पुनरिति । अभिसत्कृतः भरतेन स्तोत्रादिना सम्यक्प्रपूजितः ॥ २।१०७।१,२ ॥
को हि धर्मार्थयोर्हीनं कर्म स्त्रियाः प्रियचिकीर्षुस्सन् कुर्यादित्यनेन कामुकेन तातेनोक्तं न कर्तव्यमित्युक्तम् । तत्तथा भवतु, अकामुकेन तेन स्वस्थावस्थायां कृतमवर्जनीयं हेत्वन्तरमप्यस्तीत्याहपुरा भ्रातरित्यादिना । राज्यशुल्कं समाश्रौषीत् ते तव पुत्रिकायां यो जनिष्यते तस्मै राज्यं दास्यामीति प्रतिज्ञां कृतवानित्यर्थः ॥ २।१०७।३ ॥
दैवासुरे देवासुरसम्बन्धिनि । वरं वरद्वयम् ॥ २।१०७।४ ॥
संप्रतिश्राव्य शपथं कारयित्वा ततो द्वौ वरौ अयाचतेति सम्बन्धः । ननु दशरथ उद्वाहकाले कैकेयीपुत्राय प्रतिश्रुतं राज्यं कथं रामाय दातुमुद्युक्तवानिति चेत्, सत्यम् " उद्वाहकाले रतिसम्प्रयोगे प्राणात्यये सर्वधनापहारे । विप्रस्य चार्थे ह्यनृतं वदेयुः पञ्चानृतान्याहुरपातकानि । " इति न्यायेन दोषाभावं हृदि निधाय तथाकृतवानित्यदोषः । तथा च उमासंहितायां पार्वतीं प्रति शिववचनम् " पट्टाभिषेकसमये भवेयं स्मारितो ह्यहम् । त्वया वान्येन भूपाल तथा चेत्करवाण्यहम् । इत्थं प्रतिज्ञामकरोदाहिताग्न्यग्रणीर्नृपः । " इति कैकेयीविवाहसमये केकयदशरथसङ्केतस्य विद्यमानत्वाच्चादोषः । याचनाप्रकारमाहतव राज्यमिति । नियुक्तः कैकेय्येति शेषः ॥ २।१०७।५।६ ॥
अत्र वने दण्डकारण्ये वरदानिकं वरदाननिमित्तकं वासं नियुक्त इति सम्बन्धः ॥ २।१०७।७ ॥
अप्रतिद्वन्द्वः अप्रतिबन्धः केनापि निवर्त्तयितुमशक्य इत्यर्थः ॥ २।१०७।८,९ ॥
ऋणान्मोचय राजानं स्वाभिषेचनेन कैकेय्या ऋणाद्राजानं मोचयेत्यर्थः ॥ २।१०७।१० ॥
स्वोक्तस्यावश्यकत्वे सम्मतिमाहश्रूयत इति । गयेन गयाख्येन । गयेषु गयाख्यप्रदेशेषु ॥ २।१०७।११ ॥
पुन्नाम्नो नरकात् त्रायत इति पुत्रः पितृ़न् पाति पितृ़नुद्दिश्य कृतेष्टापूर्तादिना स्वर्लोकं प्रापय्य रक्षतीत्यर्थः ॥ २।१०७।१२ ॥
एष्टव्या इति । बहवः पुत्रा एष्टव्याः प्राप्तव्याः । कुतः ? तेषामिति ॥ २।१०७।१३ ॥
अत एव सर्वे राजर्षयः । एवं प्रतीताः एवमुक्तप्रकारेण निश्चितवन्तः ॥ २।१०७।१४१६ ॥
भरतस्य राज्याधिपत्यमिव स्वस्य वनाधिपत्वं सम्पादयति त्वमित्यादि । मृगाणां राजराट् भवामि मृगाणां रञ्जकः शिक्षकश्च भवामीत्यर्थः । एतद्भाविसुग्रीवरञ्जनवालिवधादीनां बीजत्वेन प्रतिभाति ॥ २।१०७।१७ ॥
छायामिति । वर्षत्रं छत्रम् । दिनाकरभा इति द्वितीया बहुवचनम् । शीतां छायामित्यन्वयः ॥ २।१०७।१८ ॥
शत्रुघ्न इति । चराम करवामेत्यर्थः ॥ २।१०७।१९ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायाम् अयोध्याकाण्डव्याख्यायां सप्तोत्तरशततमः सर्गः ॥ २।१०७ ॥