तयेति । यायिन्या गच्छन्त्या । यूथपाः गजयूथपाः ॥ २।९३।१ ॥
पृषतसङ्घाः पृषतबिन्दुसहिताः । रुरवस्तु बिन्दुरहिताः स्थूलकायाः विकटश्रृङ्गाश्च ॥ २।९३।२४ ॥
अवतता व्याप्ता ॥ २।९३।५ ॥
मन्त्रिणां वरं मन्त्रज्ञानां श्रेष्ठम् ॥ २।९३।६१२ ॥
दक्षिणदिग्भवा नराः मेघप्रकाशैर्ऋक्षादिनीलचर्मपिनद्धतया नीलमेघतुल्यैः फलकैः साधनभूतैः शिरस्सु कुसुमापीडान् कुसुमसमूहान्यथा कुर्वन्ति यथा धारयन्ति तथैवामी वृक्षाः कुसुमापीडान् कुसुमस्तबकान् शिरस्सु धारयन्ति । दाक्षिणात्या हि फलकान् ऋक्षादिचर्मापिनद्धान् कृत्वा तेषु पुष्पाणि विकिर्य शिरस्सुधारयन्तीति प्रांसेद्धिः । यद्वा अमी भटाः मेघप्रकाशैः फलकैरुपलक्षिताः सन्तः दाक्षिणात्या नरा इव कुसुमापीडान् कुसुमशेखरान् शिरस्सु कुर्वान्ति ॥ २।९३।१३ ॥
निष्कूजमिव भूत्वा पूर्वं जनशब्दरहितं भूत्वा स्थितमिदं वनं संप्रति जनाकीर्णायोध्येव प्रतिभातीति सम्बन्धः ॥ २।९३।१४ ॥
दावं वनं प्रच्छाद्य “दवदावौ वनारण्य वह्नी” इत्यमरः । दिवं प्रच्छाद्येति वा पाठःशीघ्रं तं वहति तं द्रुतमपनयतीत्यर्थः ॥ २।९३।१५१९ ॥
साधुसैन्याः उचिताः सैनिकाः प्रतिष्ठन्तां गच्छन्त्वित्यर्थः ॥ २।९३।२०२२ ॥
नरव्याघ्रौ अत्र यदि न स्त इति शेषः ॥ २।९३।२३२७ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायां त्रिनवतितमः सर्गः ॥ २।९३ ॥