यत्रेति । गङ्गामभि यमुना प्रवर्तत इति योजना । तं देशं प्रयागदेशम् ॥ २।५४।२ ॥
त इति । ते पश्यन्तो जग्मुरिति पूर्वेणान्वयः ॥ २।५४।३ ॥
यथाक्षेमेण, मार्गेणेति शेषः । निवृत्तमात्रे अर्धमण्डलकाले ॥ २।५४।४ ॥
प्रयागमभितः प्रयागस्याभितः । अग्रे भगवतो ऽग्रेः केतुं लिङगं धूमं पश्य, अतो ऽत्र मुनिर्भरद्वाजः सन्निहित इति मन्ये इति सम्बन्धः ॥ २।५४।५ ॥
नूनमिति । सम्भेदं गङ्गायमुनयोः सङ्गमम् ॥ २।५४।६,७ ॥
धन्विनाविति । तौ रामलक्ष्मणौ । निलयम् आश्रमम् तत्समीपवनप्रदेशं प्रापतुः ॥ २।५४।८ ॥
रामस्त्विति । रामस्तु लक्ष्मणेन सहेति शेषः । आश्रमं पूर्वोक्ताश्रमसमीपम् । आसाद्य प्राप्य ततः मुहूर्तमध्वानं गत्वा भरद्वाजं भरद्वाजाश्रममुपागमत् ॥ २।५४।९ ॥
तत इति । आश्रमं तु भरद्वाजाश्रममासाद्य उपागम्य । दूरादेव, उटजस्येति शेषः । अवतस्थुरितिश्लोकत्रयस्याप्येकवाक्यतया योजना ॥ २।५४।१० ॥
स इति । प्रविश्य उटजमिति शेषः तपसा लब्धचश्रुषं त्रैकालिकसर्वजगद्वृत्तान्ताभिज्ञम् ॥ २।५४।११,१२ ॥
न्यवेदयत चात्मानमित्यारभ्य तत्र मूलफलाशना इतिपर्यन्तं स्ववृत्तान्तपूर्वकमात्मानं भरद्वाजाय न्यवेदयतेति सम्बन्धः ॥ २।५४।१३१६ ॥
तस्येति । गां मधुपर्काङ्गभूतं महोक्षं अर्घ्यं पूजाविधेरर्हं गन्धादि ॥ २।५४।१७ ॥
वन्यमूलफलाश्रयान् वन्यमूलफलप्रकृतिकान् ॥ २।५४।१८ ॥
मृगपक्षिभिस्सह राघवमभ्यर्च्य आसीन इति योजना । मृगपक्षिभिस्सहाभ्यर्च्येत्यस्यायं भावः मुनिप्रभावात्तिर्यञ्चो न, राममीश्वरं मत्वा मुनिनिर्विशेषास्सन्तः सेवन्त इति ॥ २।५४।१९,२० ॥
चिरस्येति । चिरस्य चिरकालस्य । इहाश्रमे त्वां पश्यामि । अयं भावःचश्रुराद्यगोचरं त्वामेव मनसि सततमनुसन्दधानो ऽहं चिरकालस्य इह मम पुरतः चक्षुषा पश्यामीत्याश्चर्यम्, अतो मम भाग्यं किं वर्ण्यत इति । लौकिकदृष्टिमनुसृत्याह श्रुतमिति ॥ २।५४।२१२३ ॥
भगवन्निति । इत आसन्नः एतदाश्रमस्यासन्नवर्ती । पौरजानपदो जनः । मां सुदर्शं सुखेन द्रष्टुं शक्यं प्रेक्ष्य ज्ञात्वा । वैदेहीं मां च प्रेक्षको जनः इममाश्रममागमिष्यतीत्यहं मन्ये, अनेन कारणेनेह वासं न रोचय इति सम्बन्धः ॥ २।५४।२४,२५ ॥
