१०५ रामं प्रति भरतस्य प्रार्थना

रजन्यामिति । हुतं होमम् ॥ २।१०५।२,३ ॥

सान्त्विता आश्वासिता ॥ २।१०५।४ ॥

जलागमे वर्षाकाले । दुरावारम् आवरीतुमशक्यं राज्यखण्डं नवखण्डेषु भरतखण्डाख्यराज्यम् ॥ २।१०५।५७ ॥

लोकरक्षणार्थं दशरथेनोत्पाद्य वर्धितस्सकलसद्गुणसम्पन्नस्त्वं यदि लोकरक्षणं न कुर्यास्तदा तस्य लोकस्य दशरथस्य च त्वया न प्रयोजनमित्यस्योपदेशमुखेन फलादर्शनवृक्षौपम्यमाहयथा त्वित्यादिश्लोकत्रयेण । उदाहरणोपक्रमद्योतनार्थो यथा निपातसमुदायः । पुरुषेण रोपितो वर्द्धितः । ह्रस्वकेन वामनेन दुरारोहः दुष्प्रापः अतो रूढस्कन्धः अतो महाद्रुमो जात इति शेषः । स वृक्षो यथा पुष्पितो भूत्वा फलानि न विदर्शयेत् न फलेत् । यस्य फलस्य हेतोश्च रोपितः तां फलविषयां प्रीतिं सः रोपयिता पुरुषो नानुभवेत् । त्वं भर्ता सन् भृत्यानस्मान्न शाधि यदि एषोपमा, अतस्तमर्थं अस्पत्पालनरूपधर्मं वेत्तुमर्हसीति सम्बन्धः ॥ २।१०५।८१० ॥

श्रेणय इति । श्रेणयः पौरश्रेणयः । अग्र्याः प्रधानाः ॥ २।१०५।१११३ ॥

कृतात्मा शिक्षितमनाः । आत्मवान् धैर्यवान् ॥ २।१०५।१४ ॥

कैकेयीप्रेरितो राजा च भवांश्च मद्वनवासादौ हेतुर्न भवति किन्तु दैवमेव कारणमित्यन्यापदेशमुखेन भरतदुःखं निवर्तयितुमुपक्रमतेनात्मनः इत्यादि । आत्मनः पुरुषस्य । कामकारः ऐच्छिकव्यापारः । अनीश्वरः अस्वतन्त्रः । कृतान्तः दैवम् ॥ २।१०५।१५ ॥

अपरिहरणीयवस्तुस्वभावपर्यालोचनया शोकस्यावकाशो नास्तीत्याहसर्व इति । निचयाः वस्तुसमूहाः ॥ २।१०५।१६१८ ॥

अत्येतीति । उदकार्णवम् उदकाधारम् ॥ २।१०५।१९ ॥

(समुद्रमुदकार्णवमिति पाठः) गच्छन्तीति शत्रन्तम् । आयूंषि क्षपयन्ति । अंशवः सूर्यकिरणाः ॥ २।१०५।२० ॥

आत्मानमनुशोच नश्वरफलसाधनेषु व्यापृतं त्वामेवानुशोचेत्यर्थ ॥ २।१०५।२१ ॥

सहैवेति । सहैव मृत्युर्व्रजति ईश्वरलिखितललाटरेखाया एव मृत्युरूपत्वादिति भावः ॥ २।१०५।२२ ॥

किंवा कृत्वा प्रभावयेत् एतत्सर्वपरिहारत्वेन कमुपायं कृत्वा पुरुषस्समर्थो भवेत् ॥ २।१०५।२३ ॥

आयुःक्षयकरादित्योदयाद्यनिष्टसाधने इष्टसाधनत्वबुद्धिं कुर्वन्तः स्वहितं न जानन्तीत्याहनन्दन्तीत्यादिना ॥ २।१०५।२४ ॥

हृष्यन्तीति । येषां ऋतूनां परिवर्तनेन प्राणिनां प्राणक्षयो भवति तादृशम् ऋतुमुखं दृष्ट्वा हृष्यन्तीति यत्तच्छब्दाध्याहारेण सम्बन्धः ॥ २।१०५।२५ ॥

संश्लिष्टानां विशेषस्यावश्यम्भावित्वात्तन्निमित्तमनश्शोको न कार्य इत्यभिप्रायेणाह यथाकाष्ठमित्यादि । विनाभवः निवाभावः, वियोग इत्यर्थः । एषां वियोगो ध्रुव इत्यर्थः ॥ २।१०५।२६,२७ ॥

अत्र अस्मिंमल्लोके कश्चिदपि प्राणी यथाभावं न समभिवर्तते यथाभिलाषं बन्धुभिस्सह न वर्तते अपि तु विप्रयुज्यत एव । तेन कारणेन प्रेतस्य मृतस्य हेतोरनुशोचतः पुरुषस्य तस्मिन् विप्रयोगे मरणनिवारणे वा सामर्थ्यं परिहारशक्तिर्नास्तीति सम्बन्धः ॥ २।१०५।२८ ॥

यथा हीत्यादिश्लोकद्वयमेकं वाक्यम् । गच्छन्तं सार्थं पथिकसङ्घं पथि स्थितः पुरुषो यथा ब्रूयादनुसृत्य गच्छति च, एवं पूर्वैराद्यैरन्यैर्गतः प्राप्तः मार्गः मृतिरूपः पितृपैतामहः पितृपितामहसम्बन्धी ध्रुवः पुत्रादिभिरप्युपगन्तव्यत्वेन विश्चितः ॥ २।१०५।२९,३० ॥

वयसि इति सप्तम्यर्थे षष्ठी । वाशब्द इवार्थे । अनिवर्तिनि स्रोतसीव वयसि आयुषि पतमाने गच्छति सति आत्मा सुखे धर्मे योक्तव्यः । कुतः ? सुखभाजः प्रजाः स्मृताः धर्मसाध्ये सुखे सक्ताः खलु जना इत्यर्थः ॥ २।१०५।३१३४ ॥

इष्ट्वेति । उत्तमं पापप्रसङ्गरहितम् ॥ २।१०५।३५,३६ ॥

दैवीमृद्धिं देवसम्बन्धिसम्पदम् ॥ २।१०५।३७ ॥

एवं मिथः कश्चित् प्राज्ञः तं दशरथं शोचितुं नार्हति । एवंविधः को वेत्याकाङ्क्षायामाह तद्विध इति । श्रुतवान् बुद्धिमत्तरश्च यद्विधोसि, तद्विध इति योजना ॥ २।१०५।३८ ॥

एत इति । बहुविधाः दशरथमरणमद्विवासनादिविषयभेदेन बहुप्रकाराः । तथा विलापरुदिते प्रलापाश्रुविमोचने च वर्जनीये ॥ २।१०५।३९ ॥

स इति । यात्वा गत्वा । तां पुरीम् आवस अधितिष्ठेत्यर्थः ॥ २।१०५।४०४४ ॥

आत्मानमिति । स्वभावेनात्मानमनुतिष्ठस्व । स्वभावेन भवन्तं योजयेत्यर्थः । निशाम्य दृष्ट्वा ज्ञात्वेत्यर्थः ॥ २।१०५।४५ ॥

इत्येवमिति । यवीयसम् । नुमभाव आर्षः ॥ २।१०५।४६ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां अयोध्याकाण्डव्याक्यायां पञ्चोत्तरशततमः सर्गः ॥ २।१०५ ॥