१०० रामस्य कुशलप्रश्नः

जटिलमिति । दुर्दर्शं दुःखेन द्रष्टुं योग्यम् । नन्वष्टाशीतितमे सर्गे ऽ जटाचीराणि धारयन् ऽ इति भरतस्य जटाधारणादिकं श्रूयते । नवतितमे सर्गे तु ऽ वसानो वाससी क्षौमे ऽ इति भरद्वाजदर्शनवेलायां क्षौमधारणं श्रूयते । अत्र जटिलं चीरवसनमिति जटावल्कलधारणं सिद्धवदनूद्यत इति चेत् ? उच्यतेप्रतिज्ञायाः रात्रौ गुहपुरे कृतत्वात् अपरेद्युर्भरद्वाजदर्शनानन्तरं जटावल्कलधारणं

करिष्यामीत्यभिप्रायेणागतः, तत्र भरद्वाजेनातिथ्येन निमन्त्रितत्वादवकाशाभावात् भरद्वाजाश्रमनिर्गमनान्तरं जटावल्कधारणं कृतवानित्येत्सर्वमुपपद्यत एव ॥ २।१००।१३ ॥

अतिदुःखितस्य भरतस्य दुःखमपनतु प्रश्नव्याजेन रामो धर्ममुपदिशतिक्व न्वित्यादिना । तस्य जीवत इत्यनादरे षष्ठी ॥ २।१००।४ ॥

चिरस्येति । बतेत्यद्भुते । दूरात् दूरावस्थितकेकयनगरात् । दुष्प्रतीकं कार्श्यवैवर्ण्यादिना दुर्ज्ञेयावयवम् ॥ २।१००।५ ॥

कच्चिन्न धरते तात इति पाठः । न धरते कच्चित् देहं धारयितुं न शक्नोति कच्चित् ॥ २।१००।६८ ॥

आहर्ता कर्तेत्यर्थः । धर्मनिश्चयः धर्मबुद्धिरित्यर्थः ॥ २।१००।९ ॥

उपाध्यायो वसिष्ठः ॥ २।१००।१०,११ ॥

कुलपुत्रः सत्कुलप्रसूतः । अनुद्रष्टा अनन्तद्रष्टा । ते पुरोहित इत्यनेन वसिष्ठपुत्रस्सुयज्ञो ऽभिप्रेतः ॥ २।१००।१२ ॥

अग्निषु अग्निकार्येषु । युक्तो नियुक्तः ॥ २।१००।१३ ॥

अभिमन्यसे यथावद्बहुमन्यस इत्यर्थः ॥ २।१००।१४ ॥

इष्विति । इष्वस्त्रवरसम्पन्नम् इषवः अमन्त्रकाः, अस्त्राणि समन्त्रकाणि, वरशब्दः प्रत्येकमभिसम्बध्यते । सुधन्वानं सुधन्वनामानमुपाध्यायं धनुर्वेदाचार्यम् ॥ २।१००।१५।१६ ॥

मन्त्र इति । सुसंवृतः सुतरां गुप्तः ॥ २।१००।१७,१८ ॥

एको न मन्त्रयसे कच्चित् एकेन मन्त्रे क्रियमाणे स्वकार्याभिनिवेशेन गुणागुणयोर्याथार्थ्यग्रहणं न सिद्ध्यतीति भावः । बहुभिस्सह मन्त्रणे प्रथमं तावदैकमत्यं न घटते मन्त्रभेदश्च भवेदिति भावः । न परिधावति न व्याप्नोति ॥ २।१००।१९ ॥

लघुमूलं लघुसाधनम् । महोदयं महाफलम् । न दीर्घयसि विलम्बं न कार्षीः ॥ २।१००।२० ॥

पार्थिवाः सामन्तपृथिवीश्वराः ते सर्वकार्याणि सुकृतान्येव सुनिष्पन्नान्येव विदुः कच्चित् कृतप्रायाणि वा क्षिप्रमेव फलोन्मुखानीति यावत् । कर्तव्यानि न विदुः मन्त्रेण कर्तव्यतया निश्चितानि करणात्पूर्वं न विदुरित्यर्थः ॥ २।१००।२१ ॥

