०९८ भरतेन रामाश्रमगमनम्

गुरुवर्तकम् गुरुवचनानुष्ठानपरम् ॥ २।९८।१४ ॥

सहपौरैरमात्यैः पौरसहितैरमात्यैश्च सह । द्विजातिभिर्गुरुभिः द्विजातिभिस्सह वर्तमानैः गुरुभिश्च परिवृतः पद्भ्यां सर्वं चरिष्यामीति सम्बन्धः ॥ २।९८।५ ॥

शान्तिः दुःखप्रशमः ॥ २।९८।६,७ ॥

पार्थिवव्यञ्जनान्वितौ वज्राङ्कुशध्वजारविन्दसुधाकलशादिमहाराजलक्षणान्वितौ ॥ २।९८।८,९ ॥

चन्द्रविमलोपमं निर्मलचन्द्रसदृशम् ॥ २।९८।१०,११ ॥

सुभग इति । गिरिराजोपमः हिमवत्सदृशः । नन्दने कुबेरोद्याने ॥ २।९८।१२ ॥

कृतकार्यं कृतार्थं स्थावरत्वमोचकरामपादाग्ररजो ग्रस्ततया कृतार्थमित्यर्थः ॥ २।९८।१३,१४ ॥

द्रुमजालानि मध्येन द्रुमजालानां मध्येन ॥ २।९८।२५ ॥

अग्रेर्ध्वजं धूमम् ॥ २।९८।१६,१७ ॥

निशम्य दृष्ट्वा । पुण्यजनोपपन्नं तपस्विजनयुक्तम् । गुहेनेत्येतत्प्रधानजनोपलक्षणपरम् । चमूं पुनर्निवेश्य अन्वेषणार्थमागतां चमूमपि स्थापयित्वा ॥ २।९८।१८ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायाम् अयोध्याकाण्डव्याख्यायाम् अष्टनवतितमः सर्गः ॥ २।९८ ॥