आश्वासयन्तमिति । धर्मापेतं वैदिकधर्मविरुद्धम् ॥ २।१०८।१ ॥
साधु माभूत् सम्यङ्निवर्ततामित्यर्थः ॥ २।१०८।२ ॥
कस्यचित्पुरुषस्य केनचित्सम्बन्धेन किमाप्यं प्राप्यं किम् ? न किमपीत्यर्थः । तत्र हेतुः यदेक इति ॥ २।१०८।३६ ॥
पित्र्यं राज्यमिति रामाभिप्रायेणोक्तिः । पराभिप्रायेण परो बोधनीय इति न्यायादित्याशयः । कापथं कुत्सितमार्गम् । दुःखं दुःखप्रदम् ॥ २।१०८।७१० ॥
पिता जन्तोर्बीजमात्रम् अल्पकारणम्, प्रधानकारणं तु ऋतुमन्मात्रा संयुक्तं धृतं शुक्लं रुधिरमेव च तच्छुक्लशोणितमिह पुरुषस्य जन्मकारणं भवतीत्यर्थः ॥ २।१०८।११ ॥
गत इति । तेन यत्र येषु भूतेषु गन्तव्यं स नृपतिस्तत्र गतः, तेषु भूतेषु लयं प्राप्त इत्यर्थः । मर्त्त्यानां मरणशीलानां एषा प्रवृत्तिः अयं स्वभाव इत्यर्थः । त्वं तु मिथ्याविहन्यसे मिथ्याभूतेन पितृपुत्रादिसम्बन्धेन पीड्यस इत्यर्थः ॥ २।१०८।१२ ॥
अर्थधर्मपराः प्रत्यक्षसौख्यं विहाय केवलार्थधर्मसम्पादनपराः । इतरान् केवलप्रत्यक्षसुखानुभवपरायणान् न शोचामीत्यर्थः । अर्थसम्पादनविषये शोकहेतुमाह ते हीति । प्रेत्यापि विनाशं दुःखं भेजिर इति सम्बन्धः ॥ २।१०८।१३ ॥
अष्टकाश्राद्धं पितृदैवत्यं प्रतिसांवत्सरिकमित्यपि प्रसृतः प्रवृत्तः यो ऽयं जनः । तस्यान्नस्योपद्रवं क्षयं पश्य । तत्र हेतुः मृतो हीति ॥ २।१०८।१४ ॥
उक्तमेवार्थं तर्कमुखेन द्रढयतियदि भुक्तमिति । अन्येन भुक्तमन्नं अन्यस्य देहं गच्छति यदि तदा प्रवसतः श्राद्धं दद्यात् पथि गच्छन्तमुद्दिश्यान्नं भोजयेत् अन्यभुक्तमन्नं पथ्यशनं भवेत्, पथिकस्य पाथेयं भवेदित्यर्थः । नैवं दृश्यते अतो न भवतीति भावः ॥ २।१०८।१५ ॥
वैदिकाचारं सन्दूष्य तद्विधायकं शास्त्रं दूषयतिदानेति । दानसंवननाः दानाय वशीकरणोपायाः । मेधाविभिः द्रव्यग्रहणकुशलबुद्धिभिः । यजस्व देवताराधनं कुरुष्व । अर्थादीन् सन्त्यज सम्यक्त्यज । अत्रेतिकरणं द्रष्टव्यम् ॥ २।१०८।१६ ॥
स इति । सः पितृवचनं परिपालनीयमिति मन्यमानस्त्वम् । परलोकं नास्तीति बुद्धिं कुरु । प्रत्यक्षं प्रत्यक्षसिद्धं राज्यभोगादिकं यत्तदातिष्ठ प्रतिगृह्णीष्व परोक्षसुखफलकं पितृवचनपरिपालनादिकम् । पृष्ठतः कुरुनानुतिष्ठ ॥ २।१०८।१७ ॥
तां बुद्धिं सर्वलोकनिदर्शिनीं सर्वजनसम्मतामित्यर्थः ॥ २।१०८।१८ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायाम् अयोध्याकाण्डव्याख्यायाम् अष्टोत्तरशततमः सर्गः ॥ २।१०८ ॥