१११ राम-भरतसंवादः

मन्वादीनारभ्यैतावत्पर्यन्तं ज्येष्ठेनैव राज्यं परिपाल्यत इति श्रुते ऽपि तदनङ्गीकारमालोच्य पितृवचनादपि पितुस्तव च गुरोर्मम वचनं करणीयमिति वक्तुमुपक्रमते वसिष्ठ इत्यादिना । राजपुरोहितः राज्ञः पुरोहितं चिन्तयतीति राजपुरोहितः । तस्मात्प्रज्ञादानाद्धेतोराचार्यो गुरुरुच्यते, पितुरपि गरीत्यनित्यर्थः ॥ २।१११।१३ ॥

नातिवर्तेः सतां गतिम् सतां वर्तनं नातिवर्तेः नातिक्रामेः, पितृस्वगुरुवचनपरिपालनरूपवर्तनं नातवर्तेथा

इत्यार्थः ॥ २।१११।४ ॥

इमा इति । परिषदः ब्रह्मणसमूहः । श्रेणयः परिजनाः द्विजाश्च क्षत्रियवैश्याश्च ते त्वत्सम्बन्धिनः । धर्मं प्रजापालनरूपम् ॥ २।१११।५ ॥

अवर्तितुम् अशुश्रूषितुम् नार्हसि ॥ २।१११।६ ॥

भरतस्येति । याचमानस्य ऽ सान्त्विता मामिका माता ऽ इत्यादिना प्रार्थयमानस्येत्यर्थः । आत्मानं सत्यधर्मनिष्णातत्वस्वभावम् ॥ २।१११।७,८ ॥

ऽसति धर्मिणि धर्माश्चिन्त्यन्तेऽ इति न्यायेन सर्वधर्मसम्पादने प्रधानसाधनभूतस्य शरीरस्योत्पादकत्वात् अत्यन्ताज्ञानदशायामपि सर्वप्रकारसंरक्षणेन बहुश उपकारकत्वाच्च आचार्यवचनादपि पितृवचनमवश्यं कर्तव्यमित्यभिप्रायेणाहयन्मातापितरावित्यादिश्लोकद्वयेन । तनये तनयसम्पादननिमित्तम् । यद्वृत्तं यद्व्रतम् । व्रतोपवासदेवताराधनादिकं मातापितरौ कुरुतः तन्न सुप्रतिकरं सुतरामशक्यप्रतिक्रियम् । मात्रा पित्रा च उत्पत्त्यनन्तरं यथाशक्ति प्रदानेन स्तन्यान्नाच्छादनादिप्रदानेन प्रियवादेन संवर्द्धनेन च यत्कृतं तच्च न सुप्रतिकरमिति सम्बन्धः ॥ २।१११।९,१० ॥

स हीति । जनयिता पिता गौणः पिता न भवतीत्यर्थः । आज्ञातं चतुर्दशवर्षाधिवनवासरूपमाज्ञापनम् । मयेति हेतौ तृतीयाः ॥ २।१११।११ ॥

प्रत्यनन्तरं समीपवर्तिनम् ॥ २।१११।१२ ॥

उपवेक्ष्यामि उपरोत्स्यामीत्यर्थः ॥ २।१११।१३ ॥

निरालोकः अवकुण्ठिताननः । धनहीनः वृद्ध्यर्थमृणं दत्त्वा तद्ग्रहणार्थमधमर्णावरोधकोत्तमर्णो धनहीन इत्यर्थः ॥ २।१११।१४ ॥

स त्विति । स्वयमेव कुशोत्तरं कुशास्तरणम् । भूमावुपस्थाप्य आस्तरत् शयनं कृतवानित्यर्थः ॥ २।१११।१५ ॥

किं कुर्वाणं किमपकारं कुर्वाणम् ॥ २।१११।१६ ॥

एकपार्श्वेन एकपार्श्वशयनेन । ब्राह्मणो हि अधमर्णाद्वृद्धिसहितऋणगृहीतोत्तमर्ण इत्यर्थः । तादृशः खलु नरान् रोद्धुमर्हति । मूर्द्धाभिषिक्तानां राजन्यानां प्रत्युपवेशने विरोधने विधिः न राज्ञामेतादृशनिर्बन्धो योग्यो न भवतीत्यर्थः ॥ २।१११।१७,१८ ॥

आसीन इति । नानुशासथेत्यत्रेतिकरणं द्रष्टव्यम् ॥ २।१११।१९ ॥

ते इति श्लोकद्वयमेकं वाक्यम् । काकुत्स्थं रामम् अभिजानीमः सत्यसन्धं जानीम इत्यर्थः । व्यावर्तयितुं निवर्तयितुम् । न शक्ताः स्म इति तं भरतमूचुरिति सम्बन्धः ॥ २।१११।२०२२ ॥

एतदिति । एददुभयं ऽपुरवर्यामितः क्षिप्रमयोध्यां याहि राघव ऽ इति मद्वचनं ऽएषो ऽपि हि महाभागः पितुर्वचसि तिष्ठति ऽ इत्यादिमहद्वचनं चोभयं श्रुत्वा सम्यक्संपश्य सम्यक् परिगृहाण मां च स्पृश तथोदकमित्युक्तिः क्षत्रियाविहितप्रत्युपवेशनप्रायश्चित्तार्थम् ॥ २।१११।२३,२४ ॥

न याचे न याचितवानस्मि । नानुशासामि एवं कुर्विति नानुशिष्टवानित्यर्थः । परमधर्मज्ञं नानुजानामि । नाभिजानामीतिपाठे आर्यं वनवासोद्युक्तं न रज्ञातवानस्मीत्यर्थः । अवश्यं पितृवचनं कर्तव्यं वने वस्तव्यं चेति यदि मन्यसे अहमेव त्वत्प्रतिनिधित्वेन वने वत्स्यामि, त्वं मत्प्रतिनिधित्वेन अयोध्यां पालय, एवं च सत्युभाभ्यां पितृवचनं कृतं भवेदित्यर्थः ॥ २।१११।२५२७ ॥

विक्रीतं द्रव्यं गृहीत्वा दत्तं वस्तु, आहितम् आधिरूपत्वेन न्यस्तं, क्रीतम् द्रव्यं दत्त्वा गृहीतं वस्तु । उपधिः प्रतिनिधिः । मया वनवासकरणशक्तिमता । वनवासे वनवासविषये न कार्यः ॥ २।१११।२८,२९ ॥

जानामीति । अत्रास्मिन् भरते भरतविषये सर्वं कल्याणं भविष्यतीति शेषः ॥ २।१११।३०,३१ ॥

विक्रीतमित्यादिना पौरजनमाश्वास्य पुनर्भरतं प्रत्याहवृत इति । तद्वचनं तस्याः कैकेय्याः वचनं मया कृतं त्वमपि अनेन मद्वचनकरणेन पितरमनृतान्मोचयेति सम्बन्धः ॥ २।१११।३२ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायाम् अयोध्याकाण्डव्याख्यायामेकादशोत्तरशततमः सर्गः ॥ २।१११ ॥