०६४ दशरथमृतिः

वधमिति । वधं प्रलपन् कौसल्यामिदमब्रवीदिति सम्बन्धः ॥ २।६४।१ ॥

तदिति । भवेदित्यत्रेतिकरणं द्रष्टव्यम् । अचिन्तयम् अस्य वधज्ञापनाज्ञापनयोः किं शुभोदर्कं भवेदित्यचिन्तयमित्यर्थः ॥ २।६४।२ ॥

ततस्तमिति । ततः मुनिकुमारोक्तज्ञापनमेव श्रेयस्करमिति निश्चयानन्तरम् । यथाख्यातपथं मुनिकुमारोपदिष्टमार्गं प्राप्य आश्रमं गत इत्यन्वयः, उत्तरश्लोकेनैकवाक्यं वा । यथाख्यातपथं गतः सन् आश्रमं प्राप्य तत्र वृद्धावपश्यमिति सम्बन्धः । परितो नयतीति परिणायकः तद्रहितौ, तन्निमित्ताभिः पुत्रविषयाभिः कथाभिरुपलक्षितौ अपरिक्रमौ सञ्चाराक्षमौ । मत्कृते मन्निमित्तम् । तामाशाम् । हीनौ पुत्रविषयाशारहितौ । उदासीनौ प्रयत्नशून्यौ तस्य पितरावपश्यमिति सम्बन्धः ॥ २।६४।३६ ॥

पदशब्दमिति । किं चिरायसि विलम्बसे ॥ २।६४।७ ॥

इदं पानीयं यद्यस्मान्न दत्तं तस्मात्त्वया सलिले क्रीडितमिति । यन्निमित्तमिति पाठे यन्निमित्तं त्वया सलिले क्रीडितमिदं ब्रूहीति शेषः ॥ २।६४।८ ॥

यदिति । व्यलीकमप्रियम् । अलीकमिति पाठेअपराधः ॥ २।६४।९,१० ॥

मुनिमिति । सज्जमानया स्खलन्त्या । हीनव्यञ्जनया अस्पष्टाक्षरया अतएवाव्यक्तया वाचाब्रवमिति सम्बन्धः ॥ २।६४।११ ॥

मनस इति । मनसः कर्म इतस्ततः परिधावनम् । वाग्बलम् उच्चारणशक्तिः तदुभयं चेष्टाभिः शरीरव्यापारैः सह । संस्तभ्य संनियभ्य । मनोवाक्कायान् स्थिरीकृत्येति यावत् । तस्मै भयमाचचक्ष इति सम्बन्धः ॥ २।६४।१२ ॥

क्षत्रिय इति । सज्जनावमतं सज्जनावमतिविषयम्, सज्जनगर्हितमित्यर्थः ॥ २।६४।१३ ॥

भगवन्निति । श्वापदम् उग्रसत्त्वम् । निपाने जलपानस्थाने ॥ २।६४।१४ ॥

तत्रेति । पूर्यतः पूर्यमाणस्य । द्विपो ऽयमिति मत्त्वा अयं शब्दाश्रयो द्विप इति मत्वा । अयं तव सुतः

बाणेनाभिहत इत्यन्वयः ॥ २।६४।१५१८ ॥

उद्धृतेन बाणेन हेतुना । अन्धौ मातापितरौ इति भवन्तावेव शोचन् विलप्य स्वर्गमास्थित इति सम्बन्धः ॥ २।६४।१९ ॥

अज्ञानादिति । मे एवं गते प्रमादादेवं प्राप्ते सति । शेषमनन्तरकर्तव्यं यत्स्यात् तत्प्रसीदतु तदुद्दिश्याज्ञापयत्वित्यर्थः ॥ २।६४।२०२४ ॥

सप्तधेति । ब्रह्मवादिनि ब्रह्म वक्तुं शीलमस्यास्तीति तथा तस्मिन् ॥ २।६४।२५ ॥

अपि ह्यद्येति । राघवाणां कुलमपि न स्यात्, ज्ञानपूर्वकं चेदिति शेषः । कुतो भवान् किं पुनर्भवानित्यर्थः ॥ २।६४।२६ ॥

