जाबालेरिति । सत्यात्मनां सत्यप्रवणस्वभावानाम् । अविपन्नया विपदमप्राप्तया, धर्माचलितयेति यावत् ॥ २।१०९।१ ॥
प्रियकामार्थं प्रियाभिलाषनिमित्तम् यद्वचनमुक्तवान् अकार्यं सत् कार्यसङ्काशं कार्यत्वेन प्रतीयमानम् । पथ्यसम्मितं पथ्यवदवभासमानम् । अपथ्यं दुःखोदर्कमिति यावत् ॥ २।१०९।२ ॥
निर्मर्यादमिति । निर्मर्यादः उत्पथे वर्तमानः । मानं पूजाम् । भिन्नचारित्रदर्शनः वेदविहिताचाराद्भिन्नाचारप्रतिपादकमतप्रवर्तक इत्यर्थः ॥ २।१०९।३ ॥
सज्जनासज्जनस्वरूपं केन कारणेन ज्ञायत इत्यत आहकुलीनमिति ॥ २।१०९।४ ॥
अनार्यमित्यादिश्लोकत्रयमेकं वाक्यम् । आर्यसङ्काशः शुचिः । लक्षण्यः लक्षणयुक्तः शीलवांश्चाहम् । अनार्यः शौचाद्धीनः अलक्षण्यः दुश्शील इव शुभं हित्वा शुभसाधनवैदिकधर्मं हित्वा । लोकसङ्करं लोकसङ्करकारकम् । क्रियाविधिवर्जितं वैदिकक्रियया वेदविधिना च वर्जितम् । इदं त्वदुक्तमधर्मम् । धर्मवेषेण धर्मत्वेनाभिपत्स्ये यदि तदा दुर्वृत्तं मां चेतयानः चेतनः पुरुषः कः लोके बहुमंस्यति न कोपीत्यर्थः ॥ २।१०९।५७ ॥
कस्येति । अहं हीनप्रतिज्ञया चतुर्दशवर्षावधि वनवासप्रतिज्ञारहितया अनया वृत्त्या “प्रत्यक्षं यत्तदातिष्ठ परोक्षं पृष्ठतः कुरु " इति त्वदुक्तया वृत्त्या । वर्तमानस्सन् । वृत्तं त्वदुक्ताचरणम् । कस्य दास्यामि कस्योपदेक्ष्यामीत्यर्थः । केन साधनेन वा स्वर्गमाप्नुयामिति योजना ॥ २।१०९।८ ॥
त्वदुक्ताचरणे सर्वजनस्यापि परलोकहानिः स्यादित्यत आहकामवृत्त इति ॥ २।१०९।९ ॥
सत्यप्रशंसापूर्वकं सत्यनिष्ठां दर्शयन् सत्यरूपं स्वमतं स्थापयतिसत्यमेवेत्यादिना । अनृशंसं भूतानुकम्पाप्रधानं सनातनं च राजवृत्तं च सत्यमेव सत्यरूपमेव । तस्माद्राजवृत्तस्य सत्यरूपत्वात् राज्यं राज्यस्थजनजातम् । सत्यात्मकं सत्यरूपम् सत्यप्रधानमित्यर्थः । लोक इति जात्येक वचनम् ॥ २।१०९।१० ॥
परमं क्षयम् उत्कृष्टस्थानम् ॥ २।१०९।१११३ ॥
सत्यप्रतिष्ठानाः सत्याधाराः दत्तादीन्यपि सत्यप्रतिष्ठानानीति वचनव्यत्ययेन योजनीयानि ॥ २।१०९।१४ ॥
प्रस्तुतसत्यनिष्णातस्य ऐहिकामुष्मिकं फलं तद्रहितस्य निरयप्राप्तिं च दर्शयतिएक इति ॥ २।१०९।१५ ॥
सोहमिति । सत्यप्रतिश्रवः सत्यसन्धः । समयीकृतः “तद्ब्रूहि वचनं देवि राज्ञो यदभिकाङ्क्षितम् । करिष्ये प्रतिजाने च " इति शपथेन प्रतिज्ञावान् कृतः । सोहं सत्यं पितृर्निदेशं किमर्थं नानुपालये पालयिष्याम्येव ॥ २।१०९।१६ ॥