तर्कः ऊहः युक्ति कारणम् अर्थापत्तिर्वा । ये चापरिकीर्तिताः अनुक्ता इङ्गितादयः तैर्युक्त्या वा इङ्गितादिभिर्वा त्वया वा तव अमात्यैर्वा सावधानभूतैर्मन्त्रितं मन्त्रं न बुद्ध्यते कच्चित् । अन्यैरिति शेषः ॥ २।१००।२२ ॥

मूर्खाणां सहस्त्रात् अविमृश्यकारिणां सहस्रात् पण्डितं सम्यग्विमृश्यकारिणमेकमिच्छसि कच्चित् । पण्डितग्रहणे हेतुमाह पण्डित इति । अर्थकृच्छेषु अर्थसङ्कटेषु महन्निःश्रेयसं कुर्यात् महदैश्वर्यं प्रापयेदित्यर्थः ॥ २।१००।२३,२४ ॥

एक इति । विचक्षणः अभ्यस्तनीतिशास्त्र इत्यर्थः ॥ २।१००।२५,२६ ॥

अमात्यानिति । उपधातीतान् उपधा परीक्षा " उपधा वा परीक्षा स्यात् " इति हलायुधः । अनर्धवस्त्राभरणादिकं पुरुषमुखेन सम्प्रेष्य राजस्त्रीप्रेषितमिति प्रबोध्य परीक्षां कुर्वते राजानः, तां परीक्षामतीतान् तत्रालोलुपानित्यर्थः । अत एव शुचीन् करणत्रयशुद्धियुक्तान् । पितृपैतामहान् कुलक्रमागतान् ॥ २।१००।२७ ॥

राज्यमनुजानन्ति रक्ष्यत्वेनानुमन्यन्ते कच्चित् ॥ २।१००।२८ ॥

पतितं यष्टुकामं पतितम् । याजका यथा ऋत्विज इव उग्रप्रतिग्रहीतारम् उग्रेण कर्मणा

प्रतिग्रहीतारम्, बलात्प्रतिग्रहीतारमिति यावत् । कामयानं कामुकं स्त्रिय इव च त्वां नावजानन्ति कच्चित्, प्रजा इति शेषः । प्रजातिक्रमणमुग्रकरग्रहणं च त्वयि नास्ति कच्चिदित्यर्थः ॥ २।१००।२९ ॥

उपायकुशलमिति । सामाद्युपायचतुरम् वैद्यं विद्याविदं नीतिशास्त्रज्ञमिति यावत् । भृत्यसन्दूषणे रतं येन केनापि हेतुना आप्तभृत्यविघटने रतं शूरं मरणनिर्भयम् ऐश्वर्यकामं राज्याभिलाषिणमिति यावत् । यो न हन्ति न वध्यते, एवंविधपुरुषस्त्वत्सन्निधौ न वर्तते ॥ २।१००।३० ॥

धृतिमान् विपदि प्रशस्तधैर्यः । शुचिः बाह्याभ्यन्तरशुद्धियुक्तः । दक्षः चतुरः ॥ २।१००।३१ ॥

मुख्या गणमुक्याः । दृष्टापदानाः दृष्टमपदानं पूर्ववृत्तं पौरुषं कर्म येषां ते तथा । विक्रान्ताः शूराः ॥ २।१००।३२ ॥

भक्तमन्नम् एतद्व्रीह्यादीनामुपलक्षणम् । वेतनं भृतिः ॥ २।१००।३३ ॥

भृताः भृत्युपजीविनः ॥ २।१००।३४ ॥

कुलपुत्राः ज्ञातयः । प्रधानतः प्रधानाः ॥ २।१००।३५ ॥

जानपदः जनपदे भवः । विद्वान् पराभिप्रायज्ञः । प्रतिभानवान् प्रत्युत्पन्नमतिः । पण्डितः परिच्छेत्ता ॥ २।१००।३६ ॥

