विज्ञायेति । वचो विज्ञाय नदीतरणसाधनं शीघ्रमानेतव्यमित्येवंरूपं रामवचनात्पर्यं ज्ञात्वा । गुहं सूतं चामन्त्र्य युवाभ्यामपि रामवचनतात्पर्यं ज्ञातं किमिति सम्बोध्य यथापुर्वं भ्रातुरग्रतो ऽतिष्ठदिति सम्बन्धः ॥ २।५२।४,५ ॥
अस्येति । अस्यवाहनसंयुक्ताम् अस्य जलं निरस्य नावं तीरं वाहयति प्रापयतीत्यस्यवाहनम् अरित्रमिति यावत् । तत्संयुक्ताम् । यद्वा अस्य रामस्य वाहनसंयुक्ताम् । वाह्यते नीयते नौरनेनेति वाहनमरित्रादि, तद्युक्ताम् । कर्णग्राहवतीं कर्णधारवतीम् । सुप्रतारां सुष्ठु प्रतारयितुं क्षमाम् । दृढां सुश्लिष्टसम्बन्धिबन्धाम् । तीर्थे अवतरणमार्गे, उपाहरेत्येकवचनं सचिवगणाभिप्रायेण ॥ २।५२।६ ॥
तं निशम्येति । उपोह्य समीपं प्रापयेत्यर्थः ॥ २।५२।७ ॥
उपस्थिता प्राप्ता ॥ २।५२।८।९ ॥
अथेति । आरोप्यतां खनित्रपिटकवैदेहीवस्त्राभरणादिकमिति शेषः ॥ २।५२।१० ॥
ततः कलापानित्यादिश्लोकद्वयमेकं वाक्यम् । तौ राघवौ । सन्नह्य कवचौ धृत्वा, कलापान् तूणीरान् खङ्गौ च बध्वा । येन यस्मात्कारणात् रथनिरपेक्षौ गङ्गां जग्मतुः तस्माद्राममुपगम्य सूतः प्राञ्जलिरब्रवीदिति योजना ॥ २।५२।१११३ ॥
पुनर्याहीति सामान्येनोक्तं सोपपत्तिकमाहनिवर्तस्वेति । मम एतावत्कृतं हि गङ्गातीरपर्यन्तं रथेन प्रापणं कृतम्, यानं विहाय पद्भ्यां महावनं गामिष्यामि, अतस्त्वं निवर्तस्वेत्येवमुवाचेति सन्बन्धः ॥ २।५२।१४ ॥
आत्मानमिति । अभ्यनुज्ञातं प्रतिनिवृत्त्या इति शेषः ॥ २।५२।१५ ॥
नातिक्रान्तमिति । यदा सभ्रातृभार्यस्य तव त्वद्विधस्यापि प्राकृतवत् क्षुद्रस्येव येन दैवेन वने वासः कृतः तदा । इदं दैवकृतम् । इह लोके केनचित्पुरुषेणापि । नातिक्रान्तं न लङ्घितम् । लङ्घितुमशक्यमित्यर्थः ॥ २।५२।१६ ॥
न मन्य इति । त्वद्विश्लेषदुःखात् ब्रह्मचर्यादीनां फलं नास्तीत्युक्तम् । वस्तुतस्तु त्वं गतिमिति, हे राघव वने वसन्त्रीन् लोकांस्तु जयन्नेव पितृसत्यपालनेन जयन्नेव वशीकुर्वन्नेव त्वं गतिं मुक्तिं प्राप्स्यसे नात्र सन्देहः ॥ २।५२।१७,१८ ॥
वयमिति । रात्रौ केचन निद्रासमये अविदितगमनेन, अहं तु बलान्निवर्तनेन, एवं सर्वे वयं वञ्चिताः त्यक्ताः ॥ २।५२।१९ ॥
इतीति । आत्मसमं भृत्यस्य स्वस्योचितमिति क्रियाविशेषणम् । आत्मसमं प्राणसममिति रामपरं वा । दूरगतं दृष्ट्वा निश्चित्येत्यर्थः ॥ २।५२।२० ॥
