तमित्यादि । राज्ञः शिर उद्गृह्य अङ्के कृत्वेत्यर्थः ॥ २।६६।१३ ॥
विहायेति । विपथे दुर्गमार्गे । सार्थहीना सहायभूतपथिकसङ्घरहितेत्यर्थः ॥ २।६६।४ ॥
भर्तारमिति । त्यक्तधर्मणः त्यक्तधर्मायाः ॥ २।६६।५ ॥
कथमेवं साहसं कृतवतीत्याशङ्क्य लुब्धायास्तस्या अकार्यमस्तीति सदृष्टान्तमाहन लुब्ध इति । लुब्धः अर्थलिप्सुः । किम्पाकं विषमिश्रपाकम् । यद्वा किम्पाकं कुत्सितपाकम्, अभक्ष्यमिति यावत् । भक्षयन् जनः दोषान्न जानातीव कुब्जानिमित्तं राघवाणां कुलं कैकेय्या हतमिति सम्बन्धः ॥ २।६६।६ ॥
अनियोगेति । अनियोगे वरदानसमये वरस्य विशेषनिर्देशाभावेपि, विनियुक्तेन इदानीं भरताभिषेकरूपे रामविवासनरूपे च विशेषे कैकेय्या नियुक्तेन । जनकः वैदेहः ॥ २।६६।७ ॥
स मामिति । राघवः रघुवंशजः । इतः जीवन्नेव नाशं गतः अदर्शनं गतः । रामो मां विधवां न जानातीति सम्बन्धः । यद्वा जीवनाशमिति पाठेजीवनाशं, राज्ञ इति शेषः । मां विधवां च रामो न जानातीति सम्बन्धः ॥ २।६६।८ ॥
विदेहेति । पर्युद्विजिष्यति भयं प्राप्स्यति ॥ २।६६।९ ॥
नदतामिति । निशम्य, नादमिति शेषः ॥ २।६६।१० ॥
वृद्ध इति । अल्पपुत्रः कन्यामात्रपुत्रः । सोपि जनकोपि ॥ २।६६।११ ॥
साहमिति । दिष्टान्तं मरणम् ॥ २।६६।१२ ॥
तामिति । व्यावहारिकाः अन्तःपुराध्यक्षस्त्रियः ॥ २।६६।१३ ॥
तैलेति । आदिष्टाः आज्ञप्ताः । वसिष्ठादिभिरिति शेषः । कर्मणि पौरकार्याणि ॥ २।६६।१४ ॥
न त्विति सङ्कलनं दहनादिक्रियाम् ॥ २।६६।१५,१६ ॥
बाहूनिति । नेत्रप्रस्रवणैर्मुखैरुपलक्षिताः ॥ २।६६।१७२२ ॥
ता बाष्पेणेति । राघवस्य दशरथस्य ॥ २।६६।२३,२४ ॥
यथापुरं यथापूर्वम् ॥ २।६६।२५ ॥
गते त्विति । शोकात् निवृत्तचारः निवृत्तकिरणसञ्चारः । गतः अस्तमिति शेषः ॥ २।६६।२६ ॥
ऋते त्विति । तस्मिन् शयने तैलद्रोण्याम् ॥ २।६६।२७,२८ ॥
नराश्चेति । नरदेवसङ्क्षये नगर्यां तदा नरा नार्यश्च सङ्घशः समेत्य भरतस्य मातरं विगर्हमाणा आर्ता बभूवुः । न शर्म लेभिरे चेति सम्बन्धः ॥ २।६६।२९ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामयणतत्त्वदीपिकाख्यायाम् अयोध्याकाण्डव्याख्यायां षट्षष्टितमः सर्गः ॥ २।६६ ॥