०५० गङ्गातीरे गुहसमागमः

विशालानिति । यात्वा गत्वा । स्वदेशान्तमिति शेषः ॥ २।५०।१ ॥

आरब्धस्य व्रतस्य निर्विघ्नेन समप्त्यर्थं निर्गमनसमये शिष्टाचारप्राप्तपुरदेवतानमस्कारस्य

कार्यसङ्कटेनाकृतत्वात् स्वदेशान्ते स्थित्वा पुरीमनुज्ञां याचते आपृच्छ इत्यादि द्वाभ्याम् । त्वां दैवतानि च आपृच्छे प्रार्थये ॥ २।५०।२ ॥

प्रार्थनाप्रकारमेवाहनिवृत्तेति ॥ २।५०।३ ॥

जानपदं जनं स्वदर्शनार्थं तत्रागतं जनम् । अश्रुपूर्णमुखो दीन इत्यस्यायं भावः

ऽव्यसनेषु मनुष्याणां भृशं भवति दुःखितःऽ इत्युक्तेः दुःखितजनान् दृष्ट्वा तेषां दुःखनिवारणाय स्वयमप्यश्रुपूर्णमुखो ऽभूदिति ॥ २।५०।४ ॥

अनुक्रोशः आदरः । दया कारुण्यम् । यद्वा अनुक्रोशो जुगुप्सा, जुगुप्सनीयान् कैकेयीप्रभृतीन्प्रति जुगुप्सा । मयि दया च यथार्हं वो युष्माभिः कृतः । दुःखस्य चिरं दीर्घकालानुभवः पापीयः अशोभनम् असह्यतरं वा, अतो युष्माभिः गम्यताम् । अर्थसिद्धये प्रकृतार्थसिद्धये वयं गच्छाम इति शेषः । यद्वा यथार्हं यथायोग्यम् । मयि कृतो यो ऽनुक्रोशो ऽनुतापो दया च, पापीयः तदिदं सर्वं वः युष्माकं दुःखस्य चिरं बहुकालानुभवाय सम्पन्नम्, अतः किं कुर्मः, इदानीं गम्यताम्, वयमर्थसिद्धये

प्रकृतार्थसिद्धये साधयाम इत्यर्थः । अवतारप्रयोजनं रावणवधादिकमिति कटाक्षः ॥ २।५०।५,६ ॥

तथेति । अतृप्तानां दर्शनतृप्तिरहितानाम् । क्षणदामुखे सायंकाले ॥ २।५०।७ ॥

रामः स्वदुस्त्यजां राज्यश्रियं तृणीकृत्य गत इति द्योतयितुं कोसलदेशमनुवर्णयतितत इति । चैत्यानि देवतायतनानि । यूपाः यागीयपशुबन्धनस्तम्भाः ॥ २।५०।८ ॥

गोकुलैराकुलतया निबिडतया सेवितान् ॥ २।५०।९ ॥

लक्षणीयान् एकैकशो नगरसदृशत्वेन नरेन्द्राणां नरेन्द्रैः लक्षितुं योग्यानित्यर्थः । कोसलान् कोसलदेशस्थग्रामान् ॥ २।५०।१० ॥

मध्येनेति । राज्यं मध्येन ययौ, मध्यगत्यवलम्बेन ययावित्यर्थः ॥ २।५०।११,१२ ॥

काले क्रीडाकाले ॥ २।५०।१३,१४ ॥

देवानामाक्रीडाः क्रीडापर्वताः, तेषां शतैराकीर्णां व्याप्तम्, तीर इति शेषः । देवार्थं देवप्रयोजनार्थम् । आकाशगमाम् आकाशं प्राप्ताम् । देवपझिनीं देवभोग्यहेमपद्मिनीम् ॥ २।५०।१५ ॥

गङ्गां स्त्रीत्वेन वर्द्धयतिजलेति । शिलादिपतनस्थले यो ऽयं जलघातः स शब्दः तद्रूपेणाट्टहासेनोग्राम् ॥ २।५०।१६,१७ ॥

आभोगपुलिनां विस्तारपुलिनाम् ॥ २।५०।१८२३ ॥

शिंशुमारः जलकपिः । “शिंशुमारस्त्वम्बुकपिः” इति वैजयन्ती । नक्रैः मकरैः ॥ २।५०।२४ ॥

श्रृङ्गिबेरपुरं प्रति श्रृङ्गिबेरपुरमुद्दिश्य गच्छन् गङ्गामाससादेति सम्बन्धः ॥ २।५०।२५ ॥

तामिति । ऊर्मिभिः कलिलाः सम्पृक्ताः आवर्ताः यस्यां तां पूर्वोक्तां गङ्गाम्, अन्ववेक्ष्य आसाद्य । इह गङ्गातीरे । अद्य वसामह इति सुमन्त्रमब्रवीदिति योजना ॥ २।५०।२६ ॥

अविदूरादिति । इङ्गुदीवृक्षः तापसतरुः ॥ २।५०।२७२९ ॥

अभियाय प्राप्य ॥ २।५०।३०,३१ ॥

तत्र राजेति । आत्मसमः सखा निषादजात्यामुत्पन्नः, स्थपतिः निषादाधिपतिः ॥ २।५०।३२,३३ ॥

तत इति । समागच्छत् सङ्गतो ऽभूत् ॥ २।५०।३४ ॥

तमिति । आर्तः धृतवल्कलदर्शनेन तप्तः ॥ २।५०।३५३७ ॥

स्वेष्टदेवं श्रीरामं स्वपुरमागतमालोख्य परमानन्दनिर्भरो गुहः स्वकीयं सर्वस्वं श्रीरामाय निवेदयतिस्वागतमिति । प्रशाधि स्वीकुरु ॥ २।५०।३८ ॥

भक्ष्यमिति । एतत्सर्वमनुगृहाणेति श्रीरामं प्रार्थयामासेति शेषः ॥ २।५०।३९ ॥

गुहमिति सार्धश्लोकमेकं वाक्यम् । पद्भ्यामाभिगमाच्च स्नेहसन्दर्शनेन च अर्चिता इति प्रत्युवाचेत्यन्वयः ॥ २।५०।४० ॥

भुजाभ्यामित्यादि सार्धश्लोकमेकं वाक्यम् । हे गुह ते राष्ट्रे धनेषु च कुशलमपि कुशलं किमिति च । बान्धवैः सह अरोगं त्वां दृष्ट्वा दैवेन पश्यामीति च पीनाभ्यां भुजाभ्यां गुहं साधु सम्यक् पीडयन् आश्लिष्यन् वाक्यमब्रवीदितियोजना ॥ २।५०।४१,४२ ॥

यत्त्विति । अनुजानामि प्रतिददामि ॥ २।५०।४३ ॥

तत्र हेतुमाहकुशचीरेति । तापसं विद्धीति सम्बन्धः ॥ २।५०।४४ ॥

अश्वानामिति । अत्र भवता पूज्येन ॥ २।५०।४५ ॥

समाहितैः तृप्तैः ॥ २।५०।४६,४७ ॥

चीरोत्तरासङ्गः चीरं वल्कलम्, उत्तरासङ्गः उत्तरीयं यस्य सः ॥ २।५०।४८,४९ ॥

गुहः सूतेन सह सौमित्रिमनुभाषयन् रामगुणान् प्रस्तुत्य सौमित्रिं वाचयन् राममनु रामं लक्ष्यीकृत्य अजाग्रत् ॥ २।५०।५०,५१ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायाम् अयोध्यकाण्डव्याख्यायां पञ्चाशः सर्गः ॥ २।५० ॥