०६५ अन्तःपुरशोकः

अथेत्यादिश्लोकद्वयमेकं वाक्यम् । परमसंस्काराः व्याकरणादिशिक्षावन्तः परमालङ्कारा वा । मङ्गलाः मङ्गलपाठकाः ॥ २।६५१।२ ॥

राजानमिति । प्रासादाभोगविस्तीर्णः प्रासादेषु आभोगः परिपूर्णता तया विस्तीर्णः । स्तुतिशब्दो ह्यवर्तत प्रासादेषु सर्वत्र पूर्णतया स्तुतिशब्दो व्याप्त इति भावः ॥ २।६५।३ ॥

तत इति । स्तुवतां स्तुवत्सु सत्सु । पाणिवादकाः तालगत्या विविधं पाणिनैव वादयन्ति ये ते पाणिवादकाः । अपदानानि वृत्ताद्भुतकर्माणि राजभिः कृताद्भुतचरित्राणीत्यर्थः ॥ २।६५।४ ॥

तेनेति । शाखास्था गृहारामवृक्षे शाखासु वर्तमानाः । राजकुलगोचराः राजगृहे दृश्यमानाः ॥ २।६५।५ ॥

व्याहृता इति । पुण्यशब्दाः हरिनारायणादिपुण्यशब्दाः । यद्वा पुण्यश्लोकपुरुषाणां कीर्तनानि । आशीर्गेयम् आशीरूपं गानम् । गाथानां राज्ञां चरित्रप्रतिपादकश्लोका गाथाः तासाम् । पूरयामासेत्येतत् यथायोगं वचनविपरिणामेन योजनीयम् ॥ २।६५।६ ॥

तत इति । पर्युपस्थानकोविदाः कालोचितपरिचर्याविचक्षणाः । स्त्रीवर्षधरभूयिष्ठाः अन्तःपुराध्यक्षस्त्रीभिः वर्षधरैः षण्ढैश्च भूयिष्ठाः समृद्धाः, परिचारिका इति शेषः । यथापुरं यथापूर्वम् ॥ २।६५।७ ॥

हरिचन्दनेति । स्नानशिक्षाज्ञाः स्नानविधिज्ञाः ॥ २।६५।८ ॥

मङ्गलेति । मङ्गलालम्भनीयानि मङ्गलरूपानुलेपनानि तैलोद्वर्तनादीनि प्राशनीयान् दन्तधावनानन्तरं गण्डूषत्वेन प्राशनीयान् सम्पिष्टतिलनालिकेरजीरकादिद्रव्यविशेषान् । उपस्करान् दर्पणवस्त्राभरणानि । कुमारीबहुलाः कुमार्यः बहुला यासु ताः ॥ २।६५।९ ॥

सर्वलक्षणेति । सर्वं विधिवदर्चितं यथायोग्यं बहूकृतं सुगुणलक्ष्मीवत् सुगुणवल्लक्ष्मीवच्च । आभिहारिकम् अभिहारः अभिग्रहणं राजस्वीकारजन इति यावत् ॥ २।६५।१० ॥

तदिति । तत् पूर्वोक्तं परिजनजातम् । अनुपसम्प्राप्तम् अनागतं राजानं प्रति शङ्कितमभूदिति पूर्वेण सम्बन्धः ॥ २।६५।११ ॥

अथेति । याः कौसल्यादिव्यतिरिक्ताः शयनं प्रत्यनन्तराः शयनस्य सन्निकृष्टा इत्यर्थः । प्रत्यबोधयन् राजप्रतिबोधनोचितमृदुविनयवाक्यैः प्राबोधयन्नित्यर्थः ॥ २।६५।१२ ॥

तथापीति । उचितवृत्ताः उचितव्यापाराः । विनयेन प्रश्रयेण । नयेन नीत्या च । किञ्चिदपि स्वापलक्षणम् ॥ २।६५।१३ ॥