अन्येषु परपक्षेषु मन्त्रादीन्यष्टादशतीर्थानि स्वपक्षे पञ्चदशतीर्थानि च परस्परमविज्ञातैरन्योन्यमविज्ञातैस्त्रिभिस्त्रिभिश्चारकैर्वेषान्तरधारिभिः चारैर्वेत्सि कच्चिदिति सम्बन्धः । “चारान्विचारयेत्तीर्थेष्वात्मनश्च परस्य च । पाषण्डादीनविज्ञातानन्योन्यमितरेष्वपि ॥ मन्त्रिणं युवराजं च हित्वा स्वेषु पुरोहितम् । " इति । अष्टादशतीर्थान्येतानि मन्त्रिपुरोहितयुवारजसेनापतिदौवारिकान्तर्वंशिककारागाराधिकृतार्थसञ्चयकृत्कृत्याकृत्यनियोजकप्राड्विवाकसेनानायकनागराध्यक्षदण्डपालदुर्गपालराष्ट्रान्तपालका इति नीतिशास्त्रोक्तान्यष्टादश तीर्थानि । प्राड्विवाकलक्षणम्” विवादे पृच्छति प्रश्नं प्रतिप्रश्नं तथैव च । प्रियपूर्वं प्राग्वदति प्राड्विवाकस्ततः स्मृतः ॥ " इति । एतेषां तीर्थशब्दवाच्यत्वे हलायुधः “योनौ जलावतारे च मन्त्राद्यष्टादशस्वपि । पुण्यक्षेत्रे तथा पात्रे तीर्थं स्याद्दर्शनेष्वपि ॥ " इति ॥ २।१००।३७ ॥

व्यपास्तान् निष्कासितान् । प्रतियातान् पुनरागतान् अहितान् शत्रून् दुर्बलाननवज्ञाय वर्तसे कच्चित् ॥ २।१००।३८ ॥

लोकायतिकान् चार्वाकान् । बालाः बालिशाः । अनर्थकुशलाः अनर्थसम्पादने चतुराः ॥ २।१००।३९ ॥

धर्मशास्त्रेष्विति । दुर्बुधाः वेदमार्गविपरीतबुद्धयः । आन्वीक्षिकीं बुद्धिं प्राप्य शुष्कतर्कविषयां बुद्धिमास्थाय ॥ २।१००।४० ॥

वीरैरित्यादि । अयोध्यां सत्यनामां परिरक्षसि कच्चित् अयोध्येति नाम सत्यं यथा तथा रक्षसे कच्चित् ॥ २।१००।४१४३ ॥

प्रपाभिः पानीयशालाभिः ॥ २।१००।४४,४५ ॥

अदेवमातृकः वृष्टिनिष्पाद्यसस्यो देशो देवमातृकः स न भवतीत्यदेवमातृकः, नदीमातृक इत्यर्थः । तथा च हलायुधः “नद्यम्बुजीवनो देशो नदीमातृक उच्यते । वृष्टिनिष्पाद्य सस्यस्तु विज्ञेयो देवमातृकः ॥ " इति । खनिभिः रत्नसुवर्णरजताद्याकरैः, एतादृशजनपदः सर्वैर्भयैः परित्यक्तः कच्चित् सुखं वसति कच्चिदिति कच्चिच्छब्दद्वयस्य निर्वाहः ॥ २।१००।४६,४७ ॥

कृषिगोरक्षजीविनः वैश्यादयः । दयिताः अर्थसम्पादनद्वारा अभिमताः । वार्तायां

क्रयविक्रयादिरूपवाणिज्ये सति संश्रितः आश्रितः लोको जनः सुखमेधते सुखं प्राप्नोति हि ॥ २।१००।४८ ॥

तेषामिति । गुप्तिपरीहारैः गुप्तिरिष्टप्रापणम्, परीहारः अनिष्टनिवारणं तैस्तेषां कृषिगौरक्षजीविनां भरणं कृतं कच्चिदिति सम्बन्धः ॥ २।१००।४९ ॥

