०९१ भरद्वाजकृतातिथ्यम्

कृतबुद्धिं कृताध्यवसायम् ॥ २।९१।१ ॥

वने यदुपपद्यते तेन आतिथ्यं कृतं नन्वित्यब्रवीदिति सम्बन्धः ॥ २।९१।२,३ ॥

तथार्हः तथाङ्गीकर्तुमर्हसीत्यर्थः । (तथार्हौ मनुजाधिप इति पाठः ) ॥ २।९१।४६ ॥

विषयेषु देशेषु । तपस्विनः परिहर्तव्याः सेनया सह गमने तेषामाश्रमपीडा भवेदिति भावः ॥ २।९१।७९ ॥

समुपागमं समानयनम् ॥ २।९१।१० ॥

पीत्वापः परिमृज्य सम्यागाचम्य ॥ २।९१।११,१२ ॥

त्रीन् लोकपालान् यमवरुणकुबेरान् ॥ २।९१।१३,१४ ॥

मैरेयं मिरादेशभवं खर्जूरतालादिहेतुकं मद्यविशेषम् । सुरा " गौडी पैष्टी च माध्वी च विज्ञेया त्रिविधासुरा" इत्युक्ताम् । सुनिष्ठिताः सुस्थिताः ॥ २।९१।१५१७ ॥

सपरिच्छदाः सालङ्काराः ॥ २।९१।१८ ॥

वासोभूषणपत्रवत् वासो भूषणान्येव पत्राणि यस्मिन् सन्तीति तथा । दिव्यनार्थ एव फलानि यस्य तत् । इहैतु अत्रागच्छतु ॥ २।९१।१९ ॥

इह म इत्यादिश्लोकद्वयमेकं वाक्यम् । पादपप्रच्युतानि वृक्षेभ्यः स्वयं चोदितानि ॥ २।९१।२०,२१ ॥

शीक्षास्वरससमायुक्तां शीक्षा शास्त्रोक्तस्वरसहितम् मन्त्रमिति शेषः । अब्रवीत् आह्वानार्थमुच्चारितवान् ॥ २।९१।२२,२३ ॥

मलयं दर्दुरमिति चन्दनोत्पत्तिहेतुपर्वतौ । युक्त्या यथोचितवृत्त्या ॥ २।९१।२४ ॥

घनाः निरन्तराः ॥ २।९१।२५२९ ॥

फलभूषणाः फलानि भूषणानि येषां ते तथा कपित्थादयो बभूवुः, आविर्बभूवुरित्यर्थः ॥ २।९१।३० ॥

वनं कौबेरम् । नदीत्येतज्जात्येकवचनम् । तीरजैः वृक्षैरिति शेषः ॥ २।९१।३१ ॥

चतुश्शालादयो ऽभूवन्निति शेषः ॥ २।९१।३२ ॥

शुक्लमाल्यकृताकारमिति पाठः । शुक्लमाल्यैरलङ्कृतमित्यर्थः । यद्राजवेश्म रत्नसम्पूर्णं तद्वेश्म प्रविवेशेति सम्बन्धः ॥ २।९१।३३३५ ॥

वेश्मसंविधिं वेश्मसंविधानम् ॥ २।९१।३६ ॥

अभ्यवर्तत अभितो ऽवर्तिष्ट प्रदक्षिणं कृतवानित्यर्थः । राजवत् राजार्हम् । राजार्हमासनादिकं सर्वं प्रदक्षिणं च चकारेत्यर्थः ॥ २।९१।३७,३८ ॥

प्रशास्ता शिबिरनियन्ता ॥ २।९१।३९,४० ॥

उभयतःकूलम् उभयोः कूलयोरित्यर्थः । पाण्डुमृत्तिकलेपनाः सुधालिप्ताः । ब्रह्मणः भरद्वाजस्य ॥ २।९१।४१ ॥

आगुः आजग्मुः ॥ २।९१।४२ ॥

सुवर्णेत्यादिसार्धश्लोकमेकं वाक्यम् । सुवर्णमणिमुक्तेन सुवर्णानि सुवर्णमयाभरणानि मणयो रत्नानि मुक्ताश्च सुवर्णमणिमुक्तम् तेन । एकवद्भावो ऽयम् ॥ २।९१।४३४६ ॥

