०९९ श्रीरामदर्शनम्

निविष्टायामिति । शत्रुघ्नमनुदर्शयन् आश्रमसमीपवर्तिचिह्नमिति शेषः ॥ २।९९।१,२ ॥

रामदर्शनजस्तर्षः रामदर्शनमुद्दिश्य जनिताभिलाषः । तस्य शत्रुघ्नस्य चकारेण सुमन्त्रस्य च ॥ २।९९।३ ॥

तापसालयसंस्थितां तापसालयसमानसंस्थानां पर्णकुटीम् अग्न्यागारनिवासभूतां पर्णशालामुटजं च बहिःसुखावस्थानार्थमुपकल्पितमाश्रमं च ददर्शेत्यर्थः ॥ २।९९।४ ॥

उपचितानि संपादितानि ॥ २।९९।५ ॥

आश्रमम् ईयुषः प्राप्तवतः । कृतमभिज्ञानं मार्गपरिज्ञानार्थं कृतचिह्नम् । कुशचीरैः कुशैः वल्कलैः ॥ २।९९।६ ॥

मृगाणां महिषाणां करीषैः कृतान् सञ्चयानिति सम्बन्धः ॥ २।९९।७ ॥

एवमेतान् पदार्थान् पश्यन् गच्छन्नेव शत्रुघ्नमब्रवीत् ॥ २।९९।८ ॥

इतः अस्मात्प्रदेशात् मन्दाकिनीं च नातिदूरे मन्ये प्रत्यासन्नां मन्य इत्यर्थः ॥ २।९९।९ ॥

उच्चैर्बद्धानि चीराणि कस्मादयं पन्थाः विकाले गन्तुमिच्छता फलमूलसङ्ग्रहार्थमकाले गन्तुमिच्छता लक्ष्मणेन अभिज्ञानकृतः कृताभिज्ञानो भवेदिति सम्बन्धः ॥ २।९९।१० ॥

उदात्तदन्तानां महादन्तानाम् इदं परिक्रान्तं परिक्रमणस्थानमिति सम्बन्धः ॥ २।९९।११ ॥

तापसा यमग्निं सततमाधातुं सायं प्रातर्होमार्थं सर्वदा रक्षितुमिच्छन्ति तस्य कृष्णवर्त्मनः अग्नेर्धूम इति सम्बन्धः ॥ २।९९।१२१६ ॥

इत्येवंप्रकारेण । लोकसमाक्रुष्टः जनेष्वपवादं प्रापितः । प्रसादयन् प्रार्थनाद्धेतोः ॥ २।९९।१७१९ ॥

भारसाधनैः भारः पलशतं तेन साध्यन्ते सम्पाद्यन्त इति भारसाधनानि ॥ २।९९।२०,२१ ॥

महारजतवासोभ्यां सुवर्णनिर्मितकोशाभ्याम् । चर्मभ्यां फलकाभ्याम् । गोधा ज्याघातवारणम् अङ्गुलित्रमङ्गुलित्राणम् अनाधृष्याम् अप्रधृष्याम् । आसक्तैः तत्तत्साधनेषु स्थापितैरित्यर्थः ॥ २।९९।२२,२३ ॥

प्रागुदक्प्रवणाम् ईशान्यभागनिम्रामित्यर्थः । गायत्र्याणीति सप्तमाक्षरम् उटजे राममित्यस्य श्लोकस्य षोडशाक्षरेण सङ्गृह्णाति ॥ २।९९।२४।२५ ॥

तं त्वित्यादि । विशेषणान्तराभिधानार्थं ददर्शेति पुनर्वचनम् । अभितः पावकोपमं परितः पावकवदप्रधृष्यमित्यर्थः ॥ २।९९।२६,२७ ॥

स्थण्डिले भूमौ ॥ २।९९।२८ ॥

तं दृष्ट्वेति । द्वितीयो भरतशब्दः उत्तरश्लोकेन सम्बध्यते ॥ २।९९।२९३१ ॥

वासोभिरिति । बहुसाहस्रैः बहुसहस्रमूल्यैः वासोभिरुचितः अलङ्कर्तुमिति शेषः । सो ऽयं मृगाजिने मृगचर्मणी । द्वितीयाद्विवचनमेतत् । प्रवस्ते आच्छादयति । मृगाजिनैरिति पाठे मृगाजिनैराच्छादनं करीतीत्यर्थः ॥ २।९९।३२,३३ ॥

यस्येति । यथादिष्टैर्यथाविहितैर्यज्ञैर्धर्मस्य सञ्चयो यस्य युक्तः स रामः शरीरक्लेशसम्भूतं धर्मं परिमार्गते करोतीति सम्बन्धः । यथा दृष्टैरिति पाठे शास्त्रेष्विति शेषः ॥ २।९९।३४४० ॥

राजसुतौ रामलक्ष्मणौ । समागतान् सङ्गतान् ॥ २।९९।४१,४२ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायामेकोनशततमः सर्गः ॥ २।९९ ॥