तत इति । स्पृष्टोदकम् आचान्तम् ॥ २।५२।२१,२२ ॥
शोकेति । कामभारावसन्नः कामवेगेन पीडीतः यस्मात् तस्मात् । एतत् वक्ष्यमाणं ब्रवीमीति योजना ॥ २।५२।२३ ॥
यद्यदिति । अविकाङ्क्षया अविशङ्कया । कार्यम् अनुष्ठेयम् ॥ २।५२।२४,२५ ॥
यद्यथेति । यत्कार्यं प्रति यथा अलीकमप्रियम् । नाधिगच्छति दुःखेन न ताम्यति ग्लानिं न प्राप्नोति तत्कार्यं तथा कुर्विति सम्बन्धः ॥ २।५२।२६,२७ ॥
नेति । वत्स्यामहेति सन्धिरार्षः ॥ २।५२।२८ ॥
चतुर्दशस्विति । पुनः पुनः पुनरागतानस्मान् पुनस्त्वं द्रक्ष्यसीति द्वयोः पुनश्शब्दयोस्सम्बन्धः ॥ २।५२।२९ ॥
एवमिति । सहिताः मम मात्रेति शेषः । कैकेयीं च आरोग्यं ब्रूहीति सम्बन्धः । स्वमातुः पादाभिवन्दनमादिशति कौसल्यामिति । सीतायाः मम च आर्यस्य विदुषो लक्ष्मणस्य च वचनात्पादाभिवन्दनं ब्रूया इत्यन्वयः यद्वा ब्रूहीति पूर्वेण सम्बन्धः ॥ २।५२।३०,३१ ॥
स्वविश्लेषजदुःखनिवृत्तये सुमन्त्रे स्वातन्त्र्यमारोप्याह महाराजमित्यादि । महाराजं त्वत्पूर्वं नृपमते दशरथानुमते भरतमभिषिच्य अभिषेचयसि चेत् तर्हीदं दुःखं त्वां नाभिभविष्यतीति सम्बन्धः । यद्वा दशरथं प्रति वक्तव्यमिति सुमन्त्रं प्रत्याह ब्रूया इति । ५२।३२३५ ॥
तातस्येति । तातस्य प्रियकामेन यौवराज्यमपेक्षता अङ्गीकुर्वता अभयोरिह परयोः सुखमेधितुं शक्यम्, जनानामिति शेषः । यद्वा यौवराज्यमपेक्षता त्वया उभयोर्लोकयोः तातस्य दशरथस्य सुखमेधितुं संवर्धयितुं शक्यमिति सम्बन्धः ॥ २।५२।३६३९ ॥
स राममिति । स रामं तावत्प्रथमं दृष्ट्वा तदा स्थितो यो जनः या पुरी च स जनः सा पुरी च पश्चाद्विना रामं रथं दृष्ट्वा विदीर्येतापि । अपिः सम्भावनायाम् ॥ २।५२।४० ॥
दैन्यमिति । हतवीरं हतरथिनं रथं दृष्ट्वा स्वसैन्यमिव स्वसेनेव ॥ २।५२।४१ ॥
दूर इति । अग्रतः पुरतः स्थितं वनप्रयाणोन्मुखं त्वाम् अत एव मानसेन दूरे निवसन्तं चिन्तयन्त्यः प्रजाः निराहाराः कृताः । अद्य त्यक्त्वा वनं गतं त्वां चिन्तयन्त्यः मरिष्यन्ति नूनमित्यर्थः ॥ २।५२।४२ ॥
मत्प्रवासनमात्रेण कथं तेषां मरणशङ्केत्यत आहदृष्टमिति । प्रजानां यादृशं सङ्कुलं दुःखप्रलापः वृत्तं जातं तत्त्वया दृष्टम् ॥ २।५२।४३ ॥
आर्तेति । सरथं भवद्विरहितरथयुक्तमित्यर्थः ॥ २।५२।४४ ॥
