०६३ दशरथेन पूर्वकृतबालवधकथनम्

रामेति । रामलक्ष्मणयोर्विवासादुपसर्गः तं विवेश, पुत्रशोकरूपमहोपद्रवः दशरथं विवेशेत्यर्थः । आसुरं तमः राहुः ॥ २।६३।२ ॥

सभार्य इति । विवक्षुः अभूदिति शेषः ॥ २।६३।३ ॥

स इति । षष्ठीं षष्ठ्यामित्यर्थः । संस्मरन् स्थित इति शेषः ॥ २।६३।४,५ ॥

यदिति । तदेव कर्मजं दोषकर्मोत्पन्नं फलम् ॥ २।६३।६ ॥

गुर्विति । कर्मणामारम्भे समारम्भसमये । अर्थानां फलानां गुरुलाघवं गुरुत्वं लघुत्वं च, तेषामेवार्थानां फलं सुखरूपत्वम् । दोषं वा दुःखत्वं च यो न विजानाति स बाल इत्युच्यते ॥ २।६३।७ ॥

बालिशत्वमेव दृष्टन्तमुखेनाहकश्चिदित्यादिना । आम्रवर्णं चूतवनं छित्त्वा सूक्ष्मतरपुष्पं चूतवनविसूक्ष्मतरफलमेव जनयेदिति भ्रान्त्या छित्त्वेत्यर्थः । पुष्पं दृष्ट्वा वर्णेन आपातरमणीयं पृथुतरं पुष्पं दृष्ट्वा । फलेगृध्नुः एतदनुरूपं महत्फलं भविष्यतीति फललिप्सुस्सन् । पलाशान्निषिञ्चति पलाशतरुरोपणं कृत्वा तेषां जलं निषिञ्चतीत्यर्थः । स फलागमे अनुभोगप्राप्तिसमये अनुशोचिति पश्चात्तप्यति स्वोत्प्रेक्षितफलाभावादिति भावः ॥ २।६३।८ ॥

अविज्ञायेति । यः फलं भाविफलम् अविज्ञाय अविचार्य, कर्मत्वेव कर्मैव तु अनुधावति अनुतिष्ठति । यः फलवेलायां फलानुभवकाले शोचेत् तप्येदित्यर्थः ॥ २।६३।९ ॥

सामान्ये नोक्तमर्थं स्वात्मन्यविचार्यकारिणि विशेषेण योजयतिसो ऽहमिति । आम्रवणशब्देन शुभकर्मोपलक्ष्यते, पलाशशब्देनाशुभकर्म, आम्रवणं छित्त्वा रामाभिषेकरूपं शुभकर्म त्यक्त्वेत्यर्थः । पलाशांश्च न्यषेचयम् दुःखरूपमागामिफलमनपेक्ष्य कैकेयीप्रियकरणरूपमशुभं कर्माचरम्, तस्याशुभकर्मणः फलागमे फलानुभवकाले रामं त्यक्त्वा अशुमकर्मफलत्वेन रामवियोगं प्राप्य पश्चाच्छोचामि, रामत्यागरूपफलमनुभूय शोचामीत्यर्थः ॥ २।६३।१० ॥

एतद्दुःखानुभवस्य निदानं वक्तुमुपक्रमते लब्धशब्देनेत्यादिना । कुमारः शब्दवेधीति लब्धशब्देन प्राप्तख्यातिना मया इदं वक्ष्यमाणं पापं मुनिकुमारवधरूपं कर्म कृतमिति सम्बन्धः ॥ २।६३।११,१२ ॥

यथेति । पलाशैः पलाशपुष्पैः । यथान्यः कश्चित् मोहितो भवेत् यादृशं पुष्पं तादृशं फलं भविष्यतीति मोहं प्राप्तो भवेत् एवं मयापि शब्दवेध्यमयं शब्दो वेध्यं लक्ष्यं शब्दवेध्यं तन्मयं शब्दवेध्यविकारं

शब्दलक्ष्यहेतुकमित्यर्थः । शब्दवेद्यमयमिति पाठे शब्दस्य वेद्यं वेदनं तद्धेतुकं शब्दवेद्यमयं फलमविज्ञातम् । एतदुक्तं भवतियथा कश्चित्पुरुषः किंशुकस्य शोभनानि पुष्पाणि दृष्ट्वा मोहितः फलान्यप्येवमेव शोभनानि भवेयुरिति बुद्वा फललोभेन तं वर्द्धयन् तस्य निरुपयोगं फलं न विज्ञातवान् एवमहं च शब्दवेध्यस्य लोकविख्यातिकरं यशोतिशयं दृष्ट्वा अस्य फलमप्येवमेव लोकपूज्यतममिति मत्वा तच्छब्दवेधनं मुहुरभ्यस्यम् तस्याशुभं फलं न विचारितवानिति ॥ २।६३।१३ ॥

एतादृशशब्दवेधनं कदा प्राप्तमित्याकाङ्क्षायामाहदेवीति । अनूढा अप्रौढेत्यर्थः ॥ २।६३।१४ ॥

