०६० सुमन्त्रकृतकौसल्यासान्त्वनम्

तत इति । भूतोपसृष्टेव भूताविष्टेव । गतसत्वेव गतासुरिव धरण्यां स्थितेति शेषः ॥ २।६०।१३ ॥

बाष्पेति । वाचा उपलक्षिताम् । सः सूतः ॥ २।६०।४,५ ॥

लक्ष्मण इति । परलोकमाराधयति परलोकं साधयति ॥ २।६०।६ ॥

विजन इति । अभीतेति पदच्छेदः । विस्रम्भं प्रणयम् ॥ २।६०।७९ ॥

बालेति । अबालचन्द्रनिभाननेति पदच्छेदः । बालेव रामे रमते ॥ २।६०१० ॥

तद्गतमिति । यतस्तस्या हृदयं तद्गतं रामगतम् तस्मात्कारणात् यथारामयुक्तं वनमप्ययोध्या तथा रामहीनाप्ययोध्या वनं भवेत् ॥ २।६०।११ ॥

परिपृच्छतीति । उद्यानमिव वनमाश्रिता वैदेही ग्रामादीनि दृष्ट्वा रामं वा लक्ष्मणं वा परिपृच्छति पृष्ट्वा जानातीति सम्बन्धः ॥ २।६०।१२,१३ ॥

इदमेवेति । अस्याः सीतायाः सम्बन्धि, इदमेव प्रस्तुतवृत्तान्तजातमेव स्मरामि । कैकेयीसंश्रितं कैकेयीमुद्दिश्य प्रवृत्तं सहसा जल्पितं हठात्सीतयोक्तं वाक्यमिदानीं मा मां न प्रतिभातीति सूतः प्रमादात्पर्युपस्थितं तद्वाक्यं ध्वंसयित्वा देव्याः कौसल्यायाः ह्लादनं ह्लादकरम् वचनमब्रवीदिति योजना ॥ २।६०।१४१६ ॥

वदान्यायाः वल्गुवाचः “वदान्यो वल्गुवागपि” इत्यमरः । न विकम्पते म्लानतां न यातीत्यर्थः ॥ २।६०।१७,१८ ॥

नूपुरेति । नूपुरोद्धुष्टहेला हेला विलासः खेलं कान्तम् । तद्रागात् गमनाभिनिवेशात् । गमानाभिनिवेशस्य विरोधीनि भूषणान्यधारयन्त्यपि भूषणसमृद्धविलासेव खेलं गच्छतीत्यर्थः । यद्वा इदानीमपि गमनवेलायामपि तद्रागाद्भूषणविषयस्नेहात् व्यस्तभूषणा चरणाद्यवयवेष्वर्पितभूषणा वैदेही नूपुरोद्धुष्टखेलेव नूपुरादिशिञ्जितविलासयुक्तैव । इव एवार्थे । खेलं कान्तं यथा तथा गच्छतीत्यर्थः । अनेन सीतायाः सदा साभरणत्वमुक्तम् । ऽमन्ये साभरणा सुप्ताऽ इति भरतवचनात् ॥ २।६०।१९,२० ॥

नेति । ते रामादयः । आत्मानो वयम् । इदं चरितं पितृवचनपरिपालनरूपम् ॥ २।६०।२१ ॥

विधूयेति । महर्षियाते महर्षिभिर्याते प्राप्ते ॥ २।६०।२२,२३ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामयणतत्त्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायां षष्टितमः सर्गः ॥ २।६० ॥