नयेत्यादिश्लोकद्वयमेकं वाक्यम् । धर्मराजवशंगतम् अतएव पश्चिमदर्शनम् अन्त्यदर्शनं पुत्रं द्रष्टुमिच्छावः, नौ तं देशं नयेति मामभ्यभाषतेति सम्बन्धः ॥ २।६४।२७,२८ ॥

अथाहमिति । अहं तौ नीत्वा अहं तमस्पर्शयमिति सम्बन्धः ॥ २।६४।२९३१ ॥

न त्विति । अहं ते प्रियो न चेत् मातरं पश्येति सम्बन्धः ॥ २।६४।३२ ॥

कस्येति । हृदयङ्गमं मनोहरस्वरम् । अधीयानस्य पठतः । अन्यद्वा इतिहासपुराणादिकम् ॥ २।६४।३३ ॥

को मामिति । सन्ध्यामुपास्य नमस्कारपूर्वकं तान्त्रिकसन्ध्यावन्दनं कृत्वेत्यर्थः । हुतहुताशनः हुतहोमः “नमस्कारेण मन्त्रेण पञ्चयज्ञान् समापयेत् " इत्युक्तेः । चतुर्थवर्णादधिकस्य करणस्य होमाधिकारो ऽस्तीत्यवगम्यते । श्लाघयिष्यति उपचरिष्यति । उपासीनः उप समीपे आसीनः ॥ २।६४।३४ ॥

कन्देति । कन्दं जलोद्भवानां पद्मादीनां, मूलं स्थलोद्भवानाम् । अकर्मण्यं कर्मानुष्ठानाक्षमम् । अप्रग्रहं नीवारादिसङ्ग्रहरहितम् ॥ २।६४।३५,३६ ॥

तिष्ठेति । मामुद्दिश्य तिष्ठ । मागमः मा गच्छ । समेधितः सहित इत्यर्थः ॥ २।६४।३७,३८ ॥

तत इति । मे अयं मत्सम्बन्ध्ययम् पुत्रः पितरौ बिभृयादिति तं वैवस्वतं दृष्ट्वा भारतीं वाचं प्रवक्ष्यामि । धर्मराजः क्षम्यतामिति सम्बन्धः ॥ २।६४।३९ ॥

दातुमिति । लोकपालो यमः । ईदृशस्यानाथस्येत्यर्थः ॥ २।६४।४० ॥

राज्ञा स्वहस्तकृतं हननं स्वपुत्रेण पूर्वकृतपापस्य प्रायश्चित्तत्वेन प्राप्तमिति मत्वा वदतिअपापो ऽसीति । पापकर्मणा राज्ञा यदा निहतः, तदैव अपापो ऽसि । तेन अपापत्वहेतुना । सत्येन मम सत्येन च, शस्त्रयोधिनां ये लोकाः ताननुगच्छेति योजना ॥ २।६४।४१४४ ॥

गोसहस्रेति । देहन्यासकृतां परलोकप्राप्तसाधनत्वेन गङ्गायमुनासङ्गमादौ जले वाग्नौ वा तनुं त्यजताम् ॥ २।६४।४५ ॥

नहीति । अस्मिन् कुले तपोनिष्ठानामस्माकं कुले मम बान्धवः पुत्रो येन राज्ञा त्वं हतः स एव यास्यति ॥ २।६४।४६ ॥

एवमिति । उदकं संस्कारपूर्वकोदकक्रियम् ॥ २।६४।४७ ॥

स त्विति । शक्रेण सह स्वर्गमध्यारुहदित्यनेन मुनिपुत्रं स्वर्गं नेतुं शक्रः समागत इत्यवगम्यते ॥ २।६४।४८ ॥

सङ्ग्रहेणोक्तं स्वर्गारोहणं विवृणोतिआबभाष इत्यादिना । आबभाष इत्यस्य प्रपञ्चार्थः आश्वास्येत्यादि । यद्वा तापसः तौ वृद्धौ आश्वास्य आबभाषे, पितरौ वाक्यमब्रवीदित्येतत् भवन्तावपि मम मूलमुपैष्यत इत्यनेनोत्तरेण सम्बध्यते ॥ २।६४।४९ ॥

