वसिष्ठ इति । रामदर्शनतर्षितः रामदर्शने साभिलाषः ॥ २।१०३।१३ ॥
ते प्रसिद्धा ये रामादयः प्राक् निर्विषयीकृताः राज्यान्निष्कासिताः निराश्रयीकृता वा । वने तेषां क्लिष्टम् उपमर्दितं तीर्थम् अवतरणस्थलमित्यर्थः । केवलं निश्चितम् “केवलं निश्चिते क्लीबे वाच्यवत्त्वेककृत्स्नयोः " इति वैजयन्ती । इदं रामादीनां स्नानादिभिर्व्यवहितस्थलं नूनमिति भावः ॥ २।१०३।४,५ ॥
ते पुत्रः जघन्यं जलाहरणादिनिकृष्टं कर्म कृतवानपि न तु गर्हितः । कुत इत्यत आह भ्रातुः ज्येष्ठभ्रातुः । अर्थसहितं प्रयोजनसहितं भ्रातृशुश्रूषारूपमित्यर्थः । यत्कर्म तत्सर्वं गुणैर्विहितं ज्येष्ठभ्रातुः पितृसमत्वात् पितृशुश्रूषणं लक्ष्मणस्य गुणाय कल्पत इत्यर्थ ॥ २।१०३।६ ॥
क्लेशानामतथोचितः यथेदानीं क्लेशानामुचितो भवति तथा क्लेशानामनुचितस्ते अयं पुत्रः, नीचानर्थसमाचारं नीचो निकृष्टः अनर्थो दुःखम् समाचारो ऽनुष्ठानं यस्य तत्, जलाहरणादिरूपमित्यर्थः । सज्जं कर्म उद्युक्तं कर्म अद्य प्रसुञ्चेदपि । अपिशब्दः सम्भावनायाम् । भरतप्रार्थनया रामेण राज्ये स्वीकृते लक्ष्मणस्य नीचकर्मप्रमोचनं सम्भवेदिति बावः ॥ २।१०३।७११ ॥
चतुरन्तां चतुर्दिगन्तान् ॥ २।१०३।१२ ॥
यत्र यदा बुद्धिमान् राज्यैश्वर्ययुक्तः । क्षोदं पिण्याकम् ॥ २।१०३।१३ ॥
न स्फोटति न स्फुटति ॥ २।१०३।१४ ॥
श्रुतिरिति । सत्या सत्यार्था । लौकिकी लोके प्रसिद्धेति यावत् ॥ २।१०३।१५१९ ॥
सौमित्रिरिति । असक्तमनवरतम् ॥ २।१०३।२० ॥
ववृतिरे चक्रुरित्यर्थः ॥ २।१०३।२१२५ ॥
मुखमिति । प्रेक्ष्य स्थितायाः, ममेति शेषः । शोको मनसि स्थितस्सन्निति शेषः । आश्रयम् आश्रयभूतकाष्ठादिकम् ॥ २।१०३।२६२८ ॥
तत इति । जघन्यं वसिष्ठरामोपवेशनानन्तरम् । उपोपविष्टः कृताञ्जलिः, अभूदिति शेषः ॥ २।१०३।२९३२ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायां त्र्युत्तरशततमः सर्गः ॥ २।१०३ ॥