किञ्चि त्वद्वियोगदुःखितां त्वन्मातरं प्रति तव वनवासस्थितिर्वक्तुमशक्या, अपि तु तस्याः दुःखनिवृत्तये असत्यमप्यहं ब्रूयामित्याह अहमित्यादिश्लोकद्वयेन । किं चाहं तव देवीं मातरं प्रति अहमेवमपि वक्ष्यामि, कथं तवासौ सुतो मया मातुलकुलं कोसलदेशं नीतः नतु वनम्, अतो मा सन्तापं कृथा इति असत्यमीदृशं वचनमेवाहं ब्रूयां सत्यमपीदं वचः वननयनवचनं कथमेवाहमप्रियं ब्रूयाम् “सत्यं ब्रूयात्प्रियं ब्रूयान्न ब्रूयात् सत्यमप्रियम् " इति स्मरणादित्याशयः । यद्वा कौसल्यां प्रति किं वक्ष्यामीत्यभिप्रायेणाह अहमित्यादि । देवीं कोसल्याम् । अहं किञ्चापि वक्ष्यामि न किञ्चिदपि वक्ष्यामि । कुतस्तव सुतो मातुलकुलं नीत इति ईदृशमसत्यमपि न ब्रूयां तर्हि सत्यं ब्रूहीति चेत् सत्यमपीदमप्रियं वचः कथं ब्रूयामिति सम्बन्धः ॥ २।५२।४५,४६ ॥
ममेति । त्वद्बन्धुजनवाहिनः त्वां त्वद्बन्धुजनं सीतासौमित्रिरूपम् । वहनशीलाः मम नियोगस्थाः मदधीनाः, कथं प्रवक्ष्यन्ति वहिष्यन्ति ॥ २।५२।४७५० ॥
त्वत्कृतेनेति । त्वया कृतानुग्रहेण । रथचर्याकृतं रथप्रेरणकृतं सुखमवाप्तम् । वनवासकृतं सुखमाशंसे । अस्यायं भावः त्वमस्मिन् कुले अवतरिष्यसीति ज्ञात्वैव मन्त्रिप्रधानोप्यहं त्वद्रथचर्यासेवाभाग्यं मम भविष्यतीति निन्द्यमपि सूतकृत्यं मया अङ्गीकृतम्, तेन भाग्यवशात्त्वत्सेवासुखं प्राप्तमेव, इतः परं वनवासकृतं सुखं वनवासेपि त्वत्सेवाकृतं सुखं आशंसे प्रार्थये इति ॥ २।५२।५१ ॥
प्रसीदेति । अरण्ये ते प्रत्यनन्तरः प्रत्यासन्नः अनुकूलो भवितुमिच्छामि त्वं मे प्रत्यनन्तरो भवेति त्वदभिहितं त्वदुक्तमिच्छामीति सम्बन्धः ॥ २।५२।५२५५ ॥
वनवास इति । वनवासे वावासयोग्यकाले क्षयं प्राप्ते पुरीं वहेयं प्रापयेयमिति यत् एष मे मनोरथ इति योजना ॥ २।५२।५६,५७ ॥
भृत्येति । भर्तृपुत्रगते पथि राजपुत्राश्रिते पथि यथा भृत्येन स्थातव्यं तथा त्वद्विषये तिष्ठन्तम् तथा स्थित्यां स्थितमिति मन्त्रिणा राजनि राजकार्ये च तथा स्थातव्यम्, तस्यामेव स्थित्यां सदा स्थितम्, कदाप्यपराधरहितमिति यावत् ॥ २।५२।५८६० ॥
नगरीमिति । रामो वनं गत इति कैकेयीप्रत्ययं गच्छेदिति योजना ॥ २।५२।६१,६२ ॥
एष इति । अम्बा भरतारक्षितं भरतेनारक्षितम् अनुमन्ताद्रक्षितं पुत्रराज्यं तज्जसुखमवाप्नुयादिति यत् एष मे प्रथमः कल्पः मुख्यं प्रयोजनमिति योजना ॥ २।५२।६३ ॥
