१०४ रामकौसल्यादीनां संभाषणम्

तमिति । गुरुवत्सलं समाज्ञाय प्राप्तराज्यपरित्यागेन जटावल्कलधारणादिना गुरुभूते स्वस्मिन् भक्तियुक्तं ज्ञात्वेत्यर्थः । समाश्वास्येति पाठे प्रियवचनादिभिस्सम्य गाश्वास्येत्यर्थः ॥ २।१०४।१ ॥

किमेतदिति । यस्मात्कारणात्त्वं चीरजटाजिनस्सन् इमं देशमागतः एतत्कारणं किम् अहं त्वया प्रव्याहृतं श्रोतुमिच्छेयमिति सम्बन्धः ॥ २।१०४।२,३ ॥

काकुत्स्थेन बलवत्प्रगृह्या गाढं परिष्वज्य तत्सर्वं वक्तुमर्हसीति भूय उक्तः कैकयीपुत्रः प्राञ्जलिर्वाक्यमब्रवीदिति सम्बन्धः ॥ २।१०४।४ ॥

सुदुष्करं कर्म कृत्वा ज्येष्ठार्हं राज्यं स्त्रीनियोगात्कनिष्ठसात्कृत्येत्यर्थः । परित्यज्य विवास्य पुत्रशोकाभिपीडितः स्वर्गं गत इति सम्बन्धः ॥ २।१०४।५७ ॥

तस्येति तस्य मे कैकेयीसम्बन्धात् प्राप्तापवादस्य । राज्येन । हेतौ तृतीया ॥ २।१०४।८,९ ॥

आनुपूर्व्या युक्तं ज्येष्ठक्रमेण प्राप्तम् युक्तं च आत्मनि योग्यम् ॥ २।१०४।१० ॥

पतिना । नाभाव आर्षः । शशिनेव त्वया पतिना रजनी यथा रजनीव चेति यथेवशब्दयोरन्वयः ॥ २।१०४।११,१२ ॥

शाश्वतं परम्पराप्राप्तमित्यर्थः ॥ २।१०४।१३१५ ॥

राज्यहेतोः राज्यार्थम् । पापं ज्येष्ठविषयप्रातिकूल्यरूपम् ॥ २।१०४।१६,१७ ॥

कामकारः स्वच्छन्दकरणं गुरुणां महताम् । उपपन्नेषु युक्तेषु सम्मतेष्वित्यर्थः । दारादिषु विधीयत इति सम्बन्धः । महान्तोपि अभिमतदारादिषु स्नेहं कुर्वन्तीति भावः ॥ २।१०४।१८ ॥

वयमिति । लोके भार्यादयः साधुभिर्यथा सङ्ख्याताः नियाम्यत्वेन परिगणिताः । वयमप्यस्य दशरथस्य तथा नियाम्या इति त्वं ज्ञातुमर्हसीति सम्बन्धः ॥ २।१०४।१९२१ ॥

मातापितृभ्यां कैकेयीदशरथाभ्याम् ॥ २।१०४।२२२६ ॥

यदिति । सर्वलोकेश्वरभावं सर्वलोकेश्वरत्वम् । ननु “आर्यं तातः परित्यज्य, इमाः प्रकृतयः, त्वत्सकाशमनुप्राप्ताः " इति भरतेनोक्ते रामस्तदानीमशोचन् तदुल्लङ्घ्याभिषेकप्रत्याख्यानमेव किमिति कृतवान् ? नैष दोषः । तस्मिन् भरतवाक्यप्रबन्धे पितृमरणमानुषङ्गीकत्वेनोक्तम्, प्राधान्येन राज्यस्वीकरणमेवोच्यते, अतो रामस्तदेवं मन्यते पिता पुत्रशोकेन मृतकल्पो न पुनर्जीविष्यतीति मृत इत्युच्यते । मातरश्च विधवाकल्पा इति विधवा इत्युच्यन्ते । अनेन ममाभिषेकवचनमेव प्राधान्येनोच्यत इत्यशोचन् अभिषकप्रत्याख्यानं कृतवान् । स्ववाक्ये पितृमरणानुवादस्य चायमेवार्थ इति परिहारः ॥ २।१०४।२७ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायाम् अयोध्याकाण्डव्याख्यायां चतुरुत्तरशततमः सर्गः ॥ २।१०४ ॥