आसां न श्रद्दधासि वचनामिति शेषः ॥ २।१००।५० ॥

नागवनं गजोत्पत्तिस्थानभूतं वनम् । धेनुकाः करिण्यः “करिणी धेनुका वशा " इत्यमरः । गणिकाश्वानां गणिकाः करिण्यः “वेश्याकरिण्योर्गणिका " इति वैजयन्ती । गणिकाश्वानां कुञ्जराणां च न तृप्यसे कच्चित् । त्सम्पादनविषये तृप्तिं नाप्नोषि कच्चिदित्यर्थः ॥ २।१००।५१ ॥

विभूषितम्, आत्मानमिति शेषः ॥ २।१००।५२ ॥

कर्मान्ताः विष्टिप्रभृतिनीचकर्मकराः । अविशङ्कया विस्रम्भेण ते न प्रत्यक्षाः कच्चित् सर्वे पुनरुत्सृष्टा न कच्चित् । निश्शङ्कया प्रवेशे अवज्ञादिकं सम्भवेत् । दर्शनाभावे कार्यहानिः स्यात् । तत्र दर्शनादर्शनयोः मध्यमेव यथोचितसमयनिरीक्षणप्रदानमेव कारणम्, प्रयोजनमित्यर्थः । एवं करोषि कच्चिदित्यर्थः ॥ २।१००।५३ ॥

सर्वाणि दुर्गाणि औदकपार्वतवार्क्षैरिणधान्वनानि । धनधान्यायुधोदकैर्यन्त्रैश्च शिल्पिधनुर्धरैश्च परिपूर्णानि कच्चित् ॥ २।१००।५४ ॥

आय इति । आयो धनागमः, अपात्रेषु नटावटगायकादषुविषये । कोशः अर्थसमूहः ॥ २।१००।५५,५६ ॥

विशुद्धात्मा शुद्धस्वभावः । शुचिः करणत्रयशुद्धियुक्ताः । आर्यः सज्जनः । यदृच्छया चौरकर्मणा आक्षारितः अभिशस्तः शास्त्रकुशलैरपृष्टः प्रश्नेनाशोधितस्सन् लोभात्तदानीन्तनतदीयधनलोभात् न वध्यते न दण्ड्यते कच्चित्, धर्माधिकृतैरिति शेषः ॥ २।१००।५७ ॥

गृहीत इति । पृष्टः प्रश्नेन शोधितः काले द्रव्यापहरणकाले दृष्टः सकारणचौर्यलब्धद्रव्य सहितः ॥ २।१००।५८ ॥

व्यसन इति । आढ्यस्य दुर्गतस्य दरिद्रस्य च व्यसने निवातरूपसङ्कटे प्राप्ते अर्थं व्यवहारं विरागाः पश्यन्ति परीक्षन्ति कच्चित् ॥ २।१००।५९ ॥

यानीति । पीत्यर्थमनुशासतः भोगार्थं राज्यं कुर्वतः ॥ २।१००।६० ॥

दानेन अभिमतवस्तुप्रदानेन मनसा स्नेहेन वाचा सान्त्ववचनेन च त्रिभिरेतैः बुभूषसे कच्चित् । प्राप्तुमिच्छसि वशीकर्तुमिच्छसि कच्चिदिति यावत् ॥ २।१००।६१ ॥

चैत्यान् देवतावासभूतचतुष्पथस्थमहावृक्षान् । सिद्धार्थान् निष्पन्नामुष्मिकप्रयोजनान् ॥ २।१००।६२ ॥

अर्थेन धर्मं न बाधसे कच्चित् धर्मार्जनयोग्यपूर्वाह्णे त्वर्थार्जनं कृत्वा धर्मान्न बाधसे धर्मार्जनं करोषि कच्चित् धर्मेणार्थान् न बाधसे कच्चित् अर्थार्जनयोग्ये मध्याह्ने धर्मार्जनं कृत्वा अर्थान्न बाधसे कच्चिदित्यर्थः । प्रीतिलोभेन सुखाभिलाषेण हेतुना कामेन उभौ धर्मार्थौ न बाधसे कच्चिदित्यर्थः ॥ २।१००।६३६५ ॥