नैवेति । लोभात् राज्यलोभात् । मोहान् विप्रलम्भवाक्यश्रवणजनितचित्तविभ्रमात् । अज्ञानात् ज्ञानाभावात् । तमो ऽन्वितः तमोगुणयुक्तः । सत्यस्य सेतुं ऽकरिष्यामि तव प्रीतिं सुकृतेनापि ते शपेऽ इत्युक्त सत्यवचनस्य मर्यादाम् ॥ २।१०९।१७ ॥
असत्यसन्धस्येति । चपलस्य चपलस्वभावस्य । न प्रतीच्छन्ति न स्वीकुर्वन्ति । हव्यकव्यादिकर्मीति शेषः । नः अस्माभिः श्रुतम् ॥ २।१०९।१८ ॥
प्रत्यगात्ममिति । अहं सत्यं सत्यरूपमिमं धर्मम् । प्रत्यगात्मम् आत्मनि प्रत्यक्षीकृतम् आत्मनि प्रतिमुखीकृतं स्वयं पश्यामि आत्मानं प्रत्यविनाभूतत्वेनावृतं पश्यामीत्यर्थः । सत्पुरुषाचीर्णः सत्पुरुषैराजरितः, सम्पादित इत्यर्थः । भारः जटावल्कलादिभारः, तदर्थसत्यरूपधर्मार्थमभिनन्द्यत इत्यर्थः ॥ २।१०९।१९ ॥
पूर्वैराचरितं सत्यं परित्यज्य त्वदुक्तरीत्या राज्यं नाङ्गीकरिष्यामीत्याहक्षात्रमिति । अधर्ममधर्मप्रचुरम् । धर्मसंहितं धर्मलेशसहितम् अधर्मप्रचुरधर्मलेशयुक्तक्षत्रियधर्ममहं त्यक्ष्य इत्यर्थः ॥ २।१०९।२०,२१ ॥
भूमिरिति । पुरुषं प्रार्थयन्ति, सत्यभागिनमिति शेषः । कीर्तिः वितरणजनिता प्रथा ॥ २।१०९।२२ ॥
अवधार्य निश्चित्य । इदं भद्रं कुरुष्वेति भवान् युक्तिकरैर्वाक्यैर्मां यदाह तदकार्यमेव स्यात् ॥
२।१०९।२३ ॥
ऽप्रत्यक्षं यत्तदातिष्ठ परोक्षं पृष्ठतः कुरुऽ इत्येतस्य जाबालिवाक्यस्योत्तरमभिधाय ऽराज्यं त्वं प्रतिगृह्णीष्व भरतेन प्रसादितः ऽ इत्यस्योत्तरमाह कथमिति ॥ २।१०९।२४,२५ ॥
वनवासमित्यादिश्लोकद्वयमेकं वाक्यम् । वसन् कुर्वन् । नियतभोजनः नियतवन्याहारः तेन सन्तुष्टपञ्चवर्गः सन्तुष्टेन्द्रियवर्गः । लोकयात्रां पितृवचनपरिपालनरूपलोकादिवर्तनं प्रवर्तये । अकुहः अकृत्रिमः अमायावी सन् ॥ २।१०९।२६,२७ ॥
कर्मभूमिमित्यादिश्लोकद्वयमेकं वाक्यम् । यच्छुभं कर्म तत्कर्तव्यम्, जनैरिति शेषः । शुभकर्मकर्तव्यमित्यत्र हेतुमाहअग्निरित्यादिना । कर्मणां कर्मभूमौ कृतस्वस्वकर्मणां फलभागिनः अग्नित्वादिकं कर्मफलत्वेन प्राप्तवन्तः । अग्न्यादयस्तु जन्मान्तरे कर्मभूमौ शुभकर्म कृत्वा इदानीमग्नित्ववायुत्वसोमत्वादिकं प्राप्ताः, अतस्सर्वैरपि शुभकर्मैव कर्तव्यमिति भावः ॥ २।१०९।२८,२९ ॥
