तत इति । सपरिच्छदः सपरिवारः कामात् रामप्राप्तिकामात् ॥ २।९२।१,२ ॥
सुखा सुखरूपा, आतिथ्ये ते जनः सन्तुष्टो ऽभूदिति शेषः ॥ २।९२।३,४ ॥
बलवत्तर्पितः अतीव तर्पितः ॥ २।९२।५ ॥
सुप्रतिश्रयाः शोभनस्थानाः, शोभनगृहा इत्यर्थः । प्रेष्यानुपादाय प्रेष्यानपि परिगृह्य, प्रेष्यैस्सहिता इति यावत् ॥ २।९२।६ ॥
कामं यथेच्छम् ॥ २।९२।७ ॥
आश्रममाचक्ष्व कतमो मार्गः तस्या कियान् दूरे शंस, वर्तत इति शेषः ॥ २।९२।८,९ ॥
अर्धतृतीयेषु अर्धयुक्ततृतीयेष्वित्यर्थः । सार्धयोजनद्वये वा । अजने निर्जने चित्रकूटः, वर्तत इति शेषः ॥ २।९२।१० ॥
मन्दाकिनी भागीरथीव्यतिरिक्ता नदी, अस्तीति शेष ॥ २।९२।११ ॥
तत्परितो मन्दाकिन्या अनन्तरं तस्याः परपार इत्यर्थः । तत्र चित्रकूटे ॥ २।९२।१२ ॥
दक्षिणेनेत्यादिश्लोकद्वयमेकं वाक्यम् । दक्षिणेन मार्गेण किञ्चिद्दूरं गत्वा तदनन्तरं सव्यदक्षिणमेव वा सव्यं दक्षिणं यथा तथा वाहिनीं वाहयस्व । कान्तारमार्गस्य सूक्ष्मत्वात् यथायोग्यं मार्गस्य वामतो दक्षिणतश्च विस्तारप्रदेशे वाहिनीं प्राप्यस्वेत्यर्थः ॥ २।९२।१३ ॥
राजराजस्य दशरथस्य । ब्राह्मणं भरद्वाजम् ॥ २।९२।१४१७ ॥
विशेषम् इयं का इयं केत्येवंरूपं विशेषमित्यर्थः ॥ २।९२।१८२० ॥
धातारम् उपेन्द्रम् ॥ २।९२।२१ ॥
अस्याः कौसल्यायाः दुर्मनाः दुःखितमनाः ॥ २।९२।२२,२३ ॥
जीवनाशं गतौ तादृशापदं प्राप्तावित्यर्थः ॥ २।९२।२४,२५ ॥
यतोमूलं यन्निमित्तम् ॥ २।९२।२६२८ ॥
कैकेयी दोषेण नावगन्तव्या कैकेय्यां दोषदृष्टिर्न कर्तव्येत्यर्थः । कैकेय्या देवप्रेरितत्वादिति भावः ॥ २।९२।२९,३० ॥
संसिद्धः कृताशीर्वाद इत्यर्थः ॥ २।९२।३१ ॥
वाजिरथान् वाजिनश्च रथांश्च । युक्तान् सज्जीकृतान् ॥ २।९२।३२ ॥
गजकन्याः करेणवः ॥ २।९२।३३,३४ ॥
यानप्रवेकैः यानश्रेष्ठैः ॥ २।९२।३५ ॥
चन्द्रार्कतरुणाभासाम् तरुणचन्द्रार्कसदृशामित्यर्थः नियुक्तां सज्जीकृताम् ॥ २।९२।३६ ॥
सा प्रयातेत्यादिश्लोकद्वयमेकं वाक्यम् । गङ्गयाः परवेलायां दक्षिणकूले निविष्टा सा सेना उत्थितो मेघ इव दक्षिणां दिशमावृत्य गिरिष्वपि नदीषु च वनानि व्यतिक्रम्य प्रयातेति सम्बन्धः ॥ २।९२।३७३९ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायां द्विनवतितमः सर्गः ॥ २।९२ ॥