नास्तिक्यमित्यादि । प्रमादम् अनवधानत्वम् । दीर्घसूत्रताम् चिरक्रियत्वम् । पञ्चवृत्तितां पञ्चेन्द्रियपरवशताम् । अर्थानां प्रयोजनानाम् । एकचिन्तनम् एकेन चिन्तनम् । अनर्थज्ञैः विपरीतार्थदर्शिभिः । मङ्गलस्याप्रयोगम् अननुष्ठानम् । मङ्गलाद्यप्रयोगमिति च पाठः । प्रत्युत्थानं च सर्वतः सर्वदिगवस्थितशत्रूद्देशेन युगपद्दण्डयात्राम् ॥ २।१००।६६६८ ॥

दशपञ्चेत्यादि । दशवर्गादिकं बुद्वा यथावदनुमन्यसे कच्चित् । दशवर्गादिकं त्याज्यत्वेनोपादेयत्वेन च

ज्ञात्वा यथावदनुतिष्ठसि कच्चिदिति वाक्यार्थः । दशवर्गस्तावत्लोभक्रोधालस्यासत्यप्रमादभीरुत्वास्थिरत्वमूढत्वानयावमन्तृत्वानि । यद्वा मृगयाद्यूतदिवास्वप्नपरिवादस्त्रीमदनृत्तगीतवाद्यवृथापर्यटनानि वा । अथ पञ्चवर्गः कामन्दकः “सापत्नं वस्तुजं स्त्रीजं वाग्जातमपराधजम् । वैरप्रभेदनिपुणैर्वैरं पञ्चविधं स्मृतम् ॥ " इति । औदकपार्वतवार्क्षैरिणधान्वनानि वा । अथ चतुर्वर्गःसामदानभेददण्डाः चतुर्विधमित्राणि वा । “औरसं तन्तुसम्बन्धं तथा वंशक्रमागतम् । रक्षितं व्यसनेभ्यश्च मित्रं ज्ञेयं चतुर्विधम् ॥ " इति । अथ सप्तवर्गः” स्वाम्यमात्याश्च राष्ट्रं च दुर्गं कोशो बलं सुहृत् । परस्परोपकारीदं राज्यं सप्ताङ्गमुच्यते । इति । अथाष्टवर्गः कृषिवाणिज्यदुर्गसेतुकुञ्जरबन्धनखन्याकरकरादानशून्यनिवेशनानि । अथ त्रिवर्गःअसाध्यवस्तुषु समुद्यमः साध्यवस्तुष्वनुद्यमः शक्यवस्तुष्वकाले समुद्यमश्च । तथाह"वस्तुष्वशक्येषु समुद्यमश्च शक्येषु मोहादसमुद्यमश्च । शक्येष्वकालेषु समुद्यमश्च त्रिधैव कार्यं व्यसनं वदन्ति ॥ " यद्वा प्रभूमन्त्रोत्साहशक्तयः । अथ तिस्रो विद्याःत्रयीवार्तादण्डनीतयः । आन्वीक्षिक्यास्त्रय्यामन्तर्भवात् त्रित्वोक्तिः ॥ २।१००।६९ ॥

