०८३ शृङ्गिबेरपुरे भरतवासः

तत इति । काल्यं प्रातः काले ॥ २।८३।१,२ ॥

यथाविधिकल्पितानि भरतनियोगमनातिक्रम्य कल्पितानि सन्नद्धानि । नवनागसहस्राणीत्यनेन पुरे विद्यमानगजेषु नवनागसहस्रमात्रं भरतेन सह गतमित्यर्थः ॥ २।८३।३,४ ॥

समारूढानि, सादिभिरिति शेषः ॥ २।८३।५ ॥

यानेनेत्येकवचनं प्रत्येकापेक्षया ॥ २।८३।६ ॥

आर्यसङ्घाताः त्रैवर्णिकसमूहाः ॥ २।८३।७९ ॥

परिष्वजानाः परिष्वजमानाः ॥ २।८३।१० ॥

सम्मताः, रामस्येति शेषः । नैगमाः वणिजः । प्रकृतयः पौरश्रेणयः ॥ २।८३।११ ॥

प्रकृतीन् विभज्य दर्शयति मणिकारा इति । मणिकाराः मुक्तापद्मरागादिमणिसंस्कारकाः । सूत्रकर्मकृतः तन्तुवायादयः । शस्त्रोपजीविनः शस्त्रनिर्माणोपजीविनः । मायूरकाः मयूरपिच्छैश्छत्रव्यजनादिकारिणः । क्राकचिकाः क्रकचैः करपत्रैः चन्दनादिदारुदलनं कृत्वा ये जीवन्ति ते क्राकचिकाः । “क्रकचः करपत्रं स्यात् " इति हलायुधः । रोचकाः दन्तकुड्यवेदिकादिषु कान्त्युत्पादकाः । वेधकाः दारुरत्नादिरन्ध्रकारिणः । दन्तकाराः दन्तैः पुत्रिकापीठशिबिकारिणः । सुधाकाराः प्रासादादिषु सुधालेपनकर्मकाराः । गन्धोपजीविनः चन्दनकस्तूर्यादिगन्धद्रव्योपजीविनः ॥ २।८३।१२,१३ ॥

स्नापकोच्छादकाः स्नापकाः तैलाभ्यङ्गादिस्नानकारिणः । उच्छादकाः उद्वर्त्तनकारिणः । धूपकाः गृहादिषु धूपादिवासकाः । शौण्डिकाः मद्यकाराः । “शुण्डा करिकरे मद्ये” इति वैजयन्ती ॥ २।८३।१४ ॥

ग्रामघोषाः ग्रामस्थजनमेलने कर्तारः ॥ २।८३।१५ ॥

गौरथैः वृषभयुक्तरथैः शकटैरिति यावत् ॥ २।८३।१६,१७ ॥

प्रहृष्टेति । प्रहृष्टमुदिताः प्रहर्षः कायिको रोमाञ्चादिः । प्रमोदो मानसो हर्षः ॥ २।८३।१८ ॥

श्रृङ्गिबेरपुरं प्रति दूरमध्वानं गत्वा गङ्गामासेदुरिति सम्बन्धः ॥ २।८३।१९ ॥

यत्रेति । अप्रमादेन सावधानेन ॥ २।८३।२०२२ ॥

निवेशयतेति । इदानीं मे सैन्यम् अभिप्रायेण तत्तदिच्छया सर्वतो निवेशयत । ततः श्वो नदीं प्रतरिष्याम इति सम्बन्धः ॥ २।८३।२३ ॥

और्ध्वदेहनिमित्तार्थं ऊर्ध्वभवदेहसुखप्रयोजनायेत्यर्थः ॥ २।८३।२४ ॥

छन्देन इच्छया ॥ २।८३।२५ ॥

निवेश्येति । परिवर्हशोभिनीम् । परिबर्हः यात्रोपयुक्तवेश्माद्युपकरणजातम्, विधानैः तत्तज्जातीयव्यवस्थाकल्पनाभिः । गङ्गामनु गङ्गमनुसृत्य निवेश्य गङ्गकूलानुसारेण निवेश्येति यावत् ॥ २।८३।२६ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायाम् अयोध्याकाण्डव्याख्यायां त्र्यशीतितमः सर्गः ॥ २।८३ ॥