०९४ चित्रकूटे सीतारामसंवादः

दीर्घेत्यादश्लोकद्वयमेकं वाक्यम् । स्वं च चित्तं वनवासपरिश्रान्तं स्वकीयं चित्तं च विलोभयन् अभिमतविषयान्तरव्यासङ्गेन आनन्दयन्नित्यर्थः ॥ २।९४।१,२ ॥

विनाभवः विनाभवनम्, विनावस्थानमिति यावत् । मे गिरिं दृष्ट्वा स्थितस्येति शेषः ॥ २।९४।३ ॥

खमिवोद्विद्धैः खं भित्त्वा उद्गतैरिति ॥ २।९४।४ ॥

माञ्जिष्टवर्णाः चित्रवर्णाः ॥ २।९४।५ ॥

पुष्यार्ककेतकाभाः पुष्यः पुष्यरागः अर्कः स्फटिकः केतकानि केतकीपुष्पाणि । ज्योतिः नक्षत्रं ज्वाला वा । रसः पारदरसः ॥ २।९४।६ ॥

नानामृगगणद्वीपितरक्ष्वृक्षगणैः द्वीपीमहाव्याघ्रः, तरक्षुः क्षुद्रव्याघ्रः । अदुष्टैः महर्षिनिवासभूतपर्वतवर्तित्वाददुष्टत्वम् ॥ २।९४।७ ॥

असनः पीतसारः । अरिष्टो निम्बः । बीजकाः बीजप्रचुरफलाः, दाडिमा इत्यर्थः ॥ ९४।८।१० ॥

शौलप्रस्थेषु पर्वतसानुषु ॥ २।९४।११ ॥

क्रीडोद्देशान् क्रीडाप्रदेशान् ॥ २।९४।१२ ॥

जलप्रपातैः उन्नतप्रदेशात्पतद्भिः जलप्रवाहैः उद्वेधैः उद्भिद्य निर्गतैः क्षुद्रनिर्झरैः ॥ २।९४।१३ ॥

घ्राणतर्पणं यथा तथा कं नरं न प्रहर्षयेदिति सम्बन्धः ॥ २।९४।१४१७ ॥

भावान् किन्नरादीनां चेष्टाः । मनोवाक्कायसंयता सम्यङ्नियमित करणत्रयेत्यर्थः ॥ २।९४।१८ ॥

इदमिति लिङ्गव्यत्यय आर्षः । हे राज्ञि परे राजर्षयः । इदं वनवासं वानप्रस्थोचितनियमसहितं वनवासम् । अमृतं प्राहुः मोक्षसाधनं प्राहुः । मे प्रपितामहास्तु प्रेत्य भवार्थाय प्रेत्यभवः पुनर्जन्म तस्य अर्थः प्रयोजनं प्रेत्यभवार्थः तस्मा एव प्राहुः देहं त्यकत्वा देवादिदेहान्तरपरिग्रहरूपप्रयोजनाय च प्राहुः ॥ २।९४।१९,२० ॥

अचलेन्द्रस्य ओषध्यः अचलेन्द्रसम्बन्ध्योषधयः सहस्रशः । स्वप्रभालक्ष्म्या इति पाठः । स्वकान्तिसम्पदा भ्राजमानाः निशि हुताशनशिखा इव भान्तीति सम्बन्धः ॥ २।९४।२१ ॥

क्षयनिभाः सदनसदृशा देशाः ॥ २।९४।२२,२३ ॥

कुष्ठमुत्पलम् । पुन्नागानि पुन्नागपुष्पाणि स्थगरः पुत्रजीविसंज्ञको वृक्षविशेषः । भूर्जपत्रं भूर्जवृक्षत्वकू उत्तरच्छदा उपर्यास्तरणानि येषां ते तथा ॥ २।९४।२४,२५ ॥

वस्वौकसारा अलकापुरी पूर्वदिगवस्थितशक्रपुरी वा । नलिनीं मानससरसीम्, सौगन्धिकाख्यसरसीं वा ऽत्येति रमणीयतयातिक्रामतीव ॥ २।९४।२६ ॥

एवं कालं चतुर्दशवर्षावधिकालं रतिं प्रीतिं कुलधर्मवर्धनीं सत्यप्रतिपालनरूपधर्मवर्धनीम् । सतां राजर्षीणां स्वैर्नियमैः सह स्थितस्सन् त्वया लक्ष्मणेन च सह विजह्निवान् यदि तदा रतिं प्रपत्स्य

इति सम्बन्धः ॥ २।९४।२७ ॥

इति श्रीमहेश्वरातीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायां चतुर्नवतितमः सर्गः ॥ २।९४ ॥