प्रयागे प्रयागस्थभरद्वाजाश्रमे ॥ २।९१।४७ ॥

शम्याग्राहाः शम्याख्यतालग्राहकाः । तथा चोक्तं भरतशास्त्रे “वह्नौ तालविशेषे च शम्या तालक्रियान्तरे " इति शम्याशब्दः प्रवर्तते । विभीतकाः कलिद्रुमाः । बिल्ववृक्षा एव मार्दङ्गिकाः मृदङ्गवाद्यधारिणः आसन् ॥ २।९१।४८ ॥

कुब्जाः स्थगुमन्तः । वामनाः ह्रस्वाः ॥ २।९१।४९ ॥

शिंशुपेत्यादिश्लोकद्वयमेकं वाक्यम् । अन्याः स्त्रीलिङ्गशब्दवाच्या ये वृक्षादयः मल्लिकामालत्यादयश्च यास्सन्ति ताः प्रमदाविग्रहं कृत्वा यावदिच्छथ तावद्भक्ष्यन्तामित्यवदन्निति सम्बन्धः ॥ २।९१।५०,५१ ॥

उच्छाद्य उद्वर्त्तनं कृत्वा । “उद्वर्त्तनोच्छादने द्वे " इत्यमरः । संवाहन्त्यः संवाहयन्त्यः, पादसंवाहनं कुर्वन्त्य इति यावत् । परिमृज्य जलार्द्रमङ्गं वस्त्रादिना परिमृज्य, अलङ्कृत्वेति वा । पाययन्ति मध्वादिकमिति शेषः ॥ २।९१।५२,५३ ॥

सुरभेस्सुतान् बलीवर्दान् ॥ २।९१।५४ ॥

इक्ष्वाकुवरयोधानां वाहान् चोदयन्तः प्रेरयन्तः महाबलाः वाहनपाः इक्ष्वादीन् भोजयन्ति स्मेति सम्बन्धः ॥ २।९१।५५ ॥

अश्वबन्धः अश्वग्राहकः । नाजानात् नाज्ञासीत् । कुञ्जरग्रहः कुञ्जरग्राहकः । मत्तप्रमत्तमुदिताः मत्ता मदकरद्रव्यसेवया प्रमत्ताः मधुपानेन कार्याकार्यविवेकशून्याः । मुदिताः स्रक्चन्दनादिभोगातिशयेन हृष्टाः ॥ २।९१।५६५८ ॥

हस्त्यश्वारोहबन्धकाः हस्त्यश्वारोहास्तद्बन्धकाश्च तद्विधिं तादृशसत्कारविधिम् ॥ २।९१।५९६२ ॥

चेट्यः दास्यः ॥ २।९१।६३ ॥

सुभृताः सुपुष्टाः । अन्योह्यन्यं नाकल्पयत् ऋषिकृतव्यतिरिक्तादन्ये नाकरोत् ॥ २।९१।६४,६५ ॥

आजैरित्यादिश्लोकद्वयमेकं वाक्यम् । निष्ठानवरसञ्चयैः व्यञ्जनश्रेष्ठसमूहैः । “निष्ठानं व्यञ्जनं ज्ञेयम् " इति हलायुधः । फलनिर्यूहसंस्थितैः सम्यङ्निष्पन्नफलयुक्तशर्करादिक्वाथरसैः । “द्वार्यापीडे क्काथरसे निर्यूहो नागदन्तके " इति वैजयन्ती । पुष्पध्वजवतीः अलङ्कारार्थं परिकल्पितपुष्पध्वजयुक्ताः । लौहीः स्वर्णरजतमयपात्रीः निष्ठानवरसञ्चयैः सूपैश्च शुक्लस्यान्नस्याभितः पूर्णलौहीर्ददृशुरिति सम्बन्धः ॥ २।९१।६६,६७ ॥

पायसकर्दमाः कूपा बभूवुः । कामदुघा गावो बभूवुः । वृक्षा मधुश्च्युता आसन् ॥ २।९१।६८ ॥

प्रतप्तपिठरैः कुण्डेषु प्रतप्तैः । “पिठरः कुण्डमुच्यते " इति हलायुधः । मार्गमायूरकौक्कुटैः मृगमयूरकुक्कुटसम्बन्धिभिः मृष्टमांसचयैर्वृताः मैरेयपूर्णा वाप्यश्चासन्निति सम्बन्धः ॥ २।९१।६९ ॥

