सम्मत इति । सम्मतः सर्वज्ञत्वेन सम्मतः तथापि तान् पृच्छसि ॥ २।१०६।३ ॥
यथा मृतस्तथा जीवन् यथा मृतः पुरुषो द्वेषविषयो न भवतीति शेषः । जीवन्नपि तथा यथा असति अविद्यमाने वस्तुनि यथा रागो नास्ति, तथा सति विद्यमानेपि वस्तुनि तथा इत्येष बुद्धिलाभो यस्य पुरुषस्य स्यात् स हि केन हेतुना परितप्येत, न केनापीत्यर्थः ॥ २।१०६।४ ॥
परावरज्ञो यः स एवं व्यसनं प्राप्यापि विषीदितुं व्यथितुं नार्हति तथा त्वमपीति सम्बन्धः ॥ २।१०६।५ ॥
अमरेति । सत्त्वः सत्त्वगुणसम्पन्नः ॥ २।१०६।६ ॥
न त्वामिति । प्रभवाभवकोविदम् उत्पत्तिनाशज्ञमित्यर्थः । दुःखमासादयितुमभिवितुम् ॥ २।१०६।७।८ ॥
धर्मबन्धेन धर्मपाशेन । अधर्मिष्ठम् अधर्मप्रचुरत्वाद्राज्यापहरणरूपमित्यर्थः ॥ २।१०६।९,१० ॥
क्रियावान् यज्ञादिक्रियावान् ॥ २।१०६।११ ॥
धर्मार्थयोः धर्मार्थाभ्यां विहीनं कामप्रधानमिति यावत् ॥ २।१०६।१२ ॥
अन्तकाले मुह्यन्ति विपरीतबुद्धिं प्राप्तुवन्तीत्यर्थः । परा श्रुतिः गाथेत्यर्थः ॥ २।१०६।१३ ॥
क्रोधात् दिषमद्यैव पास्यामीत्युक्तकैकेयीक्रोधात् । मोहात् कैकेयीविषयमोहात् । साहसात् अविमृश्यकारित्वात् तातस्य यदतिक्रान्तं यद्धर्मातिक्रमणं तत्साध्वर्थमभिसन्धाय समीचानार्थं स्मृत्वा भवान् प्रत्याहरत निवर्तयत्विति सम्बन्धः ॥ २।१०६।१४ ॥
पितुरिति । साधु मन्यते साधुकर्तुंमन्यते । तदपत्यं पितुरपतनहेतुत्वात्तदपत्यत्वेनाभिमतम् ॥ २।१०६।१५ ॥
तदिति । तदपत्यं भवानस्तु तादृशपुत्रो भवान् भवतु । धीरविगर्हितं पितुः कृतं दुष्कृतमाभिपत्ता प्राप्तुं नार्हतीत्यर्थः ॥ २।१०६।१६१८ ॥
तापसधर्मावलम्बनं क्षत्रियाणामप्यस्तीत्याशङ्क्याहएष इति ॥ २।१०६।१९ ॥
प्रत्यक्षं परिदृश्यमानत्यागभोगयुक्तम् प्रजापरिपालनं धर्ममुत्सृज्य संशयस्थम् अप्रत्यक्षम् अलक्षणं लक्षणरहितं दुर्निरूपमिति यावत् । आयतिस्थं कालान्तरभावि फलं अनिश्चितं क्षत्रियेण प्रथममिदमेवानुष्ठेयमिति केनापि प्रमाणेनानिश्चितं धर्मं परलोकश्रेयस्साधनं तव धर्मं कः क्षत्रबन्धुश्चरेत् न कोपीत्यर्थः ॥ २।१०६।२०२२ ॥
श्रुतेनेति । श्रुतेन विद्यया । स्थानेन स्थित्या च बालः ॥ २।१०६।२३ ॥
ममापि तथात्वादित्यत आह हीनेति । हीनबुद्धिगुणः सद्गुणबुद्धिरहितः । वर्तयितुं स्थातुं भवता विना तूष्णीं स्थातुमपि नोत्सहे किं पुनः राज्यं कर्तुमिति योजना ॥ २।१०६।२४,२५ ॥
इहेति । सह सम्भूय ॥ २।१०६।२६ ॥
विजित्य स्थित इति शेषः ॥ २।१०६।२७ ॥
राज्याङ्गीकरणाय प्रोत्साहयति ऋणानीत्यादिनां ॥ २।१०६।२८,२९ ॥
आक्रोशं शापम् । तत्रभवन्तं पूज्यम् । किल्बिषात् अपवादजन्यदुरितात् ॥ २।१०६।३० ॥
मयि बान्धवेषु च करुणां कुर्विति सम्बन्धः ॥ २।१०६।३१,३२ ॥
तथाहीति । गमनाय,अयोध्यां प्रतीति शेषः । तद्वचने तस्मिन्वचने ॥ २।१०६।३३ ॥
तदिति । समं युगपत् ॥ २।१०६।३४ ॥
नैगमयूथवल्लभाः निगमः पुरं तत्र भवाः नैगमाः, पौरा इति यावत् । " निगमो निश्चये वेदे पुरे चैव वणिक्पथे " इति वैजयन्ती । यूथवल्लभाः गणमुख्याः । विसंज्ञाश्रुकलाः विगतसंज्ञाः अश्रुक्लिन्नाश्चेत्यर्थः ॥ २।१०६।३५ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायाम् अयोध्याकाण्डव्याख्यायां षडुत्तरशततमः सर्गः ॥ २।१०६ ॥