१०२ निवापाञ्जलिदानम्

तामिति । अकरुणां क्रूरम् ॥ २।१०२।१ ॥

तमित्यादिश्लोकद्वयमेकं वाक्यम् । दानवारिणा इन्द्रेण । वाग्वज्रं श्रुत्वेत्यनुषज्यते । बाहू प्रगृह्य पाणिना पाणिं निष्पीड्य, बाहू उद्धृत्य वा ॥ २।१०२।३७ ॥

दिष्टां गतिं कालकल्पितां गतिम्, मरणमित्यर्थः । राजवरात् । तृतीयार्थे पञ्चमी ॥ २।१०२।८१० ॥

निष्प्रधानां नाथरहिताम् । अनेकाग्राम् आकुलामित्यर्थः ॥ २।१०२।११ ॥

शासिष्यति कार्येषु नियोक्ष्यतीत्यर्थः ॥ २।१०२।१२ ॥

सुवृत्तं शोभननियोगाचरणम् । कुतः कस्मात्पुरुषात् ॥ २।१०२।१३ ॥

अभ्येत्य अभिमुखो भूत्वा ॥ २।१०२।१४ ॥

दुःखमित्येतत्क्रियाविशेषणम् ॥ २।१०२।१५,१६ ॥

तत इति । क्रियतामित्यत्रेतिकरणं द्रष्टव्यम् ॥ २।१०२।१७१९ ॥

आनयेति । इङ्गुदिपिण्याकं तपस्विभोज्यं तापसतरुपिण्याकम् । उत्तरं चीरम् उत्तरीयं वस्त्रम् । आहर देहीत्यर्थः ॥ २।१०२।२० ॥

अभितः पश्चात् सुदारुणा सुतरां दुस्सहा । गतिः दुःखिनां गतिः । एषा हि स्नानार्थं स्त्रीबालपुरस्सरेति । तथा च पितृमेधसूत्रे “सर्वे कनिष्ठप्रथमा अनुपूर्व इतरे स्त्रियो ऽग्रे” इति ॥ २।१०२।२१ ॥

नित्यानुगः कुलक्रमागतानुचरः । विदितात्मा ज्ञातात्मस्वरूपः ॥ २।१०२।२२,२३ ॥

त इत्यादिश्लोकद्वयमेकं वाक्यम् । ते सीतालक्ष्मणरामाः । शीघ्रस्रोतसं नदीमुपगम्य । विकर्दमं तीर्थम् अवतरणप्रदेशं समासाद्य ततः तात एतत्ते भवत्विति उच्चार्य राज्ञे उदकं सिषिचुः दतुरित्यर्थः ॥ २।१०२।२४२७ ॥

तत इति । स राघवः भ्रातृभिस्सह मन्दाकिनीतीरात्प्रत्युत्तीर्थ पितुर्निवापं पिण्डप्रदानं चकारेति सम्बन्धः ॥ २।१०२।२८३२ ॥

प्रतिश्रुत्कः प्रतिध्वनिः ॥ २।१०२।३३ ॥

महाबलानामित्यादिश्लोकद्वयमेकं वाक्यम् ॥ २।१०२।३३३५ ॥

तं स्वनमभिमुखाः स्वनोत्पत्तिदिगभिमुखाः । यथास्थानं शब्दोत्पत्तिप्रदेशमनतिक्रम्य ॥ २।१०२।३६ ॥

हयैरिति । सुकुमारा इत्येतदम्यशब्दत्रयेण प्रत्येकमभिसम्बध्यते । युक्तैः सज्जैः, यानैरिति शेषः ॥ २।१०२।३७४० ॥

तेन शब्देन मदगन्धेन आवासयन्तः आ समन्ताद्वासयन्तः ॥ २।१०२।४१ ॥

वराहेति । गोरिव कर्णावस्य गोकर्णः, हरिणविशेषः ॥ २।१०२।४२ ॥

प्लवाः स्थूलबकविशेषाः । नत्यूहाः जलकुक्कुटाः ॥ २।१०२।४३४५ ॥

विगर्हमाण इति । सहितः अन्योन्यं सङ्गतः ॥ २।१०२।४६,४७ ॥

स इति । चकार, सम्मानमिति शेषः ॥ २।१०२।४८।४९ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायामयोद्याकाण्डव्याख्यायां द्व्युत्तरशततमः सर्गः ॥ २।१०२ ॥