स्थानमिति । मूलं समीपम् ॥ २।६४।५० ॥

एवमिति । वपुष्मता प्रशस्ताकारेण ॥ २।६४।५१,५२ ॥

अद्यैवेति । जहि प्राणान्मोचय ॥ २।६४।५३ ॥

त्वयेति । सुदुःखमतिदारुणमिति च क्रियाविशेषणम् ॥ २।६४।५४ ॥

पुत्रेति । यत् यस्मान्मम एतत् मरणपर्यवसायि पुत्रव्यसनं दुःखमभृदिति शेषः । एवं पुत्रशोकेन कालं करिष्यति मृत्युं प्राप्स्यसीत्यर्थः ॥ २।६४।५५ ॥

अज्ञानादिति । त्वां ब्रह्महत्या नाविशति हननस्याज्ञानमूलत्वात्तस्य करणत्वाच्चेति भावः ॥ २।६४।५६ ॥

त्वामिति । एतादृशः पुत्रशोकरूपः । पुत्रशोकातिशयेन इहैव कर्मफलमनुभविष्यमीति धिया क्षिप्रमित्युक्तवान् । दक्षिणाशब्देन दक्षिणाहेतुकं सुकृतं लक्ष्यते ॥ २।६४।५७,५८ ॥

तदिति । एतच्चिन्तयानेन मरणपर्यवसायिपुत्रशोकः प्राप्तः, अस्य कारणं किमिति चिन्तयानेनेत्यर्थः । तदा बाल्यात् शब्दवेद्यानुशिक्षिणा शब्देन वेद्धुं योग्यं शब्दवेध्यं वेध्यमनुशिक्षितुं शीलमस्यास्तीति शब्दवेध्यानुशिक्षितेन मया कृतं तत्पापं मुनिकुमारवधरूपं स्मृतं स्मृतिविषयमभूदित्यर्थः (शब्दवेध्यानुशिक्षिणा इति पाठः ) ॥ २।६४।५९ ॥

तस्येति । विपाकः फलम् । अपथ्यैः व्याधिवर्धकव्यञ्जनैस्सह अन्नरसे सम्भुक्ते व्याधिर्यथा ॥ २।६४।६० ॥

तस्मादिति । उदारस्य महतः वचः, ममागतं शापरुपवचनार्थो मां प्राप्त इत्यर्थः ॥ २।६४।६१,६२ ॥

एतन्म इति । मया राघवे विवासनरूपं कर्म कृतम् एतन्मे सदृशम् । अनेन रामेण यत्कृतं कैकेयीबोधितमद्वाक्यात्प्रव्राजनं तत् तस्यैव सदृशम् । यद्वा तत्तु पुत्रशोकेन जीवितस्य त्यजनं तस्यैव शापकर्मण एव सदृशम्, यदनेन मुनिना मयि कृतं तस्य शापस्यानुरूपमेव तदिदं मरणमित्यर्थः ॥ २।६४।६३ ॥

तदेव समर्थयतिदुर्वृत्तमिति । यद्वा एतन्मे सदृशमित्यादिसार्धश्लोकमेकं वाक्यम् । अनेन मुनिना मयि यत्कृतं तस्य शापस्य एतत्पुत्रविवासनरूपं कर्म सदृशम् अन्यथा विचक्षणः को वा दुर्वत्तमपि पुत्रं त्यजेत्, प्रव्राज्यमानः को वा पुत्रः पितरं नासूयेत् तस्मात्पुत्रप्रव्राजनं प्रव्राज्यमानपुत्रस्यानसूयाकरणं च शापेन विना कथं घटत इत्यर्थः ॥ २।६४।६४७१ ॥

निवृत्तेति । मार्गगतं शुक्रं यथा मौढ्यं विहाय स्वोच्चामार्गगतं शुक्रमिव ॥ २।६४।७२ ॥

कौसल्य इति । चित्तमोहेन चित्तमोहः दुःखातिशयप्राप्ता मूर्च्छा । हृदयं मनोधिष्ठानम् । सीदतीव विशीर्यतीव ॥ २।६४।७३७५ ॥

७६७९ ॥

इति श्रीमहेश्वरतीर्थवरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायां चतुःषष्टितमः सर्गः ॥ २।६४ ॥