०५६ चित्रकूटदर्शनम्

अथेति । अनन्तरं रामप्रबोधानन्तरमपि । अवसुप्तम् ईषत्सुप्तम् ॥ २।५६।१ ॥

सौमित्र इति । वन्यानां शुकपिकादीनां स्वनं श्रृणु । प्रस्थानस्य प्रयाणस्य कालो जातः । अतस्सम्प्रतिष्ठामहे संप्रतिगच्छाम इति योजना ॥ २।५६।२ ॥

स इति । समये प्रबोधनसमये ॥ २।५६।३ ॥

तत इति । जलं स्पृष्ट्वा स्नानाद्यनुष्ठानं कृत्वा ॥ २।५६।४,५ ॥

आदीप्तानिति । आदीप्तानिव आ समन्ताज्ज्वलत इव । मालिनः श्रेणीभूतान् । शिशिरात्यये वसन्ते । यद्वा स्वैः पुष्पैः । मालिनः मालावत इव स्थितान् ॥ २।५६।६ ॥

पश्येति । जीवितुं शक्ष्यामि जीवनसाधनसमृद्धिलाभादिति भावः ॥ २।५६।७ ॥

पश्येति । आढक(चतुष्टयं)द्वयं द्रोणं तावत्प्रमाणमधुपूर्णानि मधुपटलानि । मधुकारीभिः मधुमक्षिकाभिः ॥ २।५६।८ ॥

एष इति । नत्यूहः दात्यूहः । वनोद्देशे वनप्रदेशे । पुष्पसंस्तरसङ्कटे पुष्पैः संस्तर आच्छादनं तेन सङ्कटे निबिडे ॥ २।५६।९१२ ॥

सरसोदकं स्वादूदकसहितम् ॥ २।५६।१३ ॥

मनोज्ञ इति । स्वाजीवः सुखेन जीवितुं शक्यः ॥ २।५६।१४ ॥

मुनय इति । अयं वासो भवेत् वासयोग्यो भवेत् । तावत्तस्माद्रमेमहि इति वाल्मीकिमभिवादयन् अभ्यवादयन् । वाल्मीकिः प्राप्तराज्ये रामे यदा काव्यं करिष्यति तदा तस्य तमसातीराश्रमे वासः, ततः प्राक् चित्रकूटाश्रमे वासः ॥ २।५६।१५,१६ ॥

तानिति । स्वागतं रामं प्रति स्वागतप्रश्नं निवेद्य विज्ञाप्य ॥ २।५६।१७ ॥

तत इति । आत्मानं सन्निवेद्येति । अमुकस्य पुत्रः अमुकहेतोरिहागतवानस्मीत्युक्त्वेत्यर्थः ॥ २।५६।१८२० ॥

तामिति । निष्ठितामन्तर्बहिः प्राकारभित्त्या सुप्रतिष्ठितां बद्धकटाम् । छान्दसोवर्णलोपः । बद्धकवाटाम् ॥ २।५६।२१ ॥

ऐणेयमिति । ऐणेयम् एणाविकारम् । शालां शालाधिष्ठातृदेवतां यक्ष्यामहे । किमर्थमत आह कर्तव्यं वास्तुशमनमिति । वास्तुशब्दो गृहापरपर्यायः । “धिष्ण्यं धाम निकेतनं च सदनं वस्त्यं व वास्तु क्षयः " इति निघण्टुः । वास्तुशब्देन गृहाधिष्ठितशिखिपर्जन्यप्रभृतिपञ्चचत्वारिंशद्देवता उच्यन्ते । तासां शमनं होमनैवेद्यबलिभिः पूजनम् ॥ २।५६।२२ ॥

बोधायनेनोक्तां यज्ञार्थपशुवधदोषशङ्कां निर्वर्तयति कर्तव्य इति । शास्त्रदृष्टः शास्त्रचोदितो विधिः कर्तव्य एव । तं धर्ममेवानुस्मर नात्र हिंशादिदोषप्रसङ्गः । यज्ञविनियुक्तपशूनामुत्तमलोकभागित्वेन वधस्य तेषामनुग्रहत्वाच्च “न वा उवेतन्मृयसे नरिष्यसि देवाँइदेषि पथिभिः सुगेभिः । यत्र यन्ति सुकृतो नापि दुष्कृतस्तत्र त्वां देवः सविता दधातु” इति हि श्रूयते । “तस्माद्यज्ञे वधो ऽवधः " इति च स्मर्यते ॥ २।५६।२३२६ ॥

तं त्विति । निष्टप्तं नितरां तप्तम् । छिन्नशोणितम् उपरतशोणितनिष्यन्दम् ॥ २।५६।२७ ॥

अयमिति । कृष्णः कृष्णमृगः । समाप्ताङ्गः अन्यूनाङ्ग । कृष्णमृगो यथा नीलमृगौ यथा अवैकल्यदग्धत्वात् कृष्णवर्णो मृग इव दृश्यत इत्यर्थः । श्रृतः पक्वः । देवतां शालाधिदेवताम् ॥ २।५६।२८ ॥

राम इति । सत्रावसानिकान् गृहप्रवेशनियुक्ता मंत्रान् गृहीत्वा संग्रहेण वास्तुशान्त्यादिकमकरोत् ॥ २।५६।२९ ॥

इष्ट्वेति । देवगणान् पूर्वोक्तगृहाधिष्ठितपञ्चचत्वारिंशद्देवगणान् ॥ २।५६।३० ॥

एवं गृहाधिष्ठितदेवतापूजाद्युक्त्वा पुनः स्नानपूर्वकं वैश्वदेवादिप्रकारमाह वैश्वदेवेत्यादिश्लोकद्वयेन । वास्तुसंशमनीयानि वास्तुदोषसंशमनार्थानि गर्भन्यासादीनि । मङ्गलानि पुण्याहवाचनादीनि च चकारेति सम्बन्धः ॥ २।५६।३१,३२ ॥

वेदिस्थलेति । वेदिस्थलानां बलिहरणवेदिस्थलानाम् अष्टदिग्वर्तिनामपि विधानानि । चैत्यं गणपत्यायतनम्, आयतनं विष्ण्वादेः । अनुरूपाणीति सूक्ष्ममार्गेण स्थापयामास, तत्तद्देवतानां तत्र तत्रावस्थानं कल्पयामासेत्यर्थः ॥ २।५६।३३३५ ॥

तामिति । वृक्षपर्णच्छदनां वृक्षपर्णैः कृतं छदनम् आच्छादनं यस्याः सा तथा ॥ २।५६।३६३८ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायाम् षट्पञ्चाशः सर्गः ॥ २।५६ ॥