०६१ कौसल्याकृतदशरथनिन्दा

वनमिति । स्वार्ता सुतरामार्ता ॥ २।६१।१ ॥

यद्यपीति । राघवो दशरथः । सानुक्रोशः सदयः । वदान्यः बहुप्रदः । प्रियवादी चेति ते महद्यशः त्रिषु लोकेषु प्रथितं प्रसिद्धं यद्यपि तथापि ततोप्यतिशयितापयशस्करं कृत्यं कृतमिति वाक्यशेषः । इत्यब्रवीदिति पूर्वेण सम्बन्धः ॥ २।६१।२,३ ॥

सेति । तरुणी अतिक्रान्तकौमारावस्था । श्यामा यौवनमध्यस्था, एतत्पदद्वयोपादानेन किञ्चिन्न्यूनयौवनमध्यं प्राप्तेत्यवगम्यते ॥ २।६१।४ ॥

भुक्त्वेति । सूपदंशान्वितं शोभनव्यञ्जनसमेतम् । नैवारं नीवारसम्बन्धिनम् ॥ २।६१।५७ ॥

मद्मवर्णं पझदलवर्णम् । पद्मनिश्वासं पद्मगन्धिनिश्वासम् ॥ २।६१।८,९ ॥

यत्त्वयेति । मम बान्धवाः रामादयः । व्यपोह्य राज्याद्भ्रंशयित्वा अनादृत्य वा त्वया निरस्ताः वने परिधावन्तीति यत् तदकरुणं कर्म शोचनीयं कर्मेत्यर्थः । करुणाराहित्येन त्वया कृतमिति भावः ॥ २।६१।१० ॥

भरतः राज्यं कोशं च जह्यादिति नोपलक्ष्यत इति सम्बन्धः ॥ २।६१।११ ॥

भरतो राज्यं जह्याच्चेदपि रामस्तु न प्रतिगृह्णीयादिति सदृष्टान्तमाहभोजयन्तीत्यादिश्लोकत्रयेण । केचित् श्राद्धकर्तारो ब्राह्मणाः । द्विजर्षभान् द्विजश्रेष्ठान् निमन्त्र्य, तान् त्यक्त्वा अनिमन्त्रितान् स्वान् बान्धवानेव पूर्वं भोजयन्ति, ततः कृतकार्याः श्राद्धकर्तारः तान् निमिन्त्रितान् द्विजर्षभान् पश्चाद्भोक्तुं समीक्षन्ते भोजयितुं विचारयन्ति किल, ये निमन्त्रिताः सुरोपमाः गुणवन्तः विद्वांसः द्विजातयः ते तत्र श्राद्धे सुधामपि सुधासदृशमपि पश्चादनिमन्त्रितबन्धुभोजनान्तरं, नाभिमन्यन्ते भोक्तुं नेच्छन्ति । ब्राह्मणेषु बान्धवब्राह्मणेषु तृप्तेष्वपि प्राज्ञा निमन्त्रिता द्विजर्षभाः वृषभाः स्वश्रृङ्गच्छेदमिव पश्ताद्भोक्तुमभ्युपेतुं च । नालं न समर्थाः । अनिमन्त्रितबन्धुभोजनानन्तरं निमंत्रिता द्विजर्षभाः भोजनं न करिष्यन्तीति भावः । स्वधामपीति पाठेस्वधां श्राद्धम् ॥ २।६१।१२१४ ॥

एवमिति । एवं पूर्वोक्तद्विजर्षभवत् । किमर्थं नावमंस्यते, सर्वात्मना तिरस्करिष्यत्येवेत्यर्थः ॥ २।६१।१५ ॥

नेति । परेण वृकादिना, आशितं भक्षितशेषत्वेन स्थापितं परलीढं परेण आस्वादितम्, परभुक्तमिति यावत् ॥ २।६१।१६ ॥

हविरिति । हविः चरुप्रमुखम् । खादिरा इत्येतत् पालाशादीनामप्युपलक्षणम् । यातयामानि परिभुक्तानि, यागे विनियुक्तानीति यावत् । “जीर्णं च परिभुक्तं च यातयाममिदं द्वयम्” इत्यमरः । अध्वरे यागान्तरे । पुनर्न कुर्वन्ति न विनियुञ्जते ॥ २।६१।१७ ॥

तथेति । आत्तम् उपभुक्तपूर्वम् । हृतसारां गृहीतसाराम् । अभिमन्तुम् अभिलषितुम् ॥ २।६१।१८ ॥

नैवमिति । वालधेः पुच्छस्य । अभिमर्शनम् अवमत्यस्पर्शनम् ॥ २।६१।१९ ॥

नैतस्येति । सहिताः सङ्घीभूय वर्तमानाः, लोकाः चतुर्दशभुवनस्थसुरासुरादयः । भयं न कुर्युः भयं कर्तुं न शक्नुयुः । तर्ह्येतादृशो रामः किमर्थमाक्रम्य राज्यं न स्वीकृतवानित्याशङ्क्य परिहरतिअधर्मं त्विति । अधर्मम् अधर्ममार्गस्थम् लोकं धर्मेण योजयेत्, धर्मप्रवर्तको रामः राज्यापहरणरूपमधर्मं कथं कुर्यादिति भावः ॥ २।६१।२० ॥

रामे अशक्तिशङ्का न कार्येत्याहनन्वित्यादि श्लोकद्वयेन । युगान्तः युगान्तकालाग्निरिव । भूतानि पञ्चमहाभूतानि । सागरानपि निर्दहेत् ॥ २।६१।२१ ॥

स इति । जलजेन मत्स्येन ॥ २।६१।२२ ॥

द्विजातीति । धर्मनिरते पुत्रे त्वया विवासिते सति शास्त्रदृष्टः द्विजातिचरितः सनातनो धर्मः ते तव यदि स्यात् तद्विवासनयुक्तः सो ऽपि धर्मो न दृश्यत इति भावः । यद्वा नकारो ऽत्राध्याहर्तव्यः । तेधर्मनिरत इत्यत्र अधर्मनिरत इति छेदः । शास्त्रदृष्टो द्विजातिचरितो राजर्षिभिराचरितस्सनातनो धर्मस्ते पुत्रे यदि न स्यात् तर्ह्यधर्मनिरते तस्मिन् त्वया विवासिते तद्युक्तं भवेत् न चैवमिति भावः ॥ २।६१।२३,२४ ॥

तत्रेति । तत्र गतित्वे परिगणितेषु त्वं मे नास्ति ॥ २।६१।२५,२६ ॥

इमामिति । स्वदुष्कृतम् अस्मरत् एतादृशदुःखस्य निदानभूतं किं दुष्कृतं पुर्वं कृतमिति सस्मारेत्यर्थः ॥ २।६१।२७ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायां एकषष्टितमः सर्गः ॥ २।६१ ॥