इन्द्रियाणां जयं जयोपायम् बुध्वा प्रजापालनस्य मूलमिन्द्रियजयं प्रथमं बुध्वा षाड्गुण्यं षड्गुणा एव षाड्गुण्यम् । स्वार्थे ष्यञ् । सन्धिविग्रहयानासनद्वैधीभावसमाश्रयाः षड्गुणाः । दैवमानुषं दैविकं मानुषं च व्यसनम् । तत्र दैवव्यसनं पञ्चविधम्, मानुषं च पञ्चविधम् । तथा कामन्दकीये” हुताशनो जलं व्याधिर्दुर्भिक्षं मरणं तथा । इति पञ्चविधं दैवं मानुषं व्यसनं परम् ॥ " इति । कृत्यम् अलब्धवेतनावमानितकोपितभीषितवर्गेषु शत्रुसम्बन्धिषु अभिमतवस्तुप्रदानेन कर्तव्यं भेदनं कृत्यशब्देनोच्यते । तथा च कामान्दकीये " अलब्धवेतनो लुब्धो मानी चाप्यवमानितः । कुद्धश्च कोपितो ऽकस्मात्तथा भीतश्च भीषितः । यथाभिलषितैः कामैर्भिद्यादेतांश्चतुर्विधान् ॥ " इति । असन्धेया विग्राह्यो विंशतिवर्गः । तथा च कामन्दकीये " बालो वृद्धो दीर्घरोगी तथा ज्ञातिबहिष्कृतः । भीरुको भीरुजनको लुब्धो लुब्धजनस्तथा । विरक्तप्रकृतिश्चैव विषयेष्वतिसक्तिमान् । अनेकचित्तमन्त्रश्च देवब्राह्मणानिन्दकः । दैवोपहतकश्चैव दैवचिन्तक एव च । दुर्भिक्षव्यसनोपेतो बलव्यसनसङ्कुलः । अदेशस्थो बहुरिपुर्युक्तो ऽकालेन यश्च सः । सत्यधर्मव्यपेतश्च विंशतिः पुरुषा अमी । एतैस्सन्धिं न कुर्वीत विगृह्णीयात्तु केवलम् । अथ प्रकृतिमण्डलम्प्रकृतयश्च मण्डलं च प्रकृतिमण्डलम् । प्रकृतयस्तावत्कामन्दकीये " अमात्या राष्ट्रदुर्गाणि कोशो दण्डश्च पञ्चमः । एताः प्रकृतयस्तज्ज्ञैर्विजिगीषोरुदाहृताः " इति । मण्डलं द्वादशविधराजात्मकम् । तेच मध्यतो विजिगीषुः तस्यारिः मित्रं अरेर्मित्रं मित्रशत्रुः शत्रुमित्रमित्रं चेति पुरोवर्तिनः पञ्च । पार्ष्णिग्राहः आक्रन्दस्तयोरासाराविति पार्ष्णिग्राहासारः आक्रन्दासार इति पृष्ठभागस्थाश्चत्वारः एव नव भवन्ति, विजिगीषुर्दशमः, पार्श्वस्थो मध्यमः तेषां बहिरवस्थित उदासीनश्चेति मध्यमोदासीनाभ्यां साकं द्वादशविधाः । तथा कामन्दः “सम्पन्नस्तु प्रकृतिभिर्महोत्साहः कृतश्रमः । जेतुमेषणशीलश्च विजिगीषुरिति स्मृतः । अरिर्मित्रमरोर्मित्रं मित्रामित्रमतःपरम् । अथारिमित्रमित्रं च विजिगीषोः पुरस्सराः । पार्ष्णिग्राहस्ततः पश्चादाक्रन्दस्तदनन्तरम् । आसारावनयोश्चैव विजिगीषोस्तु पृष्ठतः । अरेश्च विजिगीषोश्च मध्यमो भूम्यनन्तरः । अनुग्रहे संहतयोर्यस्तयोर्निग्रहे प्रभुः । मण्डलाद्बहिरेतेषामुदासीनो बलाधिकः । अनुग्रहे संहतानां व्यस्तानां च वधे प्रभुः ॥ " इति ॥ २।१००।७० ॥

अथ यात्रादण्डविधानं सैन्यसंविधानं शत्रुनिरसनप्रकारस्य यानं पञ्चविधम् । तथा च कामन्दकीये " विगृह्य सन्धाय तथा सम्भूयाथ प्रसङ्गतः । उपेक्ष्य चेति निपुणैर्यानं पञ्चविधं स्मृतम् ॥ " इति ।