एकान्त इति । यत्र यस्मिन्नाश्रमस्थाने तं पश्येति सम्बन्धः । भगवन्नित्यादिश्लोकत्रयस्य वास्तवार्थस्तुभगवन् सर्वज्ञ रावणवधार्थं गूढतयावतीर्णं मां यद्येवं प्रकटीकरोषि तदा सर्वोपि जनः मां सुदर्शं सुष्ठु द्रष्टुं योग्यं सुदर्शं विष्णुं च “दृश्यते त्वग्र्यया " इति श्रुतेः वैदेही मां च लक्ष्मीं च ज्ञात्वा प्रेक्षकः दिदृक्षुःसन् इह आगमिष्यति । तैनैवंविधप्रकटवासं प्रकटावस्थानं न रोचये अतो यत्र परमानन्दैकताने मयि वैदेही रमते “यो मृग्यते हस्तगृहीतपद्मया श्रियेतरैरङ्गविमृग्यमाणया” इत्यादिरीत्या सर्वैराश्रयणीयापि लक्ष्मीः अनवरतानुभवेप्यद्यारब्धानुभवेव नित्यानुरक्ता भवति तम् आश्रीयत इति आश्रयं जगत् तस्य स्थानम् आधारभूतं सर्वोत्तमं स्वरूपगुणविभवैर्ब्रह्मरुद्रादिभ्यः श्रेष्ठतमं मां ममातिप्रियतमस्त्वमेवैकान्ते पश्य गुह्याद्गुह्यतमं मत्स्वरूपं न प्रकटयेति रहस्योपदेशः । (रमते यत्र वैदेही इति पाठः ) ॥ २।५४।२६ ॥
अर्थग्राहकं परमार्थबोधकम् । राघवस्य राघवत्वेनाभिनयं चिकीर्षतः श्रीविष्णोः । एतत्पूर्वोक्तं वाक्यं श्रुत्वा मुनिर्वाक्यमब्रवीदिति सम्बन्धः ॥ २।५४।२७ ॥
श्रीरामोक्तमङ्गीकृत्य रामेणाश्रमस्थानं पृष्ट इव रामस्य वासार्थं स्थानं कथयतिदशक्रोश इति । यस्मिन् गिरौ त्वं निवत्स्यसि स गिरिः । इतो ऽस्मदाश्रमाद्दशक्रोशः, दशक्रोशावस्थित इत्यर्थः ॥ २।५४।२८,२९ ॥
यावता यदा श्रृङ्गाण्यवेक्षते तदैवेति योजना ॥ २।५४।३० ॥
शरदां शतं तपसा विहृत्य क्रीडन्त इव, तपः परिसमाप्येत्यर्थः । कपालशिरसा सह दिवमारूढाः । तपश्चरणे निरन्तरकपालासनेन क्षिप्रक्षीणत्वक्च्छिरोरुहतया कपालावशिष्टशिरसा सह सर्वे दिवमारूढाः, कपालशिरसेत्येतच्छरीरस्याप्युपलक्षणम् । सशरीराः स्वर्गं गताः । यद्वा कपालशिरा इति कस्यचिदृषेः संज्ञा ॥ २।५४।३१,३२ ॥
स राममिति । सर्वकामैः प्रतिजग्राह अतिथियोग्यसत्कारैर्वशीकृतवान् ॥ २।५४।३३३६ ॥
शर्वरीमुषिताः स्म अतःपरं वसतिं त्वदुपदिष्टचित्रकूटगमनवासं प्रत्यनुजानातु अनुज्ञां प्रयच्छेत्यर्थः ॥ २।५४।३७४१ ॥
सरिदिति । (निर्झरानिति पाठः ) । सरितो नद्यः । प्रस्रवणानि तनुतरजलप्रवाहाः, प्रस्थाः सानवः तान् । दरीकन्दरनिर्झरान् दरी पाषाणनिर्भेदः, कन्दराः गुहाः, निर्झराः घनप्रवाहाः तान् ॥ २।५४।४२ ॥
कोयष्टिकः टिट्टिभकः ॥ २।५४।४३ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायां चतुःपञ्चाशः सर्गः ॥ २।५४ ॥