गङ्गायमुनयोः सन्धिं सङ्गमतीर्थं प्राप्य पश्चान्मुखाश्रितां गङ्गाजलवेगाभिहत्या किञ्चित्पश्चान्मुखं प्राप्तम् ॥ २।५५।४ ॥
अथेति । तीर्थम् अवतरणप्रदेशः । प्रचलितं गमनागमनाभ्यामतिक्षुण्णमित्यर्थः ॥ २।५५।५ ॥
तत्रेति । आंशुमतीं सूर्यतनयाम् ॥ २।५५।६ ॥
वृक्षैरुपलक्षितं श्यामं श्यामनामकम् । आशिषः प्रयुञ्जीत अस्माकं शीघ्रं पुनरागमनं भवन्त्विति सीता वृक्षं प्रार्थयेत् । ततः तत्र वसेद्वा अतिक्रमेत वेति सीताभिप्रायेणैकवचनम् ॥ २।५५।७,८ ॥
पलाशेति । यामुनैः यमुनातीरजैः ॥ २।५५।९ ॥
मार्दवयुक्तः कण्टकपाषाणादिरहितः । वनदावैः अरण्याग्निभिः, अतस्तेनैव मार्गेण गन्तव्यमित्यभिप्रायः ॥ २।५५।१०,११ ॥
इतीति । मन्त्रयित्वा मुनिकृतकृपामनुसन्धाय ॥ २।५५।१२,१३ ॥
ताविति । काष्ठसङ्घाटं काष्ठनिचयं प्लवं चक्रतुः । उशीरैः नलदैः ॥ २।५५।१४१६ ॥
पार्श्व इति । कठिनकाजम् । द्वन्द्वैकवद्भावः । कठिनकं खनित्रम्, आजं अजचर्मपिनद्धं पिटकम् ॥ २।५५।१७ ॥
आरोप्येति । सङ्घाटं प्लवम् ॥ २।५५।१८ ॥
पतिः व्रतं चतुर्दशवर्षावधिकं व्रतम् । पारयेत् समापयेदित्यर्थः ॥ २।५५।१९२१ ॥
वृक्षैरुपलक्षिताम् ॥ २।५५।२२२४ ॥
पर्यगच्छत् प्रदक्षिणं चकार ॥ २।५५।२५,२६ ॥
सीतामिति । भरताग्रजेति बहुव्रीहिः ॥ २।५५।२७२९ ॥
एकैकमिति । पप्रच्छ एषां नाम किमिति पप्रच्छ ॥ २।५५।३० ॥
रमणीयानिति । पादपान् । स्तबकविशिष्टपादपावयवान् । सीतावचनसंरब्धः सीतावचने त्वरा यस्य सः तथा ॥ २।५५।३१,३२ ॥
क्रोशेति । चेरतुः भक्षितवन्तौ ॥ २।५५।३३ ॥
विहृत्येति । नदीवप्रं नदीतीरम् ॥ २।५५।३४ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायां पञ्चपञ्चाशः सर्गः ॥ २।५५ ॥