तमिति । भ्रातुरर्थाय भ्रातुः सेवायै । अदम्भेन अकौटिल्येन, विश्वासेनेति यावत् । सन्तापसन्तप्तः रामदुर्दशादर्शनसन्तापेन पीडित इत्यर्थः । राघवं लक्ष्मणम् ॥ २।५१।१ ॥
इयमिति । प्रत्याश्वसिहि विश्रान्तो भव ॥ २।५१।२ ॥
अयं जनः आटविको ऽहम् ॥ २।५१।३।४ ॥
अस्येति । आशंसे प्रार्थये । अस्य प्रसादादेव केवलमिति योजना ॥ २।५१।५,६ ॥
नहीति । अविदितम् अज्ञातम् । किञ्चि चतुरङ्गमिति । प्रसहेमहि परकीयामिति शेषः ॥ २।५१।७ ॥
लक्ष्मण इति । अत्र देशे ॥ २।५१।८१० ॥
य इति । मन्त्रो गायत्र्यादिः । तपः कृच्छ्रादिः । पराक्रमैः परेषां महतां आक्रमैः आगमैः, आशीर्भिरित्यर्थः । एको मुख्यः । सदृशं लक्षणं यस्य स तथा ॥ २।५१।११,१२ ॥
विनद्येत्यादि । श्रमेणोपरता भविष्यन्तीति शेषः । अतः निर्घोषरतम् उपरतनिर्घोषं भविष्यतीति मन्ये ॥ २।५१।१३ ॥
कौसल्येति । ते सर्वे जीवन्ति जीविष्यन्तीति नाशंसे, यदि जीवन्ति इमां शर्वरीमेव ॥ २।५१।१४ ॥
जीवेदपीति । जीवेदपि एतद्रात्र्याः परमपीति शेषः । मातैव जीविष्यति । वीरसूः वीरं पुत्रं सूत इति तथा । कौसल्या विनशिष्यतीति यत् तदेव मम दुःखम् ॥ २।५१।१५ ॥
अनुरक्तेति । संसृष्टा युक्ता ॥ २।५१।१६१८ ॥
अतिक्रान्तमिति । मे पिता पुनरागतं रामं राज्ये अनिक्षिप्य अत एव मनोरथमप्यनवाप्य विनशिष्यति यस्मात् तस्मात् अतिक्रान्तमतिक्रान्तं सर्वं प्रयोजनमत्यर्थमतीत्य गतमित्यर्थः ॥ २।५१।१९ ॥
सिद्धार्था इति । तस्मिन् काले अवसानकाले ह्युपस्थिते प्राप्ते सति वृत्तं मृतं पितरं सर्वेषु प्रेतकार्येषु, संस्करिष्यन्ति ते सिद्धार्थाः भाग्यवन्त इति योजना ॥ २।५१।२० ॥
रम्योति । चत्वरं गृहाङ्गणम् । हर्म्यानि धनिनां वासः । प्रासादाः देवभूभुजां च वासाः । सम्बाधां
सङ्कुलाम् । समाजोत्सवशालिनीं उत्सवसमूहशालिनीं राजधानीं सुखिता भाग्यवन्तो भरतादय इति शेषः ॥ २।५१।२१२३ ॥
अपीति । दशरथो जीवेदपि जीवेद्यदि पश्यामः द्रक्ष्याम इत्यर्थः । यद्वा दशरथो जीवेदपि जीवेत्किम् । सम्प्रश्ने लिङ् । सुव्रतं दशरथम् अपि पश्यामः द्रक्ष्यामः किमित्यर्थः ॥ २।५१।२४ ॥
अपीति । सत्यप्रतिज्ञेन रामेण सार्धं वनवासे निवृत्ते सति अयोध्यां प्रविशेमहि प्रवेक्ष्यामः किमित्यर्थः ॥ २।५१।२५ ॥
परिदेवनं प्रलापः । राजपुत्रस्य लक्ष्मणस्य । तिष्ठतो जाग्रतः सतः अत्यवर्तत अतीत्य गता ॥ २।५१।२६ ॥
तथा हीति । गुरुसौहृदात् गुरौ रामे सौहृदात् स्नेहात् । तथा सत्यं वास्तवं ब्रुवति सति । अथवा गुहोपि रामे गुरिसौहृदात् अतिस्नेहात् ज्वरातुरः, अतएव व्यथातुरः । नागः गजः ॥ २।५१।२७ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायाम् अयोध्याकाण्डव्याख्यायाम् एकपञ्चाशः सर्गः ॥ ५१ ॥