अद्येति । जनपदाद्बहिः अस्मज्जनपदाद्बहिर्देशे । अद्येयं रात्रिर्याता आयाता प्राप्ता, केवलं वनवासरात्रिषु प्रथमा । या चेयं सुमन्त्रेण च रहिता, तामिमां प्राप्य । उत्कण्ठितुं शोकस्मरणं कर्तुं नार्हसि ॥ २।५३।२ ॥
जागर्तव्यमिति । सीताया योगक्षेमौ आवयोर्वर्तेते, सीताया योगक्षमावस्मदायत्तावित्यर्थः ॥ २।५३।३ ॥
रात्रिमिति । कथञ्चिदेवेमामिति उटजादिनिर्माणाभावात् स्वयमार्जितैः तृणपर्णादिभिरिति शेषः ॥ २।५३।४ ॥
इमाः कथाः गिरः ॥ २।५३।५।६ ॥
सा हीति । कैकेयी भरतं दृष्ट्वा राज्यकारणान्महाराजपदाभिषेककारणान्महाराजं प्राणान्नच्यावयेदपि न च्यावयेत् किमिति सम्बन्धः ॥ २।५३।७११ ॥
स हीति । राज्यस्य मुखमेकं सर्वस्मिन् राज्ये एक एव राजा भविष्यतीत्यर्थः ॥ २।५३।१२१७ ॥
क्षुद्रकर्मा हीति । द्वेष्यं द्वेषार्हम् । स्वकृतद्वेषोचितमित्यर्थः । द्वेषादिति वा पाठः । भरते मम मातरं परिदद्याः, समर्पयेत्यर्थः ॥ २।५३।१८२१ ॥
सर्वथा मम जननं मदम्बाया अप्रयोजनमित्याह मन्य इति । हे लक्ष्मण यस्याः मातृवर्द्धितशारिकायाः । हे शुक अरेः अस्मच्चत्रुभूतस्य बिडालस्य पादं दश दंशनं कुरु । इत्येवंरूपं तत्तादृशं प्रियजनकं वाक्यं श्रूयते । अम्बयेति शेषः । सा शारिका मत्तः प्रीतिविशिष्टा प्रीतिप्रदानेन प्रीतिजनेन मत्तो ऽधिकतरा । अम्बाया इति शेषः । अम्बया वर्द्धिततिर्यग्जातिशारिकाकृतप्रीतिदानमात्रमपि मातुर्न कृतमिति भावः ॥ २।५३।२२ ॥
शोचन्त्या इति । अपुत्रायाः पुत्रकृतप्रयोजनरहितायाः ॥ २।५३।२३,२४ ॥
एक इति । तरेयं तरितुं शक्नुयाम् । जयेयमित्यर्थः ॥ २।५३।२५ ॥
अधर्मेति । अधर्मभयात् पितृवाक्याकरणरूपाधर्मभयात् । परलोकस्य चेति नाशाद्भीत इति शेषः ॥ २।५३।२६ ॥
एतदिति । अश्रुपूर्णमुख इत्यस्यायं भावःश्रीरामस्य परमकरुणाशालित्वेन स्वानुरक्तजनदुःखासहिष्णुत्वादश्रुपूर्णमुखत्वम् नतु वस्तुतः । " व्यसनेषु मनुष्याणां भृशं भवति दुःखित" इत्युक्तेरिति ॥ २।५३।२७,२८ ॥
ध्रुवमिति । आयुधिनामिति पदच्छेदः ॥ २।५३।२९ ॥
नैतदिति । हे राम मां च सीतां च विषादयसीति यत् इदं च, हे पुरुषर्षभ त्वं परितप्यस इति यत् एतच्च तव नौपयिकं न युक्तमिति सम्बन्धः । पुरुषर्षभस्य न तापो युक्तः । रामस्य विषादयितृत्वं च न युक्तमिति भावः ॥ २।५३।३० ॥
सीतावदहमप्यवर्जनीय इति वक्तुमात्मनः सीतासाधर्म्यमाहन चेति । अत्र नकारद्वयं तृतीयनकारस्याप्युपलक्षणम् । हे राघव त्वया हीना सीता च त्वया हीनो ऽहं च । एतावुभावावामपि जलादुद्धृतौ मत्स्याविव मुहूर्तमपि न जीवाव इति सम्बन्धः । अनेन श्रीरामवियोगभिया लक्ष्मणेन स्वदैन्यं प्रदर्शितम् ॥ २।५३।३१ ॥
नन्वेवमाग्रहो न कार्यः, पित्रादिसंरक्षणार्थमवश्यं गन्तव्यमिति वदन्तं प्रत्याह नहीति । हे परंतप त्वया विना तातं शत्रुघ्नं सुमित्रां च अद्य प्राप्तं स्वर्गं वा द्रष्टुमपि नेच्छेयम् मनसापीति शेषः । किमुत गत्वा संरक्षितुमिति भावः ॥ २।५३।३२ ॥
तत इति । ततो लक्ष्मणवचनानन्तरम् । तत्र तस्मिन्नेव न्यग्रोधमूले सुखासीनौ सीतारामौ न्यग्रोधे न्यग्रौधमूले सुकृतां लक्ष्मणेन सम्यग्रचितां शय्यां निरीक्ष्य तां भेजाते इति सम्बन्धः ॥ २।५३।३३ ॥
स इति । लक्ष्मणस्य वनवासं प्रत्यादरेणोच्यमानम् अत एवोत्तमपुष्कलमत्यन्तश्रेष्ठं वचो निशम्य स्वयं चिराय धर्मं प्रपद्य स्वीकृत्य लक्ष्मणस्य समाप्ताः समाः प्रत्यनुमतिं विदधे च । वनवासायेति शेषः ॥ २।५३।३४ ॥
तत इति । सम्भ्रमम् इतस्ततो ऽन्वीक्षणादिरूपम् ॥ २।५३।३५ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायां त्रिपञ्चाशः सर्गः ॥ २।५३ ॥