आचचक्ष इति । अथ आश्वासानन्तरम् । सद्भावं ज्येष्ठानुवर्तनरूपं समीचीनस्वभावम् ॥ २।८६।१३ ॥
उचित इति । तस्य रामस्य । तव गुप्त्यर्थमिति पाठेतत्कृता या रामगुप्तिः तदर्थम् ॥ २।८६।४ ॥
नहीति । रामादन्यः प्रियतरो भुवि नास्ति । मोत्सुकोभूः उत्सुको माभूः । अस्मिन्नर्थे विस्मयं मागाः । इदमसत्यमत आह ब्रवीम्येतदिति । रामं रक्षिष्यामीत्येतद्वचनं तवाग्रतः असत्यं ब्रवीम्यपि असत्यं ब्रवीमि किम्? न ब्रवीम्येवेत्यर्थः ॥ २।८६।५ ॥
स्वस्यैहिकामुष्मिकफलं रामायत्तमित्याहअस्येति । धर्मावाप्तिम् आमुष्मिकफलसाधनभूताम् । अस्य रामस्य प्रसादादेवेत्याशंस इति सम्बन्धः ॥ २।८६।६११ ॥
महतेति । एकः मुख्यः ॥ २।८६।१२१४ ॥
कौसल्येति । सर्वे ते जीवेयुरिति नाशंसे । यदि जीवेयुः इमां शर्वरीमेवेति सम्बन्धः ॥ २।८६।१५,१६ ॥
अतिक्रान्तमिति । राज्ये राममनिक्षिप्य तादृशमनोरथमनवाप्य मे पिता विनशिष्यति । यतः अतः अतिक्रान्तमतिक्रान्तं सर्वप्रयोजनमतीत्य गतं व्यर्थं गतमित्यर्थः ॥ २।८६।१७,१८ ॥
रम्येत्यादिश्लोकत्रयमेकं वाक्यम् । हर्म्याणि धनिनां गृहाणि, प्रासादाः देवानां राज्ञां च गृहाणि, आरामा उपवनानि, उद्यानानि राजसाधारणवनानि । समाजोत्सवशालिनीं उत्सवसमूहशालिनीमित्यर्थः ॥ २।८६।१९२१ ॥
अपीति । सत्यप्रतिज्ञेन रामेण ॥ २।८६।२२ ॥
परीति । परिदेवयमानस्य राजपुत्रस्य सतः शर्वरी अत्यवर्तत नरन्तरपरिदेवनेन रात्रिर्यातेत्यर्थः ॥ २।८६।२३ ॥
प्रभात इति । प्रभाते सूर्ये विमले सति अस्मिन् भागीरथीतीरे जटाः कारयित्वा स्थितावुभौ सुखं मया सन्तारितौ गङ्गामिति शेषः ॥ २।८६।२४ ॥
जटेति । व्यपेक्षमाणौ निरपेक्षावित्यर्थः ॥ २।८६।२५ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायामयोध्याकाण्डव्याख्यायाम् षडशीतितमः सर्गः ॥ २।८६ ॥