ममेति । सन्दिष्टः उपदिष्टः ॥ २।५२।६४६५ ॥
नेति । सजने वने मे अयं वासो न योग्यः, किन्तु आश्रमे जनपदरहिते वासो योग्यः । तद्गतो विधिः आश्रमवासोचितजटाधारणादिरिदानीं कर्तव्य इत्यन्वयः ॥ २।५२।६६ ॥
सोहमित्यादिसार्धश्लोकमेकं वाक्यम् । सीतायाः लक्ष्मणस्य च हितकामो ऽहं पितुर्भूयः अतिशयेन हितकामस्सन् वन्याहाराधश्शयनादिनियमं गृहीत्वा जटाः कृत्वा गमिष्यामि । तदर्थं न्यग्रोधक्षीरमानयेति गुहमब्रवीदिति पूर्वेण सम्बन्धः । यद्वा सीताया लक्ष्मणस्य च अनुमत्येति शेषः । अन्यत्समानम् ॥ २।५२।६७७० ॥
तत इति । वैखानसं मार्गं वानप्रस्थधर्ममास्थितः प्राप्तस्सन् । व्रतं वानप्रस्थव्रतमादिष्टवान् अङ्गीकृतवान् । अस्य श्लोकस्य चुतर्थपादस्तूत्तरश्लोकेन सम्बध्यते ॥ २।५२।७१ ॥
अप्रमत्त इति । दुरारक्षतमं दुःखेन रक्षितुं योग्यतमम् ॥ २।५२।७२७४ ॥
आरोहेति । नावं परिगृह्य सीतामादाय अन्वक्षं पश्चात् त्वमप्यरोहेति सम्बन्धः ॥ २।५२।७५ ॥
स इति । अप्रतिकूलयन् अनुकूलयन् ॥ २।५२।७६,७७ ॥
राघव इति । ब्रह्मवत् क्षत्रवत् । अर्हार्थे वतिः । ब्राह्मणक्षत्रियार्हं नावारोहणमन्त्रमात्मनो हितमुद्दिश्य जजापेत्यन्वयः । “सुत्रामाणमृचा नावमारोहेदप उत्तरेत् " इति क्षत्रियाधिकारेण स्मरणात् । “दैवीं नावम्” इत्यादिब्रह्मक्षत्रसाधारणं मन्त्रं जजापेत्यर्थः ॥ २।५२।७८८० ॥
तत इति । कर्णधारसमाहिता नाविकेन सज्जीकृता । स्फ्यम् अरित्रम्, तेन वेगादभिहता प्रणुन्ना ॥ २।५२।८१८९ ॥
यानीति । यानि तीर्थानि प्रयागादीनि, आयतनानि काश्यादीनि ॥ २।५२।९०९३ ॥
अथेति । संरक्षणार्थाय, सीताया इति शेषः ॥ २।५२।९४९६ ॥
नहि तावदिति । असुकरेति पदच्छेदः । असुकरा दुष्करा । काचन क्रिया तावत् पुर्वं नातिक्रान्ता इतः प्रभृति दुष्करः, क्रियारम्भ इति यावत् । अद्येत्यादिसार्धश्लोकमेकं वाक्यम् ॥ २।५२।९७ ॥
प्रनष्टेति । विषमं निम्नोन्नतम् । प्रपातं गर्तादि । यस्मादद्यैव हि वनं प्रवेक्ष्यति तस्मात्कारणाद्वनवासस्य दुःखं वेत्स्यतीति सम्बन्धः ॥ २।५२।९८१०० ॥
स इति । वत्सान् वत्सदेशान् ॥ २।५२।१०१ ॥
तत्रेति । ऋश्यादयो हरिणभेदाः । काले सायङ्काले ॥ २।५२।१०२ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायाम् अयोध्याकाण्डव्याख्यायां द्विपञ्चाशः सर्गः ॥ २।५२ ॥