तेन रामेण शर्वरीशयितं शर्वर्यां शयितम् । अस्य रामस्य । विमर्दितं विमर्दनम् ॥ २।८८।२ ॥
महाभागेति । दशरथेनेति हेतौ तृतीया पञचम्यर्थे वा ॥ २।८८।३ ॥
अजिनेति । अजिनोत्तरसंस्तीर्णे अजिनोत्तरच्छदेन संस्तीर्णे, अत्राजिनशब्देन कदल्यादिमृगविशेषाजिनं विवक्षितम् । वरास्तरणसञ्चये वराण्यमूल्यानि आस्तरणानि येषु पर्यङ्केषु तेषां सञ्चये समूहे ॥ २।८८।४ ॥
प्रासादेति । प्रासादाग्रविमानेषु विमानाकारराजगृहेषु । हैमराजतभौमेषु राजतानि भौमानि भूतलानि येषु तेषु । वरास्तरणशालिषु प्रासादवरवर्येषु प्रासादवरणामुत्तमेषु । उषित्वा शयित्वेत्यर्थः । वराभरणनिस्वनैः परिचारिकाणां नूपुराद्याभरणानां शिञ्चितैः स्तुतिभिश्च प्रतिबोधितः महीतले कथं शेत इति पूर्वेण सम्बन्धः ॥ २।८८।५१२ ॥
इयमिति । गात्रैः करचरणाद्यवयवैः ॥ २।८८।१३,१४ ॥
उत्तरीयमिति । सीतया धृतमिति शेषः । यद्वा षष्ठ्यर्थे तृतीया ॥ २।८८।१५ ॥
येन मैथिली दुःखं न विजानाति तेन कारणेन भर्तुश्शय्या पतिव्रतानां सुखेति मन्य इति सम्बन्धः ॥ २।८८।१६२० ॥
सिद्धार्थेति । पतिमनुसृत्य वनं गता अतः सिद्धार्था वयं संशयिताः स्वस्य पुरुषार्थविषयसंशयं प्राप्ताः ॥ २।८८।२१ ॥
अकर्णेति । अकर्णधारेव कर्णधाररहिता नौरिव । शून्या नायकरहिता ॥ २।८८।२२,२३ ॥
शून्येति । शून्यसंवरणाक्षां विहीनप्राकाररक्षाम् । अयन्त्रितहयद्विपाम् असन्नद्वाश्वगजाम् । न्यूनां साधनविहीनाम् । विषमस्थां दुर्दशोपपन्नाम् । अनावृतां बाह्यरक्षकरहिताम् । नाभिमन्यन्ते नाभिभवितुं स्मरन्ति ॥ २।८८।२४,२५ ॥
अद्यप्रभृतीत्यादिश्लोकद्वयमेकं वाक्यम् । तं प्रतिश्रवं तां प्रतिज्ञाम् रामकृतवनवासप्रतिज्ञामित्यर्थ । आमुच्यस्वस्मिन्नासज्य । तस्यार्थं रामार्थम् उत्तरं कालं चतुर्दशवर्षात्मकरामानुष्ठेये व्यतिरिक्तोत्तरं कालम् । वने वत्स्यमि, अतो ऽस्य रामस्य प्रतिज्ञा मिथ्या न भविष्यति ॥ २।८८।,२६२९ ॥
प्रसाद्यमान इति । न प्रपत्स्यते नाङ्गीकरिष्यति यदि, प्रार्थनामिति शेषः ॥ २।८८।३० ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायां अष्टाशीतितमः सर्गः ॥ २।८८ ॥