उपास्य सेवित्वा । रसान् जलानि । परेताचरितां दिशं दक्षिणां दिशम्, दक्षिणायनमित्यर्थः ॥ २।६३।१५ ॥

उष्णमिति । भेका मण्डूकाः । सारङ्गाः हरिणाः चातका वा ॥ २।६३।१६ ॥

क्लिन्नपक्षेति । क्लिन्नपक्षोत्तराः सिक्तपक्षोपरिभागाः, अत एव स्नाता इव कृच्छ्रात् यत्नात् ॥ २।६३।१७ ॥

पतितेनेति । मत्तसारङ्गः मत्तगजः ॥ २।६३।१८ ॥

पाण्डुरेति । पाण्डुरधातुसंयोगात् पाण्डुरवर्णानि, अरुणधातुसंयोगादरुणवर्णानि । सभस्मानि दवानलकृतभस्मसहितानि । भुजङ्गवत् नानावर्णयुक्तसर्पा इव । गिरिधातुभ्य इति हेतौ पञ्चमी ॥ २।६३।१९ ॥

तस्मिन्नित्यादिश्लोकद्वयमेकं वाक्यम् । व्यायामकृतसङ्कल्पः मृगयाविहारकृतसङ्कल्प इत्यर्थः ॥ २।६३।२० ॥

निपाने निरीयते ऽस्मिन्निति निपानं तस्मिन् । अवतीर्य जलपानयोग्यप्रदेश इति यावत् । श्वापदं व्याघ्रादिकम् ॥ २।६३।२१ ॥

अथेति । पूर्यतः शत्रन्तत्वमार्षम् ॥ २।६३।२२ ॥

तत इति । गजप्रेप्सुः गजं प्राप्तुमिच्छुः हननेच्छुरित्यर्थः । शब्दं प्रति शब्दं लक्ष्यम् कृत्वा अभिलक्ष्य, लक्ष्यं गजमभिमुखीभूय शरमपातयमिति सम्बन्धः ॥ २।६३।२३ ॥

अमुञ्चमिति । यत्र बाणममुञ्चं तत्र वनौकसस्तपस्विनः । व्यक्ता वाक् प्रादुरासीदिति सम्बन्धः ॥ २।६३।२४ ॥

कथमिति । अस्माद्विधे अजातशत्रौ ॥ २।६३।२५ ॥

प्रविविक्तां निर्जनाम् । अपररात्रौ उदकमाह रतीत्युदाहारः ॥ २।६३।२६ ॥

न्यस्तण्डस्य त्यक्तपरपीडस्य ॥ २।६३।२७,२८ ॥

एवमिति । गुरुतल्पगं गुरुदारगम् ॥ २।६३। २९३१ ॥

वृद्धाविति । हत इत्येतत् मातापितरावित्यत्र वचनविपरिणामेन योजनीयम् । सर्वे निहता इत्युक्तिः मातृपितृजीवनहेतुभूतस्य स्वस्य वधात् ॥ २।६३।३२,३३ ॥

तस्येति । करुणं श्रुत्वा करुणजनकं वचः श्रुत्वेत्यर्थः ॥ २।६३।३४,३५ ॥

अवकीर्णेति । प्रविद्धकलशोदकं पर्यस्तकलशोदकम् ॥ २।६३।३६३९ ॥

ताविति । आशाकृतां जलमानेष्यतीत्याशासहितां तृष्णां पिपासाम् ॥ २।४०।४१ ॥

जानन्निति । अपरिक्रमः सञ्चाराक्षमः ॥ २।६३।४२ ॥

पितुरिति । वनं वह्निरिति वैषम्यदृष्टान्तः ॥ २।६३।४३ ॥

इयमिति । एकपदी सरणिः ॥ २।६३।४४ ॥

विशल्यमिति । सोत्सेधम् उन्नतसहितं मृदु तीरं रुणद्धि पीडयति ॥ २।६३।४५४७ ॥

ताम्यमान इति । ताम्यमानः ग्लानिं प्राप्यमानः परमार्तवत् परमार्तियुक्तः ॥ २।६३।४८ ॥

संस्तभ्येति । धैर्येण शोकं संस्तभ्य स्थिरचित्तो भवामि, मम चित्तमोहो नास्तीत्यर्थः । अतः ब्रह्महत्याकृतं ब्रह्महत्यया प्राप्तं पापम् ॥ २।६३।४९ ॥

न द्विजातिरिति । शूद्रायां वैश्येन जातः करणः । “शुद्राविशोस्तु करणः” इत्यमरः ॥ २।६३।५० ॥

इतीवेत्यादिसार्धश्लोकमेकं वाक्यम् । आनम्यमानस्य व्यथया सङ्कुचिताङ्गस्येत्यर्थः । उद्धरम् अडभाव आर्षः ॥ २।६३।५१,५२ ॥

जलार्द्रगात्रमित्ययं श्लोकः प्रथमदृष्टावस्थानुवादकमिति मन्तव्यम् ॥ २।६३।५३ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामयणतत्त्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायां त्रिषष्टितमः सर्गः ॥ २।६३ ॥