एवमिति । चिन्तयामास अनया कथितं सर्वं सत्यमेव । अन्यैरकृतपूर्वम् अकृत्यं मया कृतमिति हृदि विचारयामासेत्यर्थः ॥ २।६२।१,२ ॥
स इति । पुनश्चिन्तामुपागमत् “अत्युत्कटैः पुण्यपापैरिहैव फलमश्नुते " इति न्यायेन प्रियपुत्रविश्लेषजं महद्दुःखमनुभवामि, एतद्धेतुभूतं किं कर्म कृतमिति पुनश्चिन्तामापेत्यर्थः ॥ २।६२।३ ॥
तस्येति । प्रत्यभात् प्रतीतमभूत् । दुष्कृतं कर्म मुनिकुमारवधरूपं कर्म । शब्दवेधिना शब्देन लक्ष्येण वेद्धुं शीलमस्यास्तीति शब्दवेधी तेन ॥ २।६२।४ ॥
अमना इति । अमनाः क्षुभितान्तःकरणः । तेन मुनिकुमारवधरूपेण शोकेन ॥ २।६२।५,६ ॥
प्रसादय इति । परेष्वपि प्रतिकूलेष्वपि ॥ २।६२।७,८ ॥
सा त्वमिति । दृष्टलोकपरावरा दृष्टौ लोके जने परावरौ उत्कर्षापकार्षौ यया सा ॥ २।६२।९ ॥
तदिति । प्रणालीजलनिर्गममार्गः । नवोदकम् ॥ २।६२।१० ॥
सेति । राज्ञः अञ्जलिं पद्ममिव मूर्ध्नि बद्धा पाणिभ्यां गृहीत्वा, मूर्ध्निबद्धेत्यर्थः ॥ २।६२।११ ॥
प्रसीदेति । भूमौ निपतितास्मि प्रणतास्मि । यतः ते याचिता त्वया याचितास्मि, अतो ऽहं न क्षन्तव्येति योजना ॥ २।६२।१२ ॥
कुत एवमत आहनैषेति । उभयोर्लोकयोर्मध्ये । श्लाघनीयेन पत्या या संप्रसाद्यते प्रार्थ्यते नैषा स्त्री
भवतीति योजना ॥ २।६२।१३ ॥
जानामीति । मया यत्किमपि भाषितं तत्क्षन्तव्यमिति शेषः ॥ २।६२।१४,१५ ॥
शक्य इति । आपतितः हठात्प्राप्तः ॥ २।६२।१६ ॥
वनवासायेति । पञ्चरात्रो ऽद्य गण्यतेपञ्चरात्रः पञ्च रात्रयो गण्यन्ते, प्रथमा रात्रिस्तमसातीरे, द्वितीया गुहपुरे, तृतीया गङ्गादाक्षिणकूलस्थवनस्पतिमूले, चतुर्थी प्रयागे, पञ्चमी यमुनावने, षष्ठी चित्रकूटे । षष्ठ्यामेव चायोध्यां सुमन्त्रः प्राप्तः, पूर्वमेवं पञ्च रात्रयो गण्यन्ते ॥ २।६२।१७,१८ ॥
एवमिति । कथयन्त्यां सत्यामित्यर्थः । शुभं वचः अतिदुःखितायामपि पत्यनुनयपरत्वाद्वचसः शुभत्वम् ॥ २।६२।१९,२० ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायां द्विषष्टितमः सर्गः ॥ २।६२ ॥