०५९ दशरथविलापः

मम त्वश्वा इति । मम मया नियमिते मार्गे अश्वा न प्रावर्तन्त न न्यवर्तन्त । अयं भावः शतधृतिभवशतमखमुखविबुधदुर्लभा श्रीरामसेवा अस्माभिर्भाग्यवशाल्लब्धा, सा निर्दयेन दैवेन विघटिता इतःपरं किं करिष्यामः ? अस्माकं व्यर्थं जीवनं किमर्थमित्यन्तदुःखेनाश्रु विमुञ्चन्तः । मयि अतिकठिनहृदये प्रतिनिवृत्तेप्यश्वा न न्यवर्तन्त । तथापि मया कथञ्चिन्निवर्तिता इति ॥ २।५९।१ ॥

उभाभ्यामिति । तद्दुःखं तादृशं दुःखम् ॥ २।५९।२ ॥

गुहेनेति । पुनःशब्दापयेत् आह्वापयेदिति शङ्कया गुहेन सार्धं बहून् दिवसान् स्थितो ऽस्मीतिसम्बन्धः । अयमर्थःसीतारामक्ष्मणेः सह गङ्गां प्राप्य गुहेन सह स्थितदिवसस्त्वेकः,रामस्य गङोत्तरणानन्तरं वटमूलावस्तानदिवसस्त्वेकः, रामस्य भरद्वाजश्रमप्राप्तिदिवसे भरद्वाजाश्रमाद्यावत्स्वप्रेषितचारागमनं तावद्दिवसस्त्वेकः, एवमाहत्य त्रिदिवसाः । अतो बहुत्वस्थ त्रित्वे पर्यवसानात् स्थितो ऽस्मि दिवसान् बहूनित्यस्याविरोधः । किञ्च रामस्य भरद्वाजाश्रमप्राप्तिदिवसे भरद्वाजाश्रमाच्चारागमनानन्तरं तस्मिन्नेव दिवसे श्रृङ्गिबेरपुरान्निर्गत्य तृतीयदिवससायङ्काले सुमन्त्रस्यायोध्याप्रवेशसम्भवात् “ततः सायाह्नसमये " इति पूर्वसर्गोक्तस्याप्यविरोध इति सर्वं समञ्जसम् ॥ २।५९।३ ॥

कैकीयीनिमित्तं रामविवासनं सर्वक्षोभकरमभूदित्याहविषय इति । विषये देशे । सपुष्पाङ्कुरकोरकाः पुष्पाण्यभिनवधिकसितानि, अङ्कुराः शाखासु नवपल्लवोद्भेदाः, कोरकाः पुष्पभुकुलानि तैः सहिता वृक्षा अपि परिम्लानाः । अयं भावःरामस्य जगदुपादानकारणत्वेन सर्वात्मकत्वाद्रामैकजीविनः कुसुमकिसलयकोरकसहिता वृक्षादयः छेदनानन्तरं प्ररोहणशीला अपि रामादर्शनव्यसनकर्शिताः छेदनं विनापि परिम्लानाः सद्य एव शुष्कप्राया बभूवुः, किम्पुनर्मनुष्पादय इति ॥ २।५९।४ ॥

उपतप्तेति । पल्वलानि सरांसि च तप्तोदकानि, अनेनाल्पाधिकभागमन्तरेण परितप्तत्वं द्योत्यते । वनानि सन्ततजलसेकमन्तरेण प्रवृद्धानि कठिनाकाराणि, उपवनानि चलसेकप्रवृद्धान्यतिकोमलानि । परिशुष्कपलाशानि एकरूपेण परिशुष्कपत्राणि ॥ २।५९।५ ॥

न चेति । व्यालाः हिंस्राः पशवः न प्रचरन्ति आहारार्थमपि न सञ्चरन्तीत्यर्थः । वनं निष्कूजम्, वनपक्षिणोपि न कूजन्तीर्थः ॥ २।५९।६ ॥

लीनेति । लीनपुष्करपत्राः सङ्कुचितपद्मपत्राः पद्मिन्यः सरस्यः ॥ २।५९।७ ॥

जलजानीति । माल्यानि पुष्पाणि यथापुरं यथापुर्वम् ॥ २।५९।८ ॥

अत्रेति । उद्यानानि आक्रीडान् आरामान् कृत्रिमवनानि ॥ २।५९।९,१० ॥

देवेति । देवराजेत्यत्र देवेति सम्बुद्धिः । अश्रुमुखः अभूदिति शेषः ॥ २।५९।११ ॥

हर्म्यैरिति । हर्मयादिभिरवेक्ष्येति तेषु स्थित्वावेक्ष्येत्यर्थः । हाहाकारकृताः कृतहाहाकाराः, बभूवुरिति शेषः ॥ २।५९।१२ ॥

आयतैरिति । अव्यक्तमिति छेदः ॥ २।५९।१३ ॥

नेति । आर्ततया रामप्रवासजनितार्थत्वेन हेतुना । अमित्राणामन्योन्यशत्रूणां विशेषं नोपलक्षये । मित्राणामन्योन्यमित्राणां च विशेषं नोपलक्षये, अत एवोदासीनजनस्य च विशेषं नोपलक्षय इति सम्बन्धः । अनयोः शत्रुत्वमनयोर्मित्रत्वमयमुदासीन इति बोधो न ज्ञायते । उपकारापकारतदुभयनिवृत्तिभिर्हि तेषां भेदज्ञानमिति भावः ॥ २।५९।१४ ॥

अप्रहृष्टेति । विनिश्वसितनिस्वना दीर्घनिश्वासस्वनयुक्ता ॥ २।५९।१५१७ ॥

सुमन्त्रः पृष्टस्योत्तरमभिधाय ममाकृत्यकरणद्योतनार्थं ततो ऽधिकं कथयतीति बुद्ध्वा अङ्गीकारेणोत्तरमाहकैकेय्येति । विनियुक्तेन, रामं प्रव्राजयेति शेषः । पापाभिजनभावया पापानां जन्मभूम्यभिप्रायया “कुलेष्वभिजनो जन्मभूमौ” इत्यमरः ॥ २।५९।१८ ॥

नेति । नैगमैः वेदशास्त्रविद्भिः ॥ २।५९।१९२१ ॥

यदीति । निवर्तयतु, भवानिति शेषः ॥ २।५९।२२,२३ ॥

वृत्तेति । वृत्तदंष्ट्रः कुन्दकुङ्मलाकारदंष्ट्रः । लक्ष्मणपूर्वजः क्व असावयं मुमूर्षुः क्वेत्यनुकर्षः । मुमूर्षोर्मम रामस्य दर्शनं दुर्लभमित्यार्थः । यदि पश्येयं तदा जीवामि,जीवेयमित्यर्थः ॥ २।५९।२४,२५ ॥

अत इति । न पश्यमीति यत् अतो दुःखतरं किन्नु ॥ २।५९।२६,२७ ॥

स इति । अवगाढः प्रविष्टः ॥ २।५९।२८ ॥

रामेत्यादि । सीताविरहपारगः सीताविरहरूपं पारं गच्छतीति तथा ॥ २।५९।२९,३० ॥

वरवेलः वर एव वेला यस्य सः ॥ २।५९।३१३४ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायां एकोनषष्टितमः सर्गः ॥ २।५९ ॥