०५७ सुमन्त्रस्य अयोध्यागमनम्

रामे दक्षिणकूलस्थे सति, दुःखार्तस्सन् सुमन्त्रेम सह चिरं कथयित्वा रामभद्रो दृष्टिपथं यावदतिक्रामति तावत्पर्यन्तं तत्रैव स्थित्वा रामगुणान् कथयित्वा स्वगृहं जगाम, तेन सह स्वगृहं जगामेत्यर्थः ॥ २।५७।१ ॥

तेषां रामादीनाम् । भरद्वाजाभिगमनं भरद्वाजमुद्दिश्य गमनम् । प्रयागे तेन सहासनम्, आगिरेर्गमनम् आचित्रकूटाद्गमनम् । तत्रस्थैः श्रृङ्गिबेरपुरस्थैः । गुहप्रेक्षितैश्चारैर्हेतुभिरुपलक्षितम्, सुमन्त्रेण सम्यग्वेदितमित्यर्थः । तत्रस्थैरुपलक्षितमिति श्रृङ्गिबेरपुरे स्थित्वा चारान् प्रेषयित्वा तत्र स्थितेभ्यस्तेभ्यः प्रथमे ऽहनि गङ्गामुत्तीर्य वृक्षमूले न्यवसन्, द्वितीये ऽहनि भरद्वाजाश्रमे ऽवसन्, तृतीये ऽहनि यमुनातीरवने ऊषुः, चतुर्थे ऽहनि चित्रकुटं गमिष्यन्तीति गुहप्रेरितचारैः कथितं सुमन्त्रेण विदितमित्यर्थः ॥ २।५७।२ ॥

अनुज्ञात इति । अथ रामवृत्तान्तपरिज्ञानानन्तरम् । अनुज्ञातः गुहेनेति शेषः ॥ २।५७।३,४ ॥

तत इति । तृतीये ऽहनि तृतीये सायाह्नसमये अह्नस्तृतीयभागभूते सायाह्नकाले सारथिः सुमन्त्रः अयोध्यां समनुप्राप्य निरानन्दां ददर्शेति सम्बन्धः । यद्वा ततः श्रृङ्गिबेरपुरात् निर्गमनदिवसस्य तृतीये ऽहनि सायाह्नसमये सारथिरयोध्यां प्राप्य तां ददर्शेति सम्बन्धः । रामस्य भरद्वाजाश्रमावस्थानदिवसे भरद्वाजाश्रमाच्चारागमनानन्तरं सारथिस्तस्मिन्नेव दिवसे श्रृङ्गिबेरपुरान्निर्गत्य तृतीये ऽहनि सायाह्ने अयोध्यां प्राप्य तां निरानन्दां ददर्शेति सम्बन्धः ॥ २।५७।५११ ॥

शुश्रावेति । ये वयम् । इहास्मिन् रथे राघवं न पश्यामः ते हताः स्मेति तेषामिति ईदृशं वचनं शुश्रावेति सम्बन्धः ॥ २।५७।१२ ॥

दानेति । दानयज्ञादिषु अन्तरा मध्ये धार्मिकं रामं जातु पुनः न द्रक्ष्याम इति तेषां वचः शुश्रावेति पूर्वेण सम्बन्धः ॥ २।५७।१३ ॥

किमिति । अस्य जनस्य इतःपरं किं समर्थं किमुचितं किं सुखावहं वस्तु किमिति पित्रेव रामेण परिपालितं नगरम् इति चिन्ताकुलं बभूवेति शेषः ॥ २।५७।१४ ॥

वातायनेति । अनु अनन्तरम् वातायनगतानां स्त्रीणां परिदेवनं च अन्तरापणम् आपणमध्ये गच्छन् शुश्रावेति सम्बन्धः ॥ २।५७।१५,१६ ॥

स इति । कक्ष्याः द्वाराणि ॥ २।५७।१७ ॥

हर्म्यैरिति । हर्म्यैः धनिकगृहैः । विमानं सप्तभौमसद्म, एतैरुपलक्षितामयोध्यां समागतं सुमन्त्रमवेक्ष्य हाहाकारः । कृतो याभिस्तास्तथा नार्यो बभूवुरितु शेषः ॥ २।५७।१८ ॥

आयतैरिति । अव्यक्तं क्रियाविशेषणमेतत् । अन्योन्यमभिवीक्षन्ते, इति कर्तव्यतामौढ्यादिति शेषः ॥ २।५७।१९ ॥

तत इति । प्रासादेभ्य इति सुमन्त्रस्य राजवेश्मप्रविष्टत्वेन ततोवतीर्णानामिति शेषः । मन्दं जल्पितमिति राजसान्निद्ध्यत्वान्मन्दत्वम् ॥ २।५७।२० ॥

अथ राममातृ़णां दुःखप्रलापःयथेति । यत्रेति विभक्तिप्रतिरूपको निपातः । कौसल्या पुत्रे निर्याते सति यथा आच्छिद्य प्रसह्य जीवति यत्र जीवतीति यत् एतद्दुर्ज्जीवं दुष्करजीवं ध्रुवं निश्चितम् । एवमेवंविधम् जीवनं सुकरं न मन्ये । एवंविधजीवनमन्यैः कर्तुमशक्यमिति मन्ये इत्यर्थः । मन्ये इत्येकैकव्यक्त्यपेक्षया एकवचनम् । सत्यरूपं परमार्थभूतं निशामयन् श्रृण्वन् ॥ २।५७।२१२३ ॥

परिम्लानं क्षीणम् ॥ २।५७।२४ ॥

अभिगम्येति । यथोक्तं प्रत्यवेदयत् विस्तरेण प्रतिपादनमाराद् भविष्यतीत्यर्थः ॥ २।५७।२५,२६ ॥

तत इति । आविद्धं दुःखाभिभूतं सत् ॥ २।५७।२७२९ ॥

अद्येति । एवमनयं दुस्साधनमन्याय्यं कृत्वा व्यपत्रपसि लज्जां प्राप्नोषि । सुकृतं सत्यपरिपालनरूपं पुण्यमस्तु । शोके शोकविषये सहायता नास्ति, शोकानुवर्तनं मा कृथा इत्यर्थः ॥ २।५७।३० ॥

देवेति । विस्त्रब्धं निश्शङ्कम् ॥ २।५७।३१ ॥

बाष्पविप्लुतभाषिणी गद्गदभाषिणी ॥ २।५७।३२३४ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायां सप्तपञ्चाशः सर्गः ॥ २।५७ ॥