प्रत्याश्वस्त इति । मोहात् मूर्च्छायाः । प्रत्याश्वस्तः उपचारैरुद्बोधितः राजा । यो रामसकाशात्प्रत्यागतः । तं सूतम् । रामवृत्तान्तकारणात् रामवृत्तान्तं प्रष्टुम् ॥ २।५८।१ ॥
अथेत्यादिश्लोकद्वयमेकं वाक्यम् । नवग्रहं नवो नूतनो ग्रहो ग्रहणं यस्य तम् । अस्वस्थं व्याधिग्रस्तम् । महाराजमुपस्थितः समीपे तस्थाविति योजना ॥ २।५८।२,३ ॥
राजेति । रजसा ध्वस्ताङ्गं धूलिपरीताङ्गम् । परमार्तवत् परमदीनस्सन् ॥ २।५८।४ ॥
क्वन्विति । वत्स्यति वसति । अशिष्यति अश्नाति ॥ २।५८।५ ॥
दुःखस्येति दुःखं यथा तथा ॥ २।५८।६,७ ॥
व्यालैरिति । व्यालैरजगरैः । मृगैः व्याघ्रादिभिः । उपस्थितौ उपश्रितौ ॥ २।५८।८११ ॥
आसितमिति । आसितादयो भावे निष्ठाः । एतेन रामसम्बन्ध्यासनादिव्यापारश्रवणेन । ययातिरिव साधुष्विति स्वर्गात्पतन् ययातिः ऽमुनिसाधुषु पातयऽ इतीन्द्रं प्रार्थयित्वा यथा साधुषु पतितः एवं स्वर्गतुल्यराज्यान्निर्गत्य साधूनामाश्रमेषु स्थितस्य रामस्य भोजनादि कीर्तय, तेन जीविष्यामीति योजना ॥ २।५८।१२ ॥
इतीति । सः सूतः सज्जमानया स्खलन्त्या बाष्पपरिब्धया कण्ठगतबाष्पनिरुद्धया ॥ २।५८।१३ ॥
अब्रवीदित्यादिश्लोकद्वयमेकं वाक्यम् । हे महाराज राघवो धर्ममेवानुपालयन् भूत्वा मामब्रवीत् । वक्ष्यमाणं वच इति शेषः ॥ २।५८।१४ ॥
किमिति ? हे सूत शिरसा वन्दनीयस्य मे तातस्य मद्वचनात् मत्प्रतिनिधित्वेन अञ्जलिं कृत्वा शिरसाभिप्रणम्य पादौ च वन्द्याविति योजना ॥ २।५८।१५ ॥
किञ्च सर्वमिति । मद्वचनात् सर्वमन्तःपुरमारोग्यमभिवादनं च वाच्यमिति ॥ २।५८।१६ ॥
मातेति । किञ्च मम माता कौसल्यापि वक्तव्या, इति च एनां कौसल्यां ब्रूयाः ॥ २।५८।१७ ॥
किमिति ? धर्मनित्येत्यादि । अभिमानो गर्वः स्वगुणोत्कर्षबुद्धिः, मानः परस्याननुवृत्तिः । अनु राजानं राज्ञः पश्चात् कैकेयीमार्यां श्लाध्यां कारय ॥ २।५८।१८,१९ ॥
कुमार इति । भरते राजवद्वृत्तिः वर्तितव्या सम्पादनीया । कथमुभयमित्यत आह अर्थज्येष्ठा इति । हि यस्मात् अर्थज्येष्ठाः सन्तो राजानः भवन्ति अतः भरतस्य राजदत्तार्थज्येष्टत्वात्तस्य वैमुख्यनिवृत्तये राजधर्ममनुस्मरेति च ॥ २।५८।२० ॥
भरत इति । किञ्च भरतो मद्वचनेन कुशलं वाच्यः । सर्वास्वपि मातृषु यथान्यायम् वृत्तिं वर्तस्वेति च वाच्य इति योजना ॥ २।५८।२१ ॥
वक्तव्य इत्यादिश्लोकद्वयमेकं वाक्यम् । राज्यस्थं प्रधानराज्यस्थम् ॥ २।५८।२२ ॥
अतिक्रान्तेति । एनं दशरथं मा व्यवरोरुधः । कुमारराज्ये यौवराज्ये । तेनैवाज्ञाप्रवर्तनात् जीव, इति वक्तव्य इति पूर्वेण सम्बन्धः ॥ २।५८।२३ ॥
