०८४ गुह-भरतसंवादः

तत इति । गङ्गामन्वाश्रिताम् अत एव निविष्टाम् ॥ २।८४।१,२ ॥

यथेति । भरतः स्वयमागतो यथा तु खलु भरतः स्वयमागतो नूनम् । कुतः ? हि यस्मात् एष तस्य कोविदाध्वजः कोविदारलक्षणो ध्वजो रथे दृश्यते । यद्वा स प्रसिद्धः । इक्ष्वाकुकुलक्रमागतः । यथा येन कारणेन रथेन कोविदारध्वजो दृश्यते ततो दुर्बुद्धिर्भरतः स्वयमागतः खलु, आगत इत्यमन्यतेत्यर्थः ॥ २।८४।३ ॥

बन्धयिष्यतीत्यादिश्लोकद्वयमेकं वाक्यम् । भरतः दाशानस्मान् वधिष्यति । अनु पश्चाद्दाशरथिं हन्तुं समधिगच्छतीति सम्बन्धः ॥ २।८४।४,५ ॥

भर्तेति । तस्यार्थकामाः रामस्य प्रयोजनं काङ्क्षमाणाः ॥ २।८४।६ ॥

तिष्ठन्त्विति । नदीरक्षाः नदीं रक्षन्तीति नदीरक्षाः ॥ २।८४।७ ॥

पञ्चानां शतानां नावां प्रत्येकं कैवर्तानां शतं शतं तिष्ठन्त्वित्यभ्यचोदयदिति सम्बन्धः । पञ्चशतसङ्ख्यासु नौषु प्रत्येकं शतं शतं कैवर्तकास्तिष्ठन्त्वित्यर्थः ॥ २।८४।८ ॥

यदादुष्ट इत्यत्र अदुष्ट इति छेदः ॥ २।८४।९११ ॥

एष इति । दण्डकारण्ये कुशलः तत्र सञ्चारकोविद इत्यर्थः ॥ २।८४।१२१५ ॥

निष्कुटश्चेति । अयं देशो निष्कुटश्चैव गृहाराम एव । वञ्चिताः अत्रागमनानिवेदनेन वञ्चिताः, विपन्नास्सर्वे वयं च त्वदीयाः अतः स्वके स्वकीये दासकुले दासगृहे वस इति निवेदयामः प्रार्थयामः इति सम्बन्धः ॥ २।८४।१६,१७ ॥

स्वाशिता सुष्ठु भोजिता । (वसत्वेनामिति पाठः) वसत्विति आशंसे प्रार्थये अतो अर्चितः श्वो गमिष्यतीति सम्बन्धः ॥ २।८४।१८ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायां चतुरशीतितमस्सर्गः ॥ २।८४ ॥