०९७ रामेण लक्ष्मणपरिसान्त्वनम्

सुसंरब्धं रणोद्युक्तम् ॥ २।९७।१४ ॥

एतत्प्रतिश्रृणोमि एतदुक्तार्थजातमुद्दिश्य प्रतिज्ञां करोमीत्यर्थः ॥ २।९७।५ ॥

उक्तार्थमेव शपथकरणेन द्रढयतिभ्रातृ़णामिति । सङ्ग्रार्थं सम्यक् ग्रहणार्थं तत्तदभिमतवस्तुप्रदानेन समुद्धरणार्थम् अत एव तेषां सुखार्थं चेति यावत् ॥ २।९७।६८ ॥

अयोध्यामागतः मतुलगृहादिति शेषः ॥ २।९७।९१२ ॥

एष भरतः अस्मान् द्रष्टमिच्छतीति यत् एतत्प्राप्तकालं कालोचितमित्यर्थः ॥ २।९७।१३ ॥

तेन भरतेन कदानु कदाचित् विप्रियं कृतपूर्वं किं ते ईदृशं भयं वा त्वदुक्तसदृशं भयजनकवाक्यं वा कृतपूर्वम् उक्तपूर्वं किम् ? यस्त्वमद्य अत्रार्थे अत्र स्थाने वा अत्र भरतं शङ्कस इति सम्बन्धः ॥ २।९७।१४ ॥

निष्ठुरं परुषं अतएवाप्रियं यथा तथा न वाच्यः । भरतस्याप्रिये अप्रियवचने कृते उक्ते सति अहं हि अहमेव अप्रियमुक्तः स्यामिति सम्बन्धः ॥ २।९७।१५ ॥

प्राणं प्राणभूतम् ॥ २।९७।१६ ॥

प्रदीयतामिति वक्ष्यामीति सम्बन्धः ॥ २।९७।१७,१८ ॥

गात्राणि अवयवान् प्रविवेश लज्जातिशयादत्यन्तसङ्कुचितो ऽभूदित्यर्थः ॥ २।९७।१९ ॥

व्रीडातिशयेन प्रसङ्गान्तरं प्रस्तौति त्वां मन्य इति ॥ २।९७।२० ॥

भावज्ञो रामोप्यौचित्येन लक्ष्मणकृतप्रस्तावमेव प्रपञ्चयतिएष इत्यादिना ॥ २।९७।२१२३ ॥

गोत्रवन्तौ प्रशस्तनामानौ प्रशस्तकुलप्रसूतौ वा ॥ २।९७।२४ ॥

वृद्धः प्रवृद्धः । तातस्य शत्रुञ्जयो नाग इत्यनेन सुयत्राय रामेण दत्तादन्य इत्यर्थः ॥ २।९७।२५२८ ॥

सन्दिष्टा आज्ञप्ता ॥ २।९७।२९,३० ॥

सेति । धर्मं पुरस्कृत्य दर्पं विधूय स्थितेनेति शेषः । प्रणीता आनीता ॥ २।९७।३१ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायां सप्तनवतितमः सर्गः ॥ २।९७ ॥