्रमणम् ॥ २।११२।१० ॥

रक्तान् अनुरक्तान् ॥ २।११२।१११५ ॥

आगतेति । स्वजा सहजा । वैनयिकी विनयो गुरुशिक्षा ततः प्राप्ता । इयमुभयाकारा बुद्धिस्त्वामागतां त्वां पूर्वमेव प्राप्तवती, अतो भृशमुत्सहसे नितरां शक्नोपि ॥ २।११२।१६ ॥

अमात्यैः प्रधानसचिवैः । मन्त्रिभिः उपमन्त्रिभिः ॥ २।११२।१७ ॥

लक्ष्मीरिति । पितुः प्रतिज्ञां न त्यजेयमिति शेषः ॥ २।११२।१८ ॥

कामादिति । कामात् त्वद्विषयस्नेहात् । लोभात्त्वद्व्याजेन राज्यकारणलोभात् । मातृवत् मातरीव ॥ २।११२।१९ ॥

तेजसादित्यसङ्काशमित्यनेन परैरप्रधृष्यत्वम्, प्रतिपच्चन्द्रमित्यनेन सर्वैरपि पूज्यतया दृश्यमानत्वं वर्द्धिष्णुत्वं च द्योत्यते ॥ २।११२।२० ॥

अत्र रामं प्रति भरतकृतपादुकाप्रार्थनं प्रातीयते । तत्र रामं प्रति वसिष्ठनियोगानन्तरमेवेत्यवगन्तव्यम् । ऽएते प्रयच्छ संहृष्टः पादुके हेमभूषिते ऽ इत्युपरि भरद्वाजं प्रति भरतेनानूद्यमानत्वात् ॥ २।११२।२१,२२ ॥

चतुर्दश हीत्यादि श्लोकद्वयमेकं वाक्यम् । जटाचीरधरः फलमूलाशनः तव पादुकयोः न्यस्तराज्यतन्त्रश्च भवेयमिति सम्बन्धः । चतुर्दशे वर्षे सम्पूर्णे सति अहनि

पञ्चदशवर्षप्रादुर्भावप्रथमदिवसे त्वां न द्रक्ष्यामि यदि हुताशनं प्रवेक्ष्यामि ॥ २।११२।२३३१ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायाम् अयोध्याकाण्डव्याख्यायां द्वादशोत्तरशततमः सर्गः ॥ २।११२ ॥