०८७ रामचरितप्रस्तावः

गुहस्येति । ध्यानं जगाम स्वाभिलषितकार्यसङ्कटं जातमिति चिन्तां प्रापेत्यर्थः ॥ २।८७।१ ॥

सुकुमार इत्यादिश्लोकद्वयमेकं वाक्यम् । प्रत्याश्वस्य मुहूर्तकालं परमदुर्मनाः सन् सहसा पपात । ससादेति वा पाठः ॥ २।८७।२,३ ॥

तदवस्थमिति । अनन्तरस्थितः आसन्नस्थितः ॥ २।८७।४९ ॥

कच्चिदिति । एकपुत्रायाः ममेति शेषः ॥ २।८७।१० ॥

स इति । परिसान्त्व्य त्वच्छङ्कितं किमपि नास्तीत्याश्वास्य ॥ २।८७।११,१२ ॥

सो ऽब्रवीदिति । गुहः हृष्टः रामवृत्तान्तकीर्तनेन स्वावकाशो लब्ध इति सञ्चातहर्षस्सन् रामे यद्विधं यादृशमुपचारं प्रतिपेदे अकरोदित्यर्थः । तदब्रवीत् । चकारेण रामकृतं समुच्चीयते ॥ २।८७।१३,१४ ॥

तत्सर्वमिति । रामस्तन्न प्रत्यगृह्णात् किन्तु तत्सर्वं प्रत्यनुज्ञासीत् प्रत्यर्पयामास ॥ २।८७।१५,१६ ॥

लक्ष्मणेनेत्यादिश्लोकद्वयमेकं वाक्यम् । वाग्यतास्ते त्रयस्सन्ध्यां समुपासत । अथ राघवः लक्ष्मणेन यद् वार्यानीतं तत्पीत्वा औपवास्यम् उपवासम् । औपवस्तमिति पाठेप्ययमेवार्थः । लक्ष्मणोप्यकरोत् औपवास्यमित्यनुषङ्गः ॥ २।८७।१७,१८ ॥

सौमित्रिरिति । स्वास्तरं सुष्ठु आस्तरं शयनमित्यर्थः । बर्हींषि कुशानि ॥ २।८७।१९२१ ॥

नियम्येति । तलाङ्गुलित्रवान् तलं ज्याघातवारणम् । अङ्गुलित्रम् अङ्गुलित्राणम् तदुभयवान् । इषुधी तूणीरौ उपोह्य धृत्वा । केवलमित्यनेन लक्ष्मणसम्बन्धिशयननिद्राराहित्यमुच्यते ॥ २।८७।२२,२३ ॥

इति । श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायामयोध्याकाण्डव्याख्यायां सप्ताशीतितमः सर्गः ॥ २।८७ ॥