अब्रवीदिति । पुत्रागर्द्धिनी पुत्राभिकाङ्क्षिणी । हे भरत मम माता ते तव मातेव द्रष्टव्या ॥ २।५८।२४ ॥
उपसंहरतिइतीति । इत्येवंप्रकारेण मां ब्रुवन्नेव । अश्रूण्यवर्तत इति पाठः व्यसृजत् ॥ २।५८।२५ ॥
लक्ष्मणस्त्विति वाक्यमब्रवीत् । तदेवाहकेनायमपारधेन इत्यारभ्य सार्धसप्तश्लोकैः । राज्ञा त्विति । येन रामविवासनेन वयमभिपीडिताः तद्विवासनम् अकार्यं तु अकार्यमेव ॥ २।५८।२६ ॥
राज्ञा तु कैकेय्याः लघु तुच्छं शासनमाश्रित्य कार्यं वा कार्यमिव कृतं खल्विति योजना ॥ २।५८।२७ ॥
यदिति । रामः प्रव्राजितो यदि प्रव्राजित इति यत् एतत्प्रव्राजनं लोभकारणकारितं वा, अन्यायेन परद्रव्यापहरणेच्छा लोभः । स एव कारणं हेतुः तेन कारितं लोभहेतुना कैकेयी राज्ञा अकारयद्वा वरदाननिमित्तं वा कैकेय्यै प्रतिश्रुतवरदाननिमित्तं वा भवतु, सर्वथा पक्षद्वयेपि दुष्कृतं कृतम् । वरदानसमये वरद्वयस्य भरताभिषेकरामविवासनरूपेण विनियोगाभावाद्दुष्कृतत्वोक्तिः । दैवप्रेरणया युष्मत्त्यागादृशरथो नोपालब्धव्य इत्याशङ्क्य दैवप्रेरितेनापि दोषसद्भावे त्यागः कार्यः ॥ २।५८।२८ ॥
स च दोषो ऽस्मिन् रामे न दृश्यत इत्याहइदमिति । इदं तावन्मत्पीडनमीश्वरस्य कृतौ दैवप्रेरणायां सत्यां यथाकामं यथेच्छकृतं भवतु तथाप्येतावता अनपराधिनो रामस्य परित्यागे हेतुभूतमपराधं नोपलक्षये, दैवप्रैरितोपि केनचिद्दोषेण हेतुना परित्यजति स दोषो ऽस्मिन्नास्तीत्यर्थः ॥ २।५८।२९ ॥
असमीक्ष्येति । बुद्धिलाघवात् अविवेकात् असमीक्ष्य उचितानुचितमनवेक्ष्य समारब्धं विरुद्धं सर्वलोकविरुद्धम् । विवासनं रामविनासनं कर्तु राघवस्य दशरथस्य संक्रोशं निन्दां जनयिष्यति ॥ २।५८।३० ॥
“गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः । उत्पथं प्रतिपन्नस्य परित्यागो विधीयते ॥ " इति वचनार्थं हृदि निधायाहअहं तावदिति । भर्ता तावदिति । भर्ता स्वामी ॥ २।५८।३१ ॥
अन्यदप्याहसर्वलोकेत्यादि । सर्वलोकप्रियं त्यक्त्वा स्थितं त्वां अनेन क्रूरकर्मणा सर्वलोकः कथमनुरज्येत ॥ २।५८।३२ ॥
सर्वेति । कथं राजा भविष्यसीत्येवं राजानं ब्रूहीति शेषः ॥ २।५८।३३ ॥
जानकीति । विस्मृता विस्मृतसर्वप्रयोजना । अस्मितास्मितरहिता विष्ठिता स्थिता ॥ २।५८।३४३६ ॥
तथैवेति । लक्ष्मणबाहुपालितः लक्ष्मणेन शुश्रूषमाणः ॥ २।५८।३७ ॥
इति । श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायाम् अष्टपञ्चाशः सर्गः ॥ २।५८ ॥