पात्रीणामिति । पात्रीणां हस्तप्रक्षालनाद्युपयुक्तपात्राणां स्थालीनाम् उखानां पात्राणि भोजनपात्राणि । स्थाल्यः उखाः । कुम्भ्यः क्षुद्रस्थाल्यः “उखा स्थाली च कुम्भी च पिठरः कुण्डमुच्यते " इति हलायुधः । करम्भ्यः स्थाल्यादयश्चासन्निति पूर्वेण सम्बन्धः । यौवनस्थस्य नातिनवस्य नातिपुराणस्य, मथनानन्तरं यामान्तरितस्येत्यर्थः । कपित्थस्य तक्रस्य " तक्रं कपित्थं मथितम् " इति वैजयन्ती । यद्वा कपित्थस्य कपित्थपरिमलयुक्ततक्रस्येत्यर्थः । रसालस्य शुण्ठीमरिचिपिप्पल्येलालवङ्गकक्कोलनागपुष्पखण्डशर्कराश्रृङ्गिबेरजीरकमिश्रितस्य तक्रस्य । तथा च वैजयन्ती"अपक्वतक्रं सव्योषं चतुर्जातं गुडार्द्रकम् । सजीरकं रसालं स्यान्मज्जिका शिखरिण्यपि ॥ " इत्युक्तविशेषणविशिष्टेन तक्रेण । दध्नः दध्ना च पूर्णाः अपरे ह्रदा बभूवुरित्यर्थः । शर्करायावसञ्चयाः शर्कराणां यावानां यवविकाराद्यपूपानां सञ्चयाः । यद्वा शर्करामिश्रयवाः शर्करायवाः ॥ २।९१।७०७२ ॥

चूर्णकषायान् सुरभिचूर्णानि । “कषायो गन्धसुरभौ लोहितेपि च " इति विश्वः । स्नानानि स्नानीय द्रव्याणि ॥ २।९१।७३ ॥

शुक्लान् शुद्धान् । अंशुमतः स्निग्धान् । समुद्गेषु सम्पुटेषु । “सद्गस्सम्पुटो ज्ञेयः " इति हलायुधः ॥ २।९१।७४ ॥

पादुकोपानहः पादुकाः दारुनिर्मिताः उपानहश्चर्मनिर्मिताः ॥ २।९१।७५ ॥

आञ्जनीः अञ्जनयुक्ताः करण्डिकाः । कङ्कतान् केशमार्जनानि । कूर्चान् श्मश्रुप्रसाधकान् । मर्मत्राणानि कवचादीनि ॥ २।९१।७६ ॥

प्रतिपानह्रदान् भुक्तजीर्णार्थं बाहटशास्त्रोक्तप्रकारेण यत्पीयते तत्प्रतिपानं तस्य ह्रदान् । अवगाह्यसुतीर्थान् अवगाहनयोग्यशोधनजलावतरणप्रदेशान् “जलावतारे तीर्थं स्यात्” इति हलायुधः । यवससञ्चयान् तृणसमूहान् । पशूनां निर्वापार्थान् पशुभ्यो विश्राणनार्थान् । अत्र द्वितीयान्तानां ददृशुरित्यनेन सम्बन्धः ॥ २।९१।७७७९ ॥

स्वप्नकल्पं अयत्नसिद्धत्वाददृष्टपूर्वत्वादाश्चार्यावहत्वाच्च स्वप्नकल्पोक्तिः ॥ २।९१।८०,८१ ॥

प्रतिजग्मुरिति । अनुज्ञाप्य अनुज्ञां प्राप्येत्यर्थः ॥ २।९१।८२ ॥

एतत्सर्वं मिथ्या न भवति सत्यमेवेति दर्शयितुं मदादीनामवस्थितिमाहतथैवेति । मत्ताः भोगैः दृप्ताः । मदिरोत्कटाश्च मदिरया मत्ताश्च । तथैव अनुभवकाल इव अवर्तन्तेत्यर्थः ॥ २।९१।८३ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायां एकनवतितमः सर्गः ॥ २।९१ ॥