बलातिशयेन पार्ष्णिग्राहादिभिर्विगृह्य शत्रूद्देशेन यानं विगृह्ययानम् । पार्ष्णिग्राहादिभिस्सन्धिं कृत्वा शत्रूद्देशेन यानं सन्धाययानम् । सामन्तैस्समेत्य यानं सम्भूययानम् । अन्योद्देशेन यात्राप्रसङ्गमुत्पाद्य अन्यं प्रति यानं प्रसङ्गयानम् । शत्रूद्देशेन यात्रां कृत्वा तमुपेक्ष्य तन्मित्रोद्देशेन यानमुपेक्ष्ययानमिति । षाड्गुण्यमिति । सन्धिविग्रहयानासनद्वैधीभावसमाश्रयाः पूर्वं पृथक्प्रतिपादिताः, इदानीं द्वैगुण्यमतावलम्बनेन यानादीन् सन्धिविग्रहयोरन्तर्भाव्य वदति द्वियोनी इति । सन्धिविग्रहौ द्वियोनी प्रत्येकं तयोर्द्वयोः कारणभूतौ । तथाह कामन्दः " सन्धेश्च विग्रहस्यैतद्द्वैगुण्यमिति चक्षते " इति । " यानासने विग्रहस्य रूपं सन्धेः पदं द्वयम् " इति च । तत्र विजिगीषोररिं प्रति यात्रा यानं तयोर्मिथः प्रतिबद्धशक्त्योः कालप्रतीक्षया तूष्णीमवस्थानमासनम् । दुर्बलस्य प्रबलयोर्विद्विषोः वाचिकमात्मनस्समर्पणं द्वैधीभावः । तथाह " बलिनोर्विद्विषोर्मध्ये वाचात्मानं समर्पयन् द्वीधीभावेन वर्तेत काकाक्षीवदलक्षितः ॥ " इति । अरिणा पीड्यमानस्य बलवदाश्रयणं समाश्रय इति विवेकः । एतान् पूर्वोक्तदशवर्गादीन् यथावदनुमन्यसे कच्चित् ग्राह्यग्राहकत्वेन जानासि कच्चित् ॥ २।१००।७१ ॥

मन्त्रिभिरिति । यथोद्दिष्टैः शास्त्रोक्तमन्त्रिलक्षणलक्षितैः । बहुभिर्मन्त्रकरणे मन्त्रभिन्नत्वसम्भवादैकमत्वाभावाच्च चतुर्भिस्त्रिभिरेवेत्युक्तिः । व्यस्तैर्मन्त्रकरणे तत्तन्मतपरिज्ञानं भवतीत्यर्थः ॥ २।१००।७२ ॥

राज्ञामवश्यसम्पादनीयार्थान् पृच्छतिकच्चिदिति । ते वेदाः त्वदधीता वेदाः सफलाः कच्चित् त्वद्विहिताग्निहोत्राद्यनुष्ठानेन सफलीकृताः कच्चित् ? क्रियाः क्रियन्ते साध्यन्त इति व्युत्पत्त्या क्रियाशब्देन धनधान्यान्युच्यन्ते, त्वत्सम्पादितानि धनादीनि दानभोगाभ्यां सफलानि कच्चित् । ते दाराः सफलाः रतिपुत्रफलाः कच्चित् ? ते श्रुतं शास्त्रश्रवणं शीलवृत्तोत्पादनेन सफलं कच्चित् ? तथा च भारते " अग्निहोत्रफला वेदा दत्तभुक्तफलं धनम् । रतिपुत्रफलादाराः शीलवृत्तफलं श्रुतम् ॥ " इति ॥ २।१००।७३ ॥

एषा धर्मकामार्थसंहिता तत्परा उक्ता एषा ते बुद्धिः मम यथा तथैव तवापि वर्द्धते कच्चित् ॥ २।१००।७४।७५,७६,७७ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायां शततमः सर्गः ॥ २।१०० ॥