भरद्वाजेत्यादिश्लोकद्वयमेकं वाक्यम् ॥ २।९०।१।२ ॥
पुरोहितमनुजगाम पुरोहितं पुरतः कृत्वा जगामेत्यर्थः ॥ २।९०।३ ॥
अर्घ्यम् आनयामासेति शेषः ॥ २।९०।४,५ ॥
वृत्तं नोदाहरत् न पृष्टवान् ॥ २।९०।६८ ॥
राघवस्नेहबन्धनात् रामविषयस्नेहबन्धनात् ॥ २।९०।९ ॥
न शुद्ध्यते शुद्धिं न प्राप्नोति, न विश्वसितीति यावत् ॥ २।९०।१० ॥
सुषुव इत्यादिश्लोकद्वयमेकं वाक्यम् । चिरंप्रव्राजितः चिरकालमुद्दिश्य प्रव्राजितः ॥ २।९०।११,१२ ॥
तस्य रामस्य । राज्यमकण्टकं भोक्तुमनाः, अपापस्य तस्यानुजस्य च पापं द्रोहं कर्तुं नेच्छसि कच्चिदिति सम्बन्धः ॥ २।९०।१३ ॥
पर्यश्रुनयनः परिस्रुताश्रुनयनः । संसज्जमानया स्खलन्त्या ॥ २।९०।१४ ॥
भगवानपि भूतभविष्यद्वर्तमानार्थज्ञोपीत्यर्थः । मयि दोषं नाशङ्के नोत्प्रेक्षे अतो मामेवं नानुशास्तु हि एवं कर्णकठोरं वक्तुं नार्हसि ॥ २।९०।१५ ॥
मदन्तरे मया विना ॥ २।९०।१६ ॥
प्रसादकः प्रसादयितुम् ॥ २।९०।१७,१८ ॥
वसिष्ठादिभिः याचितः भरताय प्रसन्नो भवेति प्रार्थितः । प्रसादात् प्रसादं प्राप्योवाचेत्यर्थः ॥ २।९०।१९ ॥
एतत् गुरुवृत्त्यादित्रयम् ॥ २।९०।२० ॥
कीर्तिं रामविषयसौभ्रात्रजनिताम् ॥ २।९०।२१,२२ ॥
श्व इति । कामार्थकोविद वाञ्छितार्थप्रदानदक्षेत्यर्थः ॥ २।९०।२३ ॥
प्रतीतरूपः प्रकर्षेण हृष्टरूपः ॥ २।९०।२४ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायां नवतितमः सर्गः ॥ २।९० ॥