११० वसिष्ठसूचनम्

ज्येष्ठस्य राज्यप्राप्तिं वक्तुमादिकारणमारभ्य राजपरम्परामाह इमामित्यादिना ॥ २।११०।२ ॥

सर्वमिति । यत्र यस्मिन्नधिकरणे सर्वं सलिलमासीत् सलिलव्याप्तमासीत् तत्र पृथिवी निर्मितेति सम्बन्धः । ततस्सलिलात् सः प्रसिद्धो नारायणः वराहो भूत्वा ततस्सलिलाद्वसुन्धरां प्रोज्जहारेत्यर्थः ॥ २।११०।३ ॥

असृजदिति । आकाशप्रभवः आकाशशब्देन तत्कारणमव्यक्तं लक्ष्यते, ब्रह्मा जगदसृजदिति सम्बन्धः । तस्माद्ब्रह्मणः ॥ २।११०।४।५ ॥

मनोः सुतः इक्ष्वाकुः पूर्वं प्रजापतिः, जनेश्वर इत्यर्थः ॥ २।११०।६१४ ॥

उदपद्यन्त अभवन् ॥ २।११०।१५ ॥

तांस्त्विति । प्रतिव्यूह्य चक्रादिव्यूहं कृत्वा । शैलवरे हिमवति मुनिर्बभूव वानप्रस्थो बभूवेत्यर्थः ॥ २।११०।१६ ॥

श्रुतिः जनवादः ॥ २।११०।१७ ॥

उपाश्रित,अभूदिति शेषः ॥ २।११०।१८,१९ ॥

सा देवी तमृषिमनुमान्य सम्पूज्य ततो गृहमागम्य पद्मपत्रसमानाक्षं पुत्रं व्यजायत व्यजनयत् ॥ २।११०।२०,२१ ॥

इष्ट्वा दीक्षां कृत्वा पर्वणि वेगेन अम्बुवेगेन । इमाः प्रजाः त्रासयन्तं समुद्रमखानयत, पुत्रैरिति शेषः ॥ २।११०।२२२६ ॥

तद्वीर्यं वसिष्ठशापाद्राक्षसत्वं प्राप्तस्य कल्माषपादस्य पराक्रममासाद्य व्यनीनशत् नाशं प्राप्तवानित्यर्थः । कल्माषपादः राक्षसभावेन स्वसैन्यं स्वपुत्रं शङ्खणमपि भक्षितवानिति कथा ॥ २।११०।२७३१ ॥

दायादः सुतः ॥ २।११०।३२ ॥

पूर्वजे विद्यमाने अवरः कनिष्ठः पुत्रः राज्ये नाभिषिच्यते किन्तु ज्येष्ठ एवाभिषिच्यते ॥ २।११०।३३,३४ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदिपिकाख्यायाम् आयोध्याकाण्डव्याख्यायां दशोत्तरशततमः सर्गः ॥ २।११० ॥