०९६ भरतविषये रामलक्ष्मणसंवादः

तां नदीम् । छन्दयन् वशीकुर्वन् ॥ २।९६।१ ॥

इदं ब्रुवन्निति शेषः ॥ २।९६।२ ॥

तत्र गिरिप्रस्थे । तस्य आसतः तस्मिन् रामे आसीने सति । उपयायिनः समीपे आगच्छतः भरतस्य । सैन्यरेणुः सैन्यपादौत्यितरेणुः । शब्दः सैन्यकृतशब्दः ॥ २।९६।३८ ॥

मृगयां मृगयामुद्दिश्य । श्वापदं व्याघ्रादिहिंस्रपशुः ॥ २।९६।९,१० ॥

सर्वा दिशः प्रेक्षमाणः सर्वादिक्प्रेक्षणाद्धेतोः । हेत्वर्थे शानच् । पूर्वां दिशमुदैक्षतेति सम्बन्धः ॥ २।९६।११ ॥

यत्तैः सन्नद्धैः पदातिभिर्युक्ताम् ॥ २।९६।१२।१३ ॥

शरान् गृहाणेति शेषः । कवचं धारयेति शेषः ॥ २।९६।१४१६ ॥

सम्पन्नं सर्वसमृद्धियुक्ताम् ॥ २।९६।१७ ॥

विटपी भरतध्वजस्य लक्षणभूतः ध्वजे लिखितकोविदारः । एतदेव विशदयत्युत्तरार्धेन । उद्गतस्कन्धः ध्वजस्योद्गतस्कन्धत्वं लिखितवृक्षद्वारा ॥ २।९६।१८ ॥

सादिनः अश्वारोहाः अश्वानारुह्य भजन्ति इमं देशं प्राप्यनुवन्तीत्यर्थः ॥ २।९६।१९२२ ॥

यस्मात् भरताद्धेतोः ॥ २।९६।२३२६ ॥

सानुबन्धां मन्थराद्यनुबन्धयुक्ताम् । कलुषेण पापेन, कैकेयीरूपकलुषेणेत्यर्थः ॥ २।९६।२७ ॥

संयतं स्तम्भितम् ॥ २।९६।२८३० ॥

शरणामिति । शरादीनाममित्रमथनार्थत्वादितिभावः ॥ २।९६।३१ ॥

इति श्रीमहेश्वरतीर्थविरचितायां अयोध्याकाण्डव्याख्यायां षण्णवतितमः सर्गः ॥ २।९६ ॥