एवमिति । हेत्वर्थसंहितम् उत्पत्तिप्रोजनाभ्यां युक्तम् ॥ २।८५।१ ॥
ऊर्जित इति । यस्त्वं मे मम ईदृशीं सेनाम् एको ह्यर्चितुमिच्छसि, तस्य ते ऊर्जितः कामः कृतः खलु तव श्रद्धया सर्वं कृतमेवेत्यर्थः ॥ २।८५।२,३ ॥
कतरेणेति । कतरेण केन मार्गेण । गहनः अत्यन्तदुष्प्रवेशः ॥ २।८५।४ ॥
तस्येति । गहनगोचरः दुष्प्रवेशप्रदेशसञ्चरणशीलः ॥ २।८५।५ ॥
दाशास्त्विति । अतो गहनविषया न काचिच्छङ्केति भावः ॥ २।८५।६ ॥
कच्चिदिति । रामस्य दुष्टः न व्रजसि कच्चित् रामस्य द्रोहं कर्तुं न व्रजसि कच्चिदित्यर्थः ॥ २।८५।७,८ ॥
माभूदिति । यत् यस्मिन् काले त्वया आशङ्कितं कष्टं रामे द्रोहरूपं जायते स कालो ऽपि माभूत् । कुतः ? राघवः मे ज्येष्ठो भ्राता, अत एव मम पितृसमः अतो मां शङ्कितुं नार्हसीति सम्बन्धः ॥ २।८५।९१५ ॥
रामेति । अनर्हस्य शोकानर्हस्य । धर्मं प्रेक्षत इति धर्मप्रेक्षः तस्य, धर्मदृष्टेरित्यर्थः । तादृशः वाचामगोचरः शोक उपस्थितः प्राप्तः ॥ २।८५।१६ ॥
अन्तरिति । दहनः शोकाग्निः । राघवं भरतं वनदावाघ्निसन्तप्तं पर्यन्तवनदावोष्मणा शुष्कम् । गूढो ऽग्निः कोटरसक्तो ऽग्निः ॥ २।८५।१७ ॥
प्रसृत इति । शोकाग्निसम्भवं स्वेदं प्रसृतः, भरत इति शेषः ॥ २।८५।१८ ॥
ध्याननिर्दरेत्यादिश्लोकद्वयमेकं वाक्यम् । ध्याननिर्दरशैलेन दरो विदारणं तस्मान्निर्गतं निर्दरं शिलानां समूहः शैलः, विदारणरहितस्थूलपाषाण इत्यर्थः । ध्यानमेव निर्दरशैलं यस्मिन् तेन । शोकायासाधिश्रृङ्गिणा शोकश्च आयासश्च आधिश्च ता एव श्रृङ्गाणि यस्मिन् तेन । प्रमोहानन्तसत्त्वेन प्रमोह एवानन्तसत्त्वानि जन्तवो यस्मिन् । सन्तापौषधिवेणुना सन्ताप एवौषधयश्च वेणवो यस्मिन् । मज्जता अवयवेषु प्रविशता दुःखशैलेन दुःखरूपपर्वतेन आक्रान्तः, अभूदिति शेषः । महतेति वा पाठः ॥ २।८५।१९,२० ॥
विनिःश्वसन्निति । यूधहतः हतयूधः । यूथगत इति पाठेयूथान्निर्गत इत्यर्थः ॥ २।८५।२१ ॥
गुहेनेति । समाहितः एकाग्निचित्तः । सजनः सपरिचारः । अग्रजं प्रति समागतो भरतः गुहेन सार्धं सुदुर्मनाः सुदुःखितः, अभूदिति शेषः । तं भरतम् । गुहः पुनः गुहस्तु तदा सामश्वासयदिति सम्बन्धः ॥ २।८५।२२ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायां पञ्चाशीतितमः सर्गः ॥ २।८५ ॥