ता इति । स्वप्नशीलज्ञाः निद्रास्वभावज्ञाः । ताः पूर्वोक्ताः स्त्रियः । चेष्टासञ्चलनादिषु चलनं सञ्चलनं हृदयनाभ्यादिस्पन्दनम्, आदिशब्देन श्वासादिकं गृह्यते, तेषु किञ्चिन्नोपलेभिरे इत्यनुषङ्गेण सम्बन्ध्यते । ताः तादृश्यः स्त्रियः । प्रतिस्नोतस्तृणाग्राणां स्रोतोभिमुखवर्तमानतृणाग्राणां सदृशं संचकाशिरे चकम्पिर इत्यर्थः ॥ २।६५।१४ ॥

अथेति । यत्पापं मरणरूपं पापमाशाङ्कितं तस्य निश्चयः तदा जज्ञ इति सम्बन्धः ॥ २।६५।१५ ॥

कौसल्येति । कालसमन्विते मृते इव न प्रबुध्येते ॥ २।६५।१६,१७ ॥

मृताद्दशरथात् जीवन्त्योः कौसल्यासुमित्रयोर्विशेषे नास्तीत्याह कौसल्येति । अत्र सुप्तेतिपदमध्याहर्तव्यम् । राज्ञः अनन्तरं समीप इत्यर्थः । सुप्ता कौसल्या न स्म विभ्राजते । तदनन्तरं तस्याः कौसल्यायाः अनन्तरं समीपे सुप्ता देवी सुमित्रापि न स्म विभ्राजत इति सम्बन्धः । अभे अपि मृते इव प्रतिभात इति सम्बन्धः । उभे अपि मृत इव प्रतिभात इति भावः ॥ २।६५।१८ ॥

ते चेति । अन्तःपुरं कर्तृ । सुप्तं नृपं सुप्ते दव्यौ च दृष्ट्वा नृपं तं दशरथमुद्गतप्राणं अदृश्यत । ते देव्यावपि तथा उद्गतप्राणे इत्यर्थः । अदृश्यत अपश्यत् कर्तरि यक् । जज्ञ इत्यर्थः । यद्वा अन्तःपुरस्य कर्तृत्वं कर्मत्वं च । तथाचायमर्थःअन्तःपुरं स्वमात्मानं उद्गतप्राणमदृश्यत । अन्यत्समानम् ॥ २।६५।१९,२० ॥

तासामिति । सहसोद्गतचेतने उत्पन्नप्रबोधे ॥ २।६५।२१२३ ॥

नृप इति । शान्तगुणे गतप्राण इत्यर्थः ॥ २।६५।२४,२५ ॥

ताभिरिति । ताभिः कैकेयीप्रभृतिभिः । पश्चादन्तःपुरं प्रविष्टाभिः प्रथमप्रविष्टानां स्त्रीणां नादः अनुद्रुतः अभिसंवर्द्धितः अभूदित्यर्थः । येन नादेन स्थिरीकृतं मुखरितं तद्गृहं कर्तृ, भूयो ऽत्यर्थं समनादयत् अनददित्यर्थः । यद्वा येन तदेव गृहं स्थिरीकृतं पूर्वं पूरितं क्रोशन्तीभिः पश्चात्प्रविष्टकैकेय्यादिभिः अनुद्रुतः अभिवर्द्धितः स नादस्तद्गृहं भूयो भृशं समनादयदित्यन्वयः ॥ २।६५।२६ ॥

तदिति श्लोकत्रयमेकं वाक्यम् । पर्युत्सुकजनाकुलं पुर्वं पर्युत्सुकजनेनाकुलं निबिडं सद्म नरदेवस्य दिष्टान्तमीयुषः, नरदेवे मरणं प्राप्ते सति संत्रस्तं उद्विग्नं सम्भ्रान्तमनवस्थितमिति एवमादिविशेषणयुक्तं बभूवेति सम्बन्धः ॥ २।६५।२७,२८ ॥

अतीतमिति । अतीतं मृतम् । पत्नयः पत्न्यः । बाहू प्रगृह्य परस्परं बाहू गृहीत्वा ॥ २।६५।२९ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामयणतत्त्वदीपिकाख्यायाम् अयोध्याकाण्डव्याख्यायां पञ्चषष्टितमः सर्गः ॥ २।६५ ॥