रामस्येत्यादि । किमिति धर्मात् त्वत्सेवारूपमुख्यधर्मात् ॥ २।१०१।१ ॥
शाश्वतः कुलक्रमागतः । अस्मासु अस्मात्पूर्वेषु । तदेवाह ज्येष्ठपुत्र इति ॥ २।१०१।२ ॥
भवाय भद्राय ॥ २।१०१।३ ॥
देवत्वप्रापकतपश्चरणं विहाय मम राज्याभिषेकेण किमित्यत आहराजानमिति । यद्यपि राजानं मानुषं प्राहुः तथापि मम देवत्वे सम्मतः । कुतः ? यस्य वृत्तममानुषं दिव्यं देवत्वसम्पादकमित्यर्थः । तपश्चरणेन क्लेशद्वारा देवत्वं राज्यपरिपालनेन भोगद्वारा देवत्वमिति भावः ॥ २।१०१।४ ॥
ननु पितरि जीवति कुतो मम राज्याधिकारः ? इत्यत आह केकयस्थ इति । यायजूकः इज्याशीलः ॥ २।१०१।५८ ॥
त्वामेवेति । त्वामेव शोचन्नित्युक्त्वा पुनस्तव शोकमग्र इत्युक्तिः स एव शोकस्तस्यावसादहेतुरिति प्रतिपादयितुमिति ज्ञेयम् ॥ २।१०१।९ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायां एकोत्तरशततमः सर्गः ॥ २।१०१ ॥