०८९ भरतादीनां प्रयागवनगमनम्

अन्याः पूर्वोक्तव्यतिरिक्ताः स्वस्तिकविज्ञायाः स्वस्तिकाख्यारचनाविशेषविशिष्टतया निर्मितत्वात्स्वस्तिका इति विज्ञेयाः । युक्तवाहाः पर्याप्तकर्णधारयुक्ताः । युक्तवाता इति पाठेचारुफलकभित्तिसमावरणेन परिमितवाताः । सुसंहताः दृढसन्धिबन्धाः समानित्युरित्यनुषङ्गः ॥ २।८९।११ ॥

तत इति । सनन्दिघोषां हर्षजनककिङ्किण्यादिघोषयुक्ताम् ॥ २।८९।१२ ॥

कौसल्येत्यादि । राजयोषितः आगता इति शेषः । तत्पूर्वं तासां पूर्वम् । पुरोहितो गुरवो ब्राह्मणाश्च ये आगतास्ते आरुरुहुः । अनन्तरं राजदाराः कौसल्याप्रमुखा राजदाराः तथैवारुरुहुः । तथैव शकटापणाः शकटाश्च आपणाश्च आपणस्थपदार्थाश्च आरुरुहुः आरोपयामासुरित्यर्थः ॥ २।८९।१३ ॥

आवासमिति । आवासं सेनानिवेशः । तीर्थम् अवतरणप्रदेशः । भाण्डानि उपकरणानि ॥ २।८९।१४,१५ ॥

नारीणामिति । नारीणामभिपूर्णाः नारीभिरभिपूर्णाः । वाजिनाम् आरोहणार्हवाजिभिरभिपूर्णाः । यानयुग्यं यानानि रथशकटादीनि, युग्यानि अश्वाश्वतरबलीवर्दादीनि च यानयुग्यम् । महाधनं बहुमूल्यम् ॥ २।८९।१६ ॥

ताः स्मेति । ताः नावः । तं जनम् अवरोप्य निवृत्ताः । दाशबन्धुभिः दशश्रेष्ठैः । काण्डचित्राणि काण्डे वारिणि चित्राणि विचित्रगमनानि क्रियन्ते निवृत्तिसमये भारावरोपणलघुत्वजनितेन सौकर्येण विचित्रगतिसहितं दाशैरानीयन्तेत्यर्थः । “काण्डो ऽस्त्री दण्डबाणार्ववर्गावसरवारिषु " इत्यमरः । काण्डचित्रा इति पाठः ॥ २।८९।१७ ॥

सवैजयन्ताः सपताकाः ॥ २।८९।१८ ॥

कुम्भाः अधिकप्रमाणाः,घटाः न्यूनप्रमाणाः ॥ २।८९।१९ ॥

मैत्रे मुहूर्ते रौद्रादिषु पञ्चदशघटिकामुहूर्तेषु तृतीयो मुहूर्तः तस्मिन् । तथा चोक्तम् “रौद्रः सार्पस्तथा

मैत्रः पैत्रो वासव एव च । आप्यो वैश्वस्तथा ब्रह्मा प्राजेशेन्द्राग्नमुच्यते । ऐन्द्रोथ निर्ऋतिश्चैव वारुणार्यमदेवताः । एते क्रमेण विज्ञेया मुहूर्ता दशपञ्च च ॥ " इति ॥

२।८९।२० ॥

आश्वासयित्वेति । यथोपजोषम् यथासुखम् ॥ २।८९।२१ ॥

देवपुरोहितस्य भरद्वाजस्य देवपुरोहितत्वोक्तिः बृहस्पतिपुत्रत्वात् । बृहस्पतिरुचथ्यभार्यायां ममतायां पुत्रमुत्पादयामास, भर्तुर्भिया पुत्रं परित्यक्तुकामां तां देवा ऊचुः । उचथ्यस्य क्षेत्रजत्वेन बृहस्पतेरौरसत्वेन “भरद्वाजममुं भर” इति । तस्माद्भरद्वाज इति । रस्मोटजवृक्षषण्डं रम्या उटजाः वृक्षषण्डानि वृक्षसमूहाः यस्मिंस्तत् ॥ २।८९।२२ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायां एकोननवतितमः सर्गः ॥ २।८९ ॥