अमृष्यमाण इति । नास्तिकवाक्यहेतुं ऽयदि भुक्तमिहान्येन देहमन्यस्य गच्छति । दद्यात्प्रवसतः श्राद्धं न तत्पथ्यशनं भवेत् " इत्यादि नास्तिकवाक्यरूपतर्कं विगर्हमाणः ॥ २।१०९।३०,३१ ॥
तेनेति । येन त्रिदिवस्य पन्थानमाहुः तेन हेतुना विप्राः एवमर्थं यथावदाज्ञाय श्रुत्वा एकोदयं सम्प्रतिपद्य एकमुखं प्राप्य एकमनसो भूत्वा सकलं धर्मं स्ववर्णाश्रमोचितं धर्मम् । अप्रमत्ताः सावधानाः यथावच्चरन्तः अनुतिष्ठन्तः । लोकगमं परलोकप्राप्तिं कांक्षन्तीति योजना ॥ २।१०९।३२ ॥
निन्दामीति । विषमस्थबुद्धिम् अवैदिकमार्गनिष्णातबुद्धिम् । अनया बुद्ध्या चार्वाकमतानुसारिण्या बुद्ध्या ॥ २।१०९।३३ ॥
प्रत्यक्षैकप्रमाणवादी चार्वाकमतानुसारी जाबालिरिव प्रत्यक्षमात्रप्रमाणवादी बुद्धमतावलम्बी राज्ये यदि कश्चित्सम्भवेत्सोपि निराकरणीय इत्याहयथाहीति । चोरो यथा निराकरणीयः स वेदबाह्यत्वेन प्रसिद्धा बुद्धः तथैव निराकरणीयः । अत्र अस्मिंल्लोके नास्तीकं चार्वाकमपि तथागतं विद्धि बुद्धतुल्यं विद्धि, तस्मात्प्रजानां यः शङ्क्यतमः अवैदिकत्वेन परिहर्तव्यः । तेन नास्तिकेन बुधः अभिमुखो न स्यात् । शक्यतम इति पाठे बहिष्कर्तुं च योग्य इत्यर्थः ॥ २।१०९।३४ ॥
ऐहिकामुष्मिकफलसाधने धर्मे शिष्टाचारं प्रमाणयतित्वत्त इति । त्वत्तः पूर्वतरे पुरातनाः वराश्च ज्ञानतः श्रेष्ठजनाः बहूनि कर्माणि शुभानि कर्माणि चक्रुः । ते इमं च परलोकं च जित्वा सदा वर्तन्त इति शेषः । सदावर्तमानत्वं ग्रहनक्षत्रादिरूपेण दृश्यमानत्वात् कर्मानुष्ठानस्यैहिकामुष्मिकफलसाधनत्वात् । द्विजाः स्वस्ति मङ्गलात्मकं कर्म । हुतं यज्ञादिकम्, कृतं तपो दानादि च कुर्वन्तीति शेषः ॥ २।१०९।३५३७ ॥
धर्मसङ्कटे प्राप्ते सर्वमतज्ञेन विदुषा यत्किञ्चिन्मतमवलम्ब्यापि तस्य परिहरणीयत्वात् महतो राज्यस्यानायकत्वरूपधर्मसङ्कटपरिहाराय त्वां निवर्तयितुं नास्तिकमतमुपन्यस्तम्, न त्वहं वस्तुतो नासितक इत्याह नेति । कञ्चन परलोकादिकम् नास्तीति न, अस्त्येव समीक्ष्य कालं पुनरास्तिको ऽभवम् । यदा वादिना नास्तिकमतमवलम्ब्यते तत्कालं समीक्ष्य पुनरास्तिको भवेयम् पुनः धर्मसङ्कटे काले नास्तिकः नास्तिकमतावलम्बी भवेयमित्यर्थः ॥ २।१०९।३८ ॥
स चेति । कारणात् तादृशकालगमनकारणात् ॥ २।१०९।३९ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायामयोध्याकाण्डव्याख्यायां नवोत्तरशततमः सर्